कर्णपर्व

अध्यायः १

Karna Parva (Sanskrit) · Adhyaya 1
अक्षर का आकार

श्रीवेदव्यासाय नमः।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।।

`वैशम्पायन उवाच।

शिबिराद्धास्तिनपुरं प्राप्य भारत सञ्जयः।
प्रविवेश महाबाहुर्धृतराष्ट्रनिवेशनम्।।

शोकेनापहतः सूतो विलपन्भृशदुःखितः।
चिन्तयन्निधनं घोरं सूतपुत्रस्य पाण्डवैः।।

अन्तःपुरं प्रविश्यैव सञ्जयो राजसत्तमम्।
अश्रुपूर्णो भृशं त्रस्तो राजानमुपजग्मिवान्।।

उपस्थाय च राजानं विनिश्वस्य च सूतजः।
नातिहृष्टमना राजन्निदं वचनमब्रवीत्।।

सञ्जय उवाच।

सञ्चयोऽहं महाराज नमस्ते भरतर्षभ।
हतो वैकर्तनः कर्णः कृत्वा कर्म सुदुष्करम्।।

चेदिकाशिकरूशानां मत्स्यानां सोमकैः सह।
कृत्वाऽसौ कदनं शेते वातनुन्न इव द्रुमः।।

गोष्ठमध्येव ऋषभो गोव्रजैः परिवारितः।
व्यालेन निहतो यद्वत्तथाऽसौ निहतः परैः।।

निराशान्पाण्डवान्कृत्वा दृढं राजन्ससात्यकान्।
पाञ्चालानां रथांश्चैव विनिहत्य सहस्रशः।।

जित्वा शूरान्महेष्वासान्विद्राव्य च दिशोदश।
हतो वैकर्तनः कर्णः पाण्डवेन किरीटिना।।

वैरस्य गत आनृण्यं दुर्गमस्य दुरात्मभिः।
हत्वा कर्णं महाराज विशल्यः पाण्डवोऽभवत्।।

शोषणं सागराणां वा पतनं वा विवस्वतः।
विशीर्णत्वं यथा मेरोस्तथा कर्णस्य पातनम्।।

योधाश्च बहवो राजन्हतास्तत्र जयैषिणः।
राजानो राजपुत्राश्च शूराः परिघबाहवः।।

रथौघाश्च नरौघाश्च हता राजन्सहस्रशः।
वारणा निहतास्तत्र वाजिनश्च महाहवे।।

क्षत्रियाश्च महाराज सेनयोरुभयोर्हताः।
परस्परं वै वीक्ष्यात्र परस्परकृतागसः।।

किञ्चिच्छेषान्परान्कृत्वा तीर्त्वा पाण्डववाहिनीम्।
पार्थवेलां समासाद्य हतो वैकर्तनो वृषा।।

जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृप।
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे।।

प्रोच्यमानं महाराज बन्धुभिर्हितबुद्धिभिः।
तदिदं समनुप्राप्तं व्यसनं त्वां महाभयम्।।

पुत्राणां राज्यकामेन त्वया राजन्हितैषिणा।
चरितान्यहितान्येव तेषां ते फलमागतम्।।

हतो दुःशासनो राजन्यथोक्तं पाण्डवेन तु।
प्रतिज्ञा भीमसेनेन निस्तीर्णा सा चमूमुखे।।

पीतं च क्षतजं तस्य धार्तराष्ट्रस्य संयुगे।
पाण्डवेन महाराज कर्म कृत्वा सुदुष्करम्*'।।

वैशम्पायन उवाच।

एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः।
शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम्।
विह्वलः पतितो भूमौ नष्टचेता इव द्विपः।।

तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे।
आर्तनादो महानासीत्स्त्रीणां भरतसत्तम।।

श शब्दः पृथिवीं कृत्स्नां पूरयामास सर्वशः।।

शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः।
रुरुदुर्दुःखशोकार्ता भृशमुद्विग्नचेतसः।।

