द्रोणपर्व
अध्यायः ८२
सञ्जय उवाच।
तयोः संवदतोरेव कृष्णदारुकयोस्तथा।
साऽत्यगाद्रजनी राजन्नथ राजा स्म बोध्यते।।
पठन्ति पाणिध्वनिका मागधाः स्तवगायकाः।
वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम्।।
नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः।
कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः।।
मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः।
आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः।।
एवमेतानि सर्वाणि तथान्यान्यपि भारत।
वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः।।
स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम्।
पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत्।।
प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे।
उत्थायावश्यकार्यार्थं ययौ स्नानगृहं नृपः।।
ततः शुक्लाम्बराः स्नातास्तरुणाः शतमष्ट च।
स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे।।
भद्रासने सूपविष्टः परिधायाम्बरं लघु।
सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः।।
उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः।
आप्लुतः साधिवासेन जलेन ससुगन्धिना।।
राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम्।
जलक्षयनिमित्तं वै वेष्टयामास मूर्धनि।।
हरिणा चन्दनेनाङ्गमुपलिप्य महाभुजः।
स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः।।
`कृत्वेन्द्रियाणामैकाग्र्यं मनसश्च महामनाः'।
जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः।
तत्राग्निशरणं दीप्तं प्रविवेश विनीतवत्।।
समिद्भिः स पवित्राभिरग्निमाहुतिभिस्तथा।
मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः।।
द्वितीयां पुरुषव्याघ्रः कक्ष्यां निर्गम्य पार्थिवः।
ततो वेदविदो वृद्धानपश्यद्ब्राह्मणर्षभान्।।
दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च।
सहस्रानुचरान्सौरान्सहस्रं चाष्ट चापरान्।।
अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः।
तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः।।
प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः।
अलङ्कृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः।।
तथा गाः कपिला दोग्ध्रीः सवत्साः पाण्डुनन्दनः।
हेमशृङ्गा रौप्यखुरा दत्त्वा तेभ्यः प्रदक्षिणम्।।
स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान्।
माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम्।।
पूर्णान्यक्षतपात्राणि रुचकं रोचनास्तथा।
स्वलङ्कृताः शुभाः कन्या दधिसर्पिर्मधूदकम्।।
मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम्।
दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यां ततोऽगमत्।।
ततस्तस्यां नहाबाहोस्तिष्ठतः परिचारकाः।
सौवर्णं सर्वतोभद्रं मुक्तावैदूर्यमण्डितम्।।
परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत्।
विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम्।।
तत्र तस्योपविष्टस्य भूषणानि महात्मनः।
उपाजह्रुर्महार्हाणि प्रेप्याः शुभ्राणि सर्वशः।।
युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः।
रूपमासीन्महाराज द्विषतां शोकवर्धनम्।।
चामरैश्चन्द्ररश्म्याभैर्हेमदण्डैः सुशोभनैः।
दोधूयमानैः शुशुभे विद्युद्भिरिव तोयदः।।
संस्तूयमानः सूत्रैश्च वन्द्यमानश्च वन्दिभिः।
उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः।।
ततो मुहूर्तमासीच्च वन्दिनां निनदो महान्।
रथानां नेमिघोषश्च खुरघोषश्च वाजिनाम्।।
हादेन गजघण्टानां शङ्खानां निनदेन च।
नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी।।
ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः।
शिरसा वन्दनीयं तमभिवाद्य जनेश्वरम्।।
कुण्डली बद्धनिस्त्रिंशः सन्नद्धकवचो युवा।
अभिप्रणम्य शिरसा द्वास्थो धर्मात्मजाय वै।।
न्यवेदयद्धृषीकेशमुपयान्तं महात्मने।
सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवः।।
`प्रवेश्यतां समीपं मे किमर्थं प्रविलम्बसे'।
आसनं च मधुघ्नाय दीयतां परमार्चितम्।
ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने।।
सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि
प्रतिज्ञापर्वणि द्व्यशीतितमोऽध्यायः।। 82 ।।