कर्णपर्व

अध्यायः २

Karna Parva (Sanskrit) · Adhyaya 2
अक्षर का आकार

`जनमेजय उवाच।

तच्छ्रुत्वा कर्णहननं पुत्रांश्चैव पलायितान्।
धृतराष्ट्रो नृपश्चैव द्विजश्रेष्ठ किमब्रवीत्।।

प्राप्तवान्व्यसनं घोरं पुत्रव्यसनजं महत्।
काले यदुक्तवांस्तस्मिंस्तन्ममाचक्ष्व तत्त्वतः'।।

वैशम्पायन उवाच।

एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः।
अब्रवीत्सञ्जयं सूतं शोकसंविग्नमानसः।।

दुष्प्रणीतेन मे तात पुत्रस्यादीर्घजीविनः।
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति।।

तस्य मे संशयं छिन्धि दुःखपारं तितीर्षतः।
कुरूणां सृञ्जयानां च के जीवन्ति के मृताः।।

सञ्जय उवाच।

हतः शान्तनवो राजन्दुराधर्षः प्रतापवान्।
हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः।।

तथा द्रोणो महेष्वासः पाञ्चालानां रथव्रजान्।
निहत्य युधि दुर्धर्षः पञ्चाद्रुक्मरथो हतः।।

हतशेषस्य भीष्मेण द्रोणेन च महात्मना।
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः।।

विविंशतिर्महाराज राजपुत्रो महाबलः।
आनर्तयोधाञ्शतशो निहत्य निहतो रणे।।

तथा पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन्।
क्षीणबाणो हतः शूरः स्थितो ह्यभिमुखः परैः।।

धोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून्।
प्रतिज्ञां स्मरता तेन भीमसेनेन पातितः।।

विन्दानुविन्दावावन्त्यौ राजपुत्रौ महारथौ।
कृत्वा स्वसुकरं कर्म गतौ वैवस्वतक्षयम्।।

सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यानिह।
यस्य तिष्ठन्ति वचने यः स्थितस्तव शासने।।

अक्षौहिणीर्दशैकां च विनिर्जित्य शितैः शरैः।
सोऽर्जुनेन हतो राजन्महावीर्यो जयद्रथः।।

तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः।
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः।।

तथा दौःशासनिः सूरो बाहुशाली रणोत्कटः।
द्रौपदेयेन सङ्गम्य गमितो यमसादनम्।।

किरातानामधिपतिः सागरानूपवासिनाम्।
देवराजस्य धर्मात्मा प्रियो बहुमतः सखा।।

भगदत्तो महीपालः क्षत्रधर्मरतः सदा।
धनञ्जयेन विक्रम्य गमितो यमसादनम्।।

तथा कौरवदायादो न्यस्तशस्त्रो महायशाः।
हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि।।

श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धुरन्धरः।
चरन्नभीतवत्सङ्ख्ये निहतः सव्यसाचिना।।

तव पुत्रः सदामर्षी कृतास्त्रो युद्धदुर्मदः।
दुःशासनो महाराज भीमसेनेन पातितः।।

यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम्।
सुदक्षिणः स सङ्ग्रामे निहतः सव्यसाचिना।।

कोसलानामधिपतिर्हत्वा बहुमतान्परान्।
सौभद्रेणेह विक्रम्य गमितो यमसादनम्।।

बहुशो योधयित्वा तु भीमसेनं महारथम्।
चित्रसेनस्तव सुतो भीमसेनेन पातितः।।

मद्रराजात्मजः शूरः परेषां भयवर्धनः।
असिचर्मधरः श्रीमान्सौभद्रेण निपातितः।।

समः कर्णस्य समरे यः स कर्णस्य पश्यतः।
वृषसेनो महातेजाः शीघ्रास्त्रो दृढविक्रमः।।

अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः।
धनञ्जयेन विक्रम्य गमितो यमसादनम्।।

नित्यं प्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः।
विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः।।

शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष।
हतो रुक्मरथो राजञ्श्यालो मातुलजो युधि।।

राजा भागीरथो वृद्धो बृहत्क्षत्रश्च केकयः।
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ।।