राजानं च समासाद्य गान्धारी भरतर्षभ।
निःसंज्ञा पतिता भूमौ सर्वाण्यन्तः पुराणि च।।

ततस्ताः स़ञ्जयो राजन्समाश्वासयदातुराः।
मुह्यामानाः सुबहुशो मुञ्चन्तीर्वारि नेत्रजम्।।

समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः।
कदल्य इव वातेन धूयमानाः समन्ततः।।

राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम्।
आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम्।।

स लब्ध्वा सनकैः संज्ञां ताश्च दृष्ट्वा स्त्रियो नृपः।
उन्मत्त इव राजेन्द्र स्थितस्तूष्णीं विशाम्पते।।

ततो ध्यात्वा चिरं कालं निःश्वस्य च पुनःपुनः।
स्वान्पुत्रान्गर्हयामास बहुमेने च पाण्डवान्।।

गर्हयंश्चात्मनो बुद्धिं शकुनेः सौबलस्य च।
ध्यात्वा तु सुचिरं कालं वेपमानो मुहुर्मुहुः।।

संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः।
पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम्।।

न त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया।।

कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम्।
जये निराशः पुत्रो मे सततं जयकामुकः।
ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम्।।

वैशम्पायन उवाच।

एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय।
हतो वैकर्तनो राजन्सहपुत्रैर्महारथः।
भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः।।

दुःशासनश्च निहतः पाण्डवेन यशस्विना।
पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे।।

`वैशम्पायन उवाच।

एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः।
दह्यमानोऽब्रवीत्सूतं मुहूर्तं तिष्ठ सञ्जय।
व्याकुलं मे मनस्तात मा तावत्किंचिदुच्यताम्।।

राजापि नाब्रवीत्किञ्चित्सञ्जयो विदुरस्तथा।
तूष्णीम्भूतस्तदा सोऽथ बभूव जगतीपतिः'।।

।। इति श्रीमन्महाभारते
कर्णपर्वणि प्रथमोऽध्यायः।। 1 ।।

श्रीकृष्णाय नमः।।

[नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्।।

वैशम्पायन उवाच।

ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः।
भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन्।।

ते द्रोणमनुशोचन्तः कश्मलाभिहतौजसः।
पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम्।।

ते मुहूर्तं समाश्वस्य हेतुभिः शास्त्रसम्मितैः।
रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे।।

ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम्।
चिन्तयन्तः क्षयं तीव्रं दुःखशोकसमन्विताः।।

विशेषतः सूतपुत्रो राजा चैव सुयोधनः।
दुःशासनश्च शकुनिः सौबलश्च महाबलः।।

उषितास्ते निशां तां तु दुर्योधननिवेशने।
चिन्तयन्तः परिक्लेशान्पाण्डवानां महात्मनाम्।।

यत्तद्द्यूते परिक्लिष्टा कृष्णा चानायिता सभाम्।
तत्स्मरन्तोऽनुशोचन्तो भृशमुद्विग्नचतेतसः।।

तथा तु सञ्चिन्तयतां तान्क्लेशान्द्यूतकारितान्।
दुःखेन क्षणदा राजञ्जगामाब्दशतोपमा।।

ततः प्रभाते विमले स्थिता दिष्टस्य शासने।
चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा।।

ते कृत्वाऽवश्यकार्याणि समाश्वस्य च भारत।
योगमाज्ञापयामासुर्युद्वाय च विनिर्ययुः।।

कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः।
पूजयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः।।

गोभिरश्वैश्च निष्कैश्च वासोभिश्च महाधनैः।
वन्द्यमाना जयाशीर्भिः सूतमागधबन्दिभिः।।

तथैव पाण्डवा राजन्कृतपूर्वाह्णिकक्रियाः।
शिबिरान्निर्ययुस्तूर्णं युद्वाय कृतनिश्चयाः।।

