द्रोणपर्व
अध्यायः ७७
सञ्जय उवाच।
तां निशां दुःखशोकार्तौ निःश्वसन्ताविवोरगौ।
निद्रां नैवोपलेभाते वासुदेवधनञ्जयौ।।
नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः।
व्यथिताश्चिन्तयामासुः किंस्विदेतद्भविष्यति।।
ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः।
सकबन्धस्तथाऽऽदित्ये परिघः समदृश्यत।।
शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः।
चचाल चापि पृथिवी सशैलवनकानना।।
चुक्षुभुश्च महाराज सागारा मकरालयाः।
प्रतिस्रोतःप्रवृत्ताश्च तथा गन्तुं समुद्रगाः।।
रथाश्वनरनागानां प्रवृत्तमधरोत्तरम्।
क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये।।
वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह।
तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान्।।
सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभा।
श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः।।
अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः।
आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह।।
स्नुषां चास्या वयस्याश्च विशोकाः कुरु माधव।
साम्ना सत्येन युक्तेन वचसाऽऽश्वासय प्रभो।।
ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः।
भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम्।।
वासुदेव उवाच।
मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा।
सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता।।
कुले जातस्य वीरस्य क्षत्रियस्य विशेषतः।
सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः।।
दिष्ट्या महारथो धीरः पितुस्तुल्यपराक्रमः।
क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम्।।
जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे।
गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान्।।
तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च।
सन्तो यां गतिमिच्छन्ति तां प्राप्तस्तव पुत्रकः।।
वीरसूर्वीरपत्नी त्वं वीरजा वीरबान्धवा।
मा शुचस्तनयं भद्रे गतःस परमां गतिम्।।
शूरं सूते त्वद्विधा राजपुत्री'।।
प्राप्स्यते चाप्यसौ पापः सैन्धवो बालघातकः।
अधर्मस्यास्य तु फलं ससुहृद्गणबान्धवः।।
व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत्।
न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम्।।
श्वः शिरः पादमूलं ते सैन्धवस्याहृतं ध्रुवम्।
पद्ध्यां प्रमथितासि त्वं विशोका भव मा रुदः।।
क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम्।
वयं च प्राप्नुयामेह ये चान्ये शस्त्रजीविनः।।
व्यूढोरस्को महाबाहुरनिवर्ती रिपुव्रजात्।
गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि।।
अनुयातश्च पितरं मातृपक्षं च वीर्यवान्।
सहस्रशो रिपून्हत्वा हतः शूरो महारथः।।
आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम्।
श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि।।
यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा।
चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम्।।
यदि च मनुजपन्नगाः पिशाचा
रजनिचचाराः पतगाः सुरासुराश्च।
रणगतमभियान्ति सिन्धुराजं
न स भविता सह तैरपि प्रभाते।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि
प्रतिज्ञापर्वणि सप्तसप्ततितमोऽध्यायः।। 77 ।।