द्रोणपर्व
अध्यायः ८३
युधिष्ठिर उवाच।
सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन।
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत।।
सञ्जाय उवाच।
वासुदेवोऽपि तद्युक्तं प्रत्युवाच युधिष्ठिरम्।
दर्शनादेव ते सौम्य न किञ्चिदशुभं मम।।
सञ्जय उवाच।
ततश्च प्रकृतीः क्षत्ता न्यवेदयदुपस्थिताः।
अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम्।।
विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम्।
चेदिपं धृष्टकेतुं च द्रुपदं च महारथम्।।
शिखण्डिनं यमौ चैव चेकितानं सकेकयम्।
युयुप्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम्।।
युधामन्यु सुबाहुं च द्रौपदेयांश्च सर्वशः।
एतांश्च सुहृदश्चान्यान्दर्शयामास पाण्डवम्।।
अनुज्ञाताश्च पार्थेन स्वासीना आसनेषु ते।
सर्वेष्वथ परार्ध्येषु यथार्हं वन्द्य पाण्डवम्।।
एकस्मिन्नासने वीरावुपविष्टौ महाबलौ।
कृष्णश्च युयुधानश्च वेद्यामिव हुताशनौ।।
ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम्।
अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः।।
एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः।
प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च।।
त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम्।
क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः।।
त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल।
सुखमायत्तमत्यर्थं यात्रा च मधुसूदन।।
स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम।
अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता।।
स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात्।
परां तितीर्षतामद्य प्लुवो नो भव माधव।।
नहि तत्कुरुते योधः कार्तवीर्यसमोऽपि यः।
युधि यत्कुरुषे कृष्ण सारथ्यं त्वं समास्थितः।।
यथैव सर्वास्वापत्सु पासि वृष्णीञ्जनार्दन।
तथैवास्मान्महाबाहो वृजिनात्त्रातुमर्हसि।।
त्वमगाधेऽप्लवे मग्नान्पाण्डवान्कुरुसागरे।
समुद्धर प्लुवो भूत्वा शङ्खचक्रगदाधर।।
नमस्ते देवदेवेश सनातन विशातन।
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम।।
नारदस्त्वां समाचख्यौ पुराणमृषिसत्तमम्।
वरदं शार्ङ्गिणं श्रेष्ठं तत्सत्यं कुरु माधव।।
इत्युक्तः पुण्डरीकाक्षो धर्मराजेन संसदि।
तोयमेघस्वनो वाग्मी प्रत्युवाच युधिष्ठिरम्।।
वासुदेव उवाच।
सामरेष्वपि लोकेषु सर्वेषु न तथाविधः।
शरासनधरः कश्चिद्यथा पार्थो धनञ्जयः।।
वीर्यवानस्त्रसम्पन्नः पराक्रान्तो महाबलः।
युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम्।।
स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः।
सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति।।
अहं च तत्करिष्यामि तथा कुन्तीसुतोऽर्जुनः।
धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवेन्धनम्।।
अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम्।
अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः।।
तस्याद्य गृध्राः श्येनाश्च चण्डगोमायवस्तथा।
भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः।।
यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाऽप्यसौ।
राजधानीं यमस्याद्य हतः प्राप्स्यति दुर्मतिः।।
निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति।
विशोको विज्वरो राजन्भव शान्ति पुरस्कृतः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि
प्रतिज्ञापर्वणि त्र्यशीतितमोऽध्यायः।। 83 ।।