भगदत्तसुतो राजन्कृतप्रज्ञो मंहाबलः।
श्येनवच्चरता सङ्ख्ये नकुलेन निपातितः।।

पितामहस्तव तथा बाह्लीकः सह बाह्लिकैः।
निहतो भीमसेनेन महाबालपराक्रमः।।

जयत्सेनस्तथा राजञ्जारासन्धिर्महाबलः।
मागधो निहतः सङ्ख्ये सौभद्रेण महात्मना।।

पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः।
गदया भीमसेनेन निहतौ शूरमानिनौ।।

दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः।
कृत्वा त्वसुकरं कर्म गता वैवस्वतक्षयम्।।

उभौ कलिङ्गवृषकौ भ्रातरौ युद्धदुर्मदौ।
कृत्वा चासुकरं कर्म गतौ वैवस्वतक्षयम्।।

सचिवो वृषपर्वा ते शूरः परमवीर्यवान्।
भीमसेनेन विक्रम्य गमितो यमसादनम्।।

तथैव पौरवो राजा नागायुतबलो महान्।
समरे पाण्डुपुत्रेण निहतः सव्यसाचिना।।

वसातयो महाराज द्विसाहस्राः प्रहारिणः।
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः।।

अभीषाहाः कवचिनः प्रहरन्तो रणोत्कटाः।
शिबयश्च रथोदाराः कालिङ्गसहिता हताः।।

गोकुले नित्यसंवृद्धा युद्धे परमकोपनाः।
गोपालाः कृतवीरास्ते निहताः सव्यसाचिना।।

श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये।
ते सर्वे पार्थमासाद्य गदा वैवस्वतक्षयम्।।

श्यालौ तव महाराज राजानौ वृषकाचलौ।
त्वदर्थमतिविक्रान्तौ निहतौ सव्यसाचिना।।

उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा।
साल्वराजो महाबाहुर्भीमसेनेन पातितः।।

ओघवांश्च महाराज बृहन्तः सहितौ रणे।
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम्।।

तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशाम्पते।
निहतो गदया राजन्भीमसेनेन संयुगे।।

तथा राजन्महेष्वासो जलसन्धौ महाबलः।
सुमहत्कदनं कृत्वा हतः सात्यकिना रणे।।

अलम्बुसो राक्षसेन्द्रः खरबन्धुरयानवान्।
घटोत्कचेन विक्रम्य गमितो यमसादनम्।।

राधेयः सूतपुत्रश्च भ्रातरश्च महारथाः।
केकयाः सर्वशश्चापि निहताः स्व्यसाचिना।।

मालवा मद्रकाश्चैव द्राविडाश्चोग्रकर्मिणः।
यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः।।

मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाश्च ये।
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष।।

पत्तीनां निहताः सङ्घा हयानां प्रयुतानि च।
रथव्रजाश्च निहता हताश्च वरवारणाः।।

सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः।
कालेन महताऽऽयस्ताः कुशलैर्ये च वर्धिताः।।

ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा।
अन्ये तथाऽमितबलाः परस्परवधैषिणः।।

एते चान्ये च बहवो राजानः सगणा रणे।
हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि।।

एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे।
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः।।

यथा कृष्णेन नरको मुरुश्च निहतो रणे।
कार्तवीर्यश्च रामेण भार्गवेण यथा हतः।।

सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः।
रणे कृत्वा महद्युद्धं घोरं त्रैलोक्यमोहनम्।।

यथा स्कन्देन महिषो यथा रुद्रेण चान्धकः।
तथाऽर्जुनेन स हतो द्वैरथे युद्धदुर्मदः।।

सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः।
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृपः।।

तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे।
उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः।।

`न कृतं च त्वया पूर्वं दैवेन विधिना बलात्'।
तदिदं समनुप्राप्तं व्यसनं सुमहात्ययम्।।

गाणां राज्यकामानां त्वया राजन्हितैषिणा।
अहितान्येव चीर्णानि तेषां ते फलमागतम्।।

।। इति श्रीमन्महाभारते कर्णपर्वणि द्वितीयोऽध्यायः।। 2 ।।