द्रोणपर्व

अध्यायः ७८

Drona Parva (Sanskrit) · Adhyaya 78
अक्षर का आकार

सञ्जय उवाच।

एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः।
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता।।

हा पुत्रा मम मन्दायाः कथमेत्यासि संयुगम्।
निधनं प्राप्तवांस्तात पितुस्तुल्यपराक्रमः।।

कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम्।
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना।।

नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम्।
सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं नतोदरम्।।

चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम्।
भूतानि त्वां निरीक्षन्ते भूमौ चन्द्रमिवोदितम्।।

शयनीयं पुराऽध्युष्य स्पर्ध्यास्तरणसंवृतम्।
भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः।।

योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः।
कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे।।

योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः।
सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्येत।।

पाण्डवेषु च नाथेषु वृष्णिवीरेषु वा विभो।
पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत्।।

`यत्र त्वं केशवे नाथे सत्यनाथो यथा हतः'।
अतृप्तदर्शना पुत्र दर्शनस्य तवानघ।
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम्।।

विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च।
तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम्।।

धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम्।
धिग्वीर्यं वृष्णिवीराणां चाञ्चालानां च धिग्बलं।।

धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान्।
ये त्वां रणगतं वीरं न शेकुरभिरक्षितुम्।।

अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम्।
अभिमन्युमपश्यन्ती शोकव्याकुललोचना।।

स्वस्रीयं वासुदेवस्य पुत्रं गाण्डवीधन्वनः।
कथं त्वाऽतिरथं वीरं द्रक्ष्याम्यद्य निपातितम्।।

एह्येहि तृषितो वत्स स्तनौ पूर्णौ पिबाशु मे।
अङ्कमारुह्य मन्दाया ह्यतृप्तायाश्च दर्शने।।

हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे।
अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम्।।

इमां ते तरुणीं भार्यां तवाधिभिरभिप्लुताम्।
`उत्तरामुत्तमां जात्या सुशीलां प्रिय भाषिणीम्।।

शनकैः परिरभ्यैनां स्नुषां मम यशस्विनीम्।
सुकुमारीं विशालाक्षीं पूर्णचन्द्रनिभाननाम्।।

बालपल्लवतन्वङ्गीं मत्तमातङ्गगामिनीम्।
बिम्बाधरोष्ठीमबलामभिमन्यो प्रहर्षय।।

त्वया विना कथं पुत्र जीर्णां पतितमानसाम्'।
इमां सन्धारयिष्यामि वृषभादिव धेनुकाम्।।

अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक।
विहाय फलकाले मां सुगृद्धां तव दर्शने।।

नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा।
यत्र त्वं केशवे नाथे सङ्ग्रामेऽनाथवद्धतः।।

यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम्।
चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम्।।

कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि।
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि।।

या गतिर्युध्यमानानां शूराणामनिवर्तिनाम्।
हत्वारीन्निहतानां च सङ्ग्रामे तां गति व्रज।।

गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः।
नैवेशिकं चाभिमतं ददतां या गतिः शुभा।।

ब्राह्मणेभ्यः शरण्येभ्यो निधिं निदधतां च या।
या चापि न्यस्तदण्डानां तां गतिं व्रज पुत्रक।।

ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः।
एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक।।

राज्ञा सुचरितैर्या च गतिर्भवति शाश्वती।
चरमाश्रमिणां पुण्यैः सेवितानां पुरः स्थितैः।।

दीनानुकम्पिनां या च सततं संविभागिनाम्।
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक।।

व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि।
अमोघातिथिनां या च तां गतिं व्रज पुत्रक।।

कृच्छ्रेषु या धारयतामात्मानं व्यसनेषु च।
गतिः शोकाग्निदग्धानां तां गतिं व्रज पुत्रक।।

मातापित्रोश्च शुश्रूषां कल्पयन्तीह ये सदा।
स्वदारनिरतानां च या गतिस्तामवाप्नुहि।।

ऋतुकाले स्वकां भार्यां गच्छतां या मनीषिणाम्।
परस्त्रीभ्यो निवृत्तानां तां गतिं व्रज पुत्रक।।

साम्ना ये सर्वभूतानि पश्यन्ति गतमत्सराः।
नारुन्तुदानां क्षमिणां या गतिस्तामवाप्नुहि।।

मधुमांसान्निवृत्तानां मदाद्दृम्भात्तथाऽनृतात्।
परोपतापादन्यायात्तां गतिं व्रज पुत्रक।।

हीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः।
यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक।।

सञ्जय उवाच।

एवं विलपतीं दीनां सुभद्रां शोककर्शिताम्।
अन्वपद्यत पाञ्चाली वैराटिसहितां तदा।।

सा प्रकामं रुदित्वा च विलप्य च सुदुःखिता।
उन्मत्तवत्तदा राजन्विसंज्ञा पतिता क्षितौ।।

सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः।
सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः।।

विसंज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम्।
भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत्।।

सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम्।
गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः।।

ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने।
सर्वे न ते गतिं यान्ति याऽभिमन्योर्यशस्विनः।।

कुर्याम तद्वयं कर्म कुर्युर्युत्सुहृदश्च नः।
कृतवान्यादृगद्यैकस्तव पुत्रो महारथः।।

सञ्जय उवाच।

एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम्।
पार्थस्यैव महाबाहुः पार्श्वमागादरिन्दमः।।

ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाऽर्जुनम्।
विवेशान्तः पुरे राजंस्ते च जग्मुः स्वमालयम्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि
प्रतिज्ञापर्वणि अष्टसप्ततितमोऽध्यायः।। 78 ।।