कर्णपर्व
अध्यायः ४६
धृतराष्ट्र उवाच।
सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय।
येन कर्णो महाबाहू रथोपस्थे निपातितः।।
कर्णो ह्येको रणे हन्ता पाण्डवान्सृञ्जयैः सह।
इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः।।
पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे।
ततः परं किमकरोत्पुत्रो दुर्योधनो मम।।
सञ्जय उवाच।
विमुखं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे।
पुत्रस्तव महाराज सोदर्यानिदमब्रवीत्।।
शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत।
भीमसेनभयेऽगाधे म़ज्जन्तं व्यसनार्णवे।।
ते तु राज्ञा समादिष्टा भीमसेनं जिघांसवः।
अभ्यवर्तन्त सङ्क्रुद्धाः पतङ्गाः पावकं यथा।।
श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः।
निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ।।
दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ।
धनुर्ग्राहो दुर्मदश्च जलसन्धः शलः सहः।।
एते रथैः परिवृता वीर्यवन्तो महाबलाः।
भीमसेनं समासाद्य समन्तात्पर्यवारयन्।।
ते व्यमुञ्चञ्छरव्रातान्नानालिङ्गान्समन्ततः।
स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः।।
तेषामापततां क्षिप्रं सुतानां ते जनाधिप।
रथैः पञ्चशतैः सार्धं पञ्चाशदहनद्रथान्।।
विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः।
भीमसेनो महाराज तत्पपात हतं भुवि।।
सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तथा।
`अशोभत महाराज पूर्णचन्द्र इवाम्बरे'।।
तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतस्तदा।
अभ्यद्रवन्त समरे भीमं भीमपराक्रमम्।।
ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे।
जहार समरे प्राणान्भीमो भीमपराक्रमः।।
तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ।
विकटश्च सहश्चोमौ देवपुत्रोपमौ नृप।।
ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम्।
नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि।।
हाहाकारस्ततस्तीव्रः सम्बभूव जनेश्वर।
वध्यमानेषु वीरेषु तव पुत्रेषु धन्विषु।।
तेषां सुलुलिते सैन्ये पुनर्भीमो महाबलः।
नन्दोपनन्दौ समरे प्रैषयद्यमसादनम्।।
ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः।
भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम्।।
पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रः सुदुर्मनाः।
हंसवर्णान्हयान्भूयः प्रैषयद्यत्र पाण्डवः।।
ते प्रेषिता महाराज मद्रराजेन वाजिनः।
भीमसेनरथं प्राप्य समसज्जन्त वेगिताः।।
स सन्निपातस्तुमुलो घोररूपो विशाम्पते।
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे।।
दृष्ट्वा मम महाराज तौ समेतौ महारथौ।
आसीद्बुद्विः कथं युद्वमेतदद्य भविष्यति।।
ततो भीमो रणश्लाघी छादयामास पत्रिभिः।
कर्णं रणे महाराज पुत्राणां तव पश्यताम्।।
ततः कर्णो भृशं क्रुद्धो भीमं नवभिरायसैः।
विव्याध परमास्त्रज्ञो भल्लैः सन्नतपर्वभिः।।
तान्निहत्य महाबाहुर्भीमो भीमपराक्रमः।
आकर्णपूर्णैर्विशिखैः कर्णं विव्याध सप्तभिः।।
ततः कर्णो महाराज आशीविष इव श्वसन्।
शरवर्षेण महता छादयामास पाण्डवम्।।
भीमोऽपि ततं शरव्रातैश्छादयित्वा महारथम्।
पश्यतां कौरवेयाणां विननर्द महाबलः।।
ततः कर्णो भृशं क्रुद्धो दृढमादाय कार्मुकम्।
भीमं विव्याध दशभिः कङ्कपत्रैः शिलाशितैः।
कार्मुकं चास्य चिच्छेद भल्लेन निशितेन च।।
ततो भीमो महाबाहुर्हेमपट्टविभूषितम्।
परिघं घोरमादाय मृतत्युदण्डमिवापरम्।
कर्णस्य निधनाकाङ्क्षी चिक्षेपातिबलो नदन्।।
तमापतन्तं परिघं वज्राशनिसमस्वनम्।
चिच्छेद बहुधा कर्णः शरैराशीविषोपमैः।।
ततः कार्मुकमादाय भीमो दृढतरं तदा।
छादयामास विशिखैः कर्णं परबलार्दनम्।।
ततो युद्धमभूद्धोरं कर्णपाण्डवयोर्मृधे।
बलीन्द्रयोरिव मुहुः परस्परवधैषिणोः।।
ततः कर्णो महाराज भीमसेनं त्रिभिः शरैः।
आकर्णपूर्णैर्विव्याध दृढमानम्य कार्मुकम्।।
सोऽतिविद्धो महेष्वासः कर्णेन बलिनां वरः।
घोरमादत्त विशिखं कर्णकायावदारणम्।।
तस्य भित्त्वा तनुत्राणं भित्त्वा कायं च सायकः।
प्राविशद्वरणीं राजन्वल्मीकमिव पन्नगः।।
स तेनातिप्रहारेण व्यथितो विह्वलन्निव।।
सञ्चचाल रथे कर्णः क्षितिकम्पे यथाऽचलः।।
ततः कर्णो महाराज रोषामर्षसमन्वितः।
भीमं तं पञ्चविंशत्या नाराचानां समार्पयत्।।
चिच्छेद कार्मुकं तूर्णं पाण्डवस्याशु पत्रिणा।।
तततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्वसन्निव।