ततः प्रववृते युद्वं तुमुलं रोमहर्षणम्।
कुरूणां पाण्डवानां च परस्परजयैषिणाम्।।

तयोर्द्वौ दिवसौ युद्वं कुरुपाण्डवसेनयोः।
कर्णे सेनापतौ राजन्बभूवाद्भुतदर्शनम्।।

ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः।
पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः।।

ततस्तु सञ्जयः सर्वं गत्वा नागपुरं द्रुतम्।
आचष्ट धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले।।

जनमयेजय उवाच।

आपगेयं हतं श्रुत्वा द्रोणं चापि महारथम्।
आजगाम परामार्तिं वृद्वो राजाऽम्बिकासुतः।।

स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम्।
कथं द्विजवर प्राणानधारयत दुःखितः।।

यस्मिञ्जयाशां पुत्राणां सममन्यत पार्थिवः।
तस्मिन्हते स कौरव्यः कथं प्राणानधारयत्।।

दुर्मरं तदहं मन्ये नृणां कृच्छ्रेऽपि वर्तताम्।
यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः।।

तथा शान्तनवं वृद्वं ब्रह्मन्बाह्लीकमेव च।
द्रोणं च सोमदत्तं च भूरिश्रवसमेव च।।

तथैव चान्यान्सुहृदः पुत्रान्पौत्रांश्च पातितान्।
श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज।।

एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
षोडशदिवसयुद्धारम्भे प्रथमोऽध्यायः।। 1 ।।

वैशम्पायन उवाच।

हते कर्णे महाराज निशि गावल्गणिस्तदा।
दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे।।

स हास्तिनपुरं गत्वा भृशमुद्विग्नचेतनः।
जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम्।।

स तमुद्वीक्ष्य राजानं कश्मलाभिहतौजसम्।
ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह।।

सम्पूज्य च यथान्यायं धृतराष्ट्रं महीपतिम्।
हा कष्टमिति चोक्त्वा स ततो वचनमाददे।।

सञ्जयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान्।
स्वदोषैरापदं प्राप्य कच्चिन्नाद्य विमुह्यति।।

हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः।
अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम्।।

रामनारदकण्वाद्यैर्हितमुक्तं सभातले।
न गृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम्।।

सुहृदस्त्वद्विते युक्तान्भीष्मद्रोणमुखान्परैः।
निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम्।।

तमेवंवादिनं राजा सूतपुत्रं कृताजलिम्।
सुदीर्घमथ निःश्वस्य दुःखार्त इदमब्रवीत्।।

धृतराष्ट्र उवाच।

आपगेये हते शूरे दिव्यास्त्रवति सञ्जय।
द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः।।

यो रथानां सहस्राणि दंशितानां दशैव तु।
अहन्यहनि तेजस्वी निजघ्ने वसुसम्भवः।।

तं हतं यज्ञसेनस्य पुत्रेणेह शिखण्डिना।
पाण्डवेयाभिगुप्तेन श्रुत्वा मे व्यथितं मनः।।

भार्गवः प्रददौ यस्मै परमास्त्रं महाहवे।
साक्षाद्रामणे यो बाल्ये धनुर्वेद उपाकृतः।।

यस्य प्रसादात्कौन्तेया राजपुत्रा महारथाः।
महारथत्वं सम्प्राप्तास्तथाऽन्ये वसुधाधिपाः।।

तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे।
सत्यसन्धं महेष्वासं भृशं मे व्यथितं मनः।।

ययोर्लोके पुमानस्त्रे न समोऽस्ति चतुर्विधे।
तौ द्रोणभीष्मौ श्रुत्वा तु हतौ मे व्यथितं मनः।।

त्रैलोक्ये यस्य चास्त्रेषु न पुमान्विद्यते समः।
तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः।।

संशप्तकानां च बले पाण्डवेन महात्मना।
धनञ्जयेन विक्रम्य गमिते यमसादनम्।।

नारायणास्त्रे च हते द्रोणपुत्रस्य धीमतः।
विप्रद्रुतानहं मन्येनिमग्नाञ्शोकसागरे।

प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे।।
दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः।

मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च।।
मत्पुत्रस्य च शेषस्य तथाऽन्येषां च सञ्जय।

विप्रद्रुतेष्वनीकेषु मुखवर्णोऽभवत्कथम्।।
एतत्सर्वं यथावृत्तं तथा गावल्गणे मम।

आचक्ष्व पाण्डवेयानां मामकानां च विक्रमम्।।

सञ्जय उवाच।

तवापराधाद्यद्वृत्तं कौरवेयेषु मारिष।
तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते बुधः।।

यस्मादभावी भावी वा भवेदर्थो नरं प्रति।
अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्यथते बुधः।।

धृतराष्ट्र उवाच।

न व्यथाऽभ्यधिका काचिद्विद्यते मम सञ्जय।
दिष्टमेतत्पुरा मन्ये कथयस्य यथेच्छकम्।।

।। इति श्रीमन्महाभारते
कर्णपर्वणि द्वितीयोऽध्यायः।। 2 ।।

सञ्जय उवाच।

हते द्रोणे महेष्वासे तव पुत्रा महारथाः।
बभूवुरस्वस्थमुखा विषण्णा गतचेतसः।।

अवाङ्मुखाः शस्त्रभृतः सर्व एव विशाम्पते।
अवेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम्।।

तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत।
ऊर्ध्वमेव निरैक्षन्त दुःखत्रस्तान्यनेकशः।।

शस्त्राण्येषां तु राजेन्द्र शोणिताक्तानि सर्वशः।
प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं हतं युधि।।

तानि बद्वान्यरिष्टानि लम्बमानानि भारत।
अदृश्यन्त महाराज नक्षत्राणि यथा दिवि।।

तथा तु स्तिमितं दृष्ट्वा गतसत्वमवस्थितम्।
बलं तव महाराज राजा दुर्योधनोऽब्रवीत्।।

भवतां बाहुवीर्यं हि समाश्रित्य मया युधि।
पाण्डवेयाः समाहूता युद्वं चेदं प्रवर्तितम्।।

तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते।
युध्यमानाश्च समरे योधा वध्यन्ति सर्वशः।।

जयो वाऽपि वधो वाऽपि युध्यमानस्य संयुगे।
भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः।।

पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि।
प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम्।।

यस्य वै युधि सन्त्रासात्कुन्तीपुत्रो धनञ्जयः।
निवर्तते सदा मन्दः सिंहात्क्षुद्रमृगो यथा।।

येन नागायुतप्राणो भीमसेनो महाबलः।
मानुषेणैव युद्धेन तामवस्थां प्रवेशितः।।

येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः।
अमोघया रणे शक्त्या निहतो भैरवं नदन्।।

तस्य दुर्वारवीर्यस्य सत्यसन्धस्य धीमतः।
बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे।।

द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः।
पश्यन्तु पाण्डुपुत्रास्ते विष्णुवासवयोरिव।।

सर्व एव भवन्तश्च शक्ताः प्रत्येकशोऽपि वा।
पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किसु संहताः।
वीर्यवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम्।।

सञ्जय उवाच।

एवमुक्त्वा ततः कर्णं चक्रे सेनापतिं तदा।
तव पुत्रो महावीर्यो भ्रातृभिः सहितोऽनघ।।

सैनापत्यमथावाप्य कर्णो राजन्महारथः।
सिंहनादं विनद्योच्चैः प्रायुध्यत रणोत्कटः।।

ससृञ्जयानां सर्वेषां पाञ्चालानां च मारिष।
केकयानां विदेहानां चकार कदनं महत्।।

तस्येषुधाराः शतशः प्रादुरासञ्छरासनात्।
अग्रे पुङ्खेषु संसक्ता यथा भ्रमरपङ्क्तयः।।

स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः।
हत्वा सहस्रशो योधानर्जुनेन निपातितः।।

।। इति श्रीमन्महाभारते
कर्णपर्वणि तृतीयोऽध्यायः।। 3 ।।