विरथं भीमकर्माणं भीमं कर्णश्चकार ह।।
विरथो भरतश्रेष्ठ प्रहसन्ननिलोपमः।
गदां गृह्य महाबाहुरपतत्स्यन्दनोत्तमात्।।
गदया च महाराज कर्णस्य रथकूबरम्।
पोथयामास सङ्क्रुद्धः समरे शत्रुतापनः।।
स क्रोधवशमापन्नः पाण्डुपुत्रः प्रतापवान्।
विद्राव्य गदया वीरस्तव पुत्रान्महाहवे।।
नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः।
व्यधमत्सहसा भीमः क्रुद्धरूपः परन्तपः।।
दन्तवेष्टेषु नेत्रेषु कुम्भेषु च कटेषु च।
मर्मस्वपि च मर्मज्ञस्तान्नागानवधीद्बली।।
`अर्दिता भीमसेनेन विनदन्तो भृशातुराः'।
ततस्ते प्राद्रवन्भीताः प्रहताश्च पुनःपुनः।
महामात्रास्तमावव्रुर्मेघा इव दिवाकरम्।।
तान्स सप्तशतान्नागान्सारोहायुधकेतनान्।
भूमिष्ठो गदया जघ्ने वज्रेणेन्द्र इवाचलान्।।
ततः सुबलपुत्रस्य नागानतिबलान्पुनः।
पोथयामास कौन्तेयो द्विपञ्चाशदरिन्दमः।।
तथा रथशततं साग्रं पत्तींश्च शतशोऽपरान्।
न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम्।।
प्रताप्यमानं सूर्येण भीमेन च महात्मना।
तव सैन्यं सञ्चुकोच चर्माग्नावाहितं यथा।।
ते भीमभयसन्त्रस्तास्तावका भरतर्षभ।
विहाय समरे कर्णं दुद्रुवुर्वै दिशो दश।।
रथाः पञ्चशताश्चान्ये हादिनः शरवर्षिणः।
भीममभ्यद्रवन्घ्नन्तः शरपूगैः समन्ततः।।
तान्स पञ्चशतान्वीरान्सपताकध्वजायुधान्।
पोथयामास गदया भीमो विष्णुरिवासुरान्।।
ततः शकुनिनिर्दिष्टाः सादिनः शूरसम्मताः।
त्रिसाहस्राण्यभिययुः शरशक्त्यृष्टिपाणयः।।
तान्प्रत्युद्गम्य यवनान्साश्वारोहांस्तदाऽरिहा।
विविधान्विचरन्मार्गान्गदया समपोथयत्।।
तेषामासीन्महाञ्छब्दस्ताडितानां च सर्वशः।
अग्निभिर्दह्यमानानां नलानामिव भारत।।
एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान्।
हत्वाऽन्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात्।।
कर्णोऽपि समरे राजन्धर्मपुत्रमरिन्दमम्।
स शरैश्छादयामास सारथिं चाप्यपातयत्।।
ततः स प्रद्रुतं सैन्यं दृष्ट्वा कर्णो महारथः।
राजानमभिधावन्तं शरैरावृत्य रोदसी।
क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः।।
सन्निवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः।
भीमं प्रच्छादयामास समन्तान्निशितैः शरैः।।
भीमसेनरथप्रेप्सुं कर्णं भारत सात्यकिः।
अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात्।।
भीमसेनरथप्रेप्सुं कर्णो भारत सात्यकिम्।
अभ्यवर्तत शैनेयमर्दयञ्छरवृष्टिभिः।।
तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम्।
विसृजन्तौ शरान्दीप्तान्विभ्राजेतां मनस्विनौ।।
ताभ्यां वियति राजेन्द्र विततततं भीमदर्शनम्।
कौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत।।
नैव सूर्यप्रभा राजन्न दिशः प्रदिशस्तथा।
प्राज्ञासिष्म वयं ते वा शरैर्मुक्तैः सहस्रशः।।
मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः।
हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा।।
सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम्।
संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः।।
तेषामापततां शब्दस्तीत्र आसीद्विशाम्पते।
उद्वृत्तानां यथा वृष्ट्या सागराणां भयावहः।।
ते सेने भृशसंसक्ते दृष्ट्वाऽन्योन्यं महाहवे।
हर्षेण महता युक्ते परिगृह्य परस्परम्।।
ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे।
यादृशं नैवमस्माभिर्दृष्टपूर्वं न च श्रुतम्।।
बलौघस्तु समासाद्य बलौघं सहसा रणे।
उपसर्पत वेगेन वार्योघ इव सागरम्।।
आसीन्निनादः सुमहान्बाणौघानां परस्परम्।
गर्जतां सागरौघाणां यथा स्यान्निःस्वनो महान्।।
ते तु सेने समासाद्य वेगवत्यौ परस्परम्।
एकीभावमनुप्राप्ते नद्याविव समागमे।।
ततः प्रववृते युद्धं घोररूपं विशाम्पते।
कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः।।
शूराणां गर्जतां तत्र ह्यविच्छेदकृता गिरः।
श्रुयन्ते विविधा राजन्नामान्युद्दिश्य भारत।।
यस्य यद्धि रणे व्यङ्गं पितृतो मातृतोऽपि वा।
कर्मतः शीलतो वाऽपि स तच्छ्रावयते युधि।।
तान्दृष्ट्वा समरे शूशांस्तर्जमानान्परस्परम्।
अभवन्मे मती राजन्नैषामस्तीति जीवितम्।।
तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम्।
अभवन्मे भयं तीव्रं कथमेतद्भविष्यति।।
ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः।
ततक्षुः सायकैस्तूर्णमन्योन्यं विजयैषिणः।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे षट्चत्वारिंशोऽध्यायः।। 46 ।।