द्रोणपर्व

अध्यायः २५

Drona Parva (Sanskrit) · Adhyaya 25
अक्षर का आकार

सञ्जय उवाच।

महद्भैरवमासीन्नः सन्निवृत्तेषु पाण्डुषु।
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः।।

तैश्चोद्भूतं रजस्तीव्रमवचक्रे चमूं तव।
ततो हतममंस्याम द्रोणं दृष्टिपथे हते।।

तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः।
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत्।।

यथाशक्ति यथोत्साहं यथासत्वं नराधिपाः।
वारयध्वं यथायोगं पाण्डवानामनीकिनीम्।।

ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव।
आराद्दृष्ट्वा किरन्बाणैरिच्छन्दोणस्य जीवितम्।।

तं बाणेरवतस्तार क्रुद्धो मृत्युरिवाहवे।
तं च भीमोऽतुदद्बाणैस्तदाऽऽसीत्तुमुलं महत्।।

त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः।
राज्यं मृत्युभयं त्यक्त्वा प्रत्यतिष्ठन्परान्युधि।।

कृतवर्मा शिनेः पौत्रं द्रोणं प्रेप्सुं विशाम्पते।
पर्यवारयदायान्तं शूरं समरशोभिनम्।।

तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत्।
कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम्।।

सैन्धवः क्षत्रवर्माणमायान्तं निशितैः शरैः।
उग्रधन्वा महेष्वासं यत्ततो द्रोणादवारयत्।।

क्षत्रवर्मा सिन्धुपतेश्छित्त्वा केततनकार्मुके।
नाराचैर्दशभिः क्रुद्धः सर्वमर्मस्वताडयत्।।

अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत्।
विव्याध क्षत्रवर्माणं रणे सर्वायसैः शरैः।।

युयुत्सुं पाण्डवार्थाय यतमानं महारथम्।
सुबाहुर्भारतं शूरं यत्तो द्रोणादवारयत्।।

सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ।
युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ।।

राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम्।
वेलेव सागरं क्षुब्धं मद्रराट् समवारयत्।।

तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत्।
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वाऽनदद्भृशम्।।

तस्य नानदतः केतुमुच्चकर्त च कार्मुकम्।
क्षुराभ्यां पाण्डवो ज्येष्ठस्तत उच्चुक्रुशुर्जनाः।।

तथैव राजा बाह्लीको राजानं द्रुपदं शरैः।
आद्रवन्तं सहानीकः सहानीकं न्यवारयत्।।

तद्युद्धमभवद्धोरं वृद्धयोः सहसेनयोः।
यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः।।

विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्।
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम्।।

तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम्।
मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम्।।

नाकुलिं तु शतानीकं भूतकर्मा सभापतिः।
अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत्।।

ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः।
चक्रे विबाहुशिरसं भूतकर्माणमाहवे।।

सुतसोमं तु विक्रान्तमायान्तं तं शरौघिणम्।
द्रोणायाभिमुखं वीरं साल्वो बाणैरवारयत्।।

स तु भीमरथः साल्वमाशुगैरायसैः शितैः।
षड्भिः साश्वनियन्तारमनयद्यमसादनम्।।

श्रुतकीर्तिं समायान्तं मयूरसदृशैर्हयैः।
चित्रसेनो महाराज तव पौत्रं न्यवारयत्।।

तमार्जुनिः शरैश्चक्रे पितृव्यं जर्झरच्छविम्।
शरैश्च द्रौपदीपुत्रं चित्रसेनः समावृणोत्।।

किरन्तं शरजालानि प्रभिन्नमिव कुञ्जरम्।
श्रुतकर्माणमायान्तं दौश्शासनिरवारयत्।।

तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ।
पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम्।।

तिष्ठन्तमग्रे तं दृष्ट्वा प्रतिविन्ध्यं महाहवे।
द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत्।।

तं क्रुद्धं प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः।
सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम्।।

प्रवपन्निव बीजानि बीजकाले कृषीवलः।
द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत्।।

यस्तु शूरतमो राजन्नुभयोः सेनयोर्मतः।
तं पटच्चरहन्तारं लक्ष्मणः समवारयत्।।

स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत।
लक्ष्मणे शरजालानि विसृजन्बह्वशोभत।।

ततोऽभिमन्युः कर्माणि कुर्वन्तं चित्रयोधिनम्।
आर्जुनिः कृतिनं शूरं लक्ष्मणं समयोधयत्।।

स सम्प्रहारस्तुमुलस्तयोरासीन्महात्मनोः।
श्रोतॄणामीक्षितॄणां च भृशं प्रीतिविवर्धनः।।

विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम्।
पर्यवारयदायान्तं युवानं समरे युवा।।

ततस्तमिषुजालेन याज्ञसेनिः समावृणोत्।
विधूय तद्बाणजालं बभौ तव सुतो बली।।

अङ्गदोऽभिमुखं वीरमुत्तमौजसमाहवे।
द्रोणायाभिमुखं यान्तं शरौघेण न्यवारयत्।।

स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः।
सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः।।

दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली।
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत्।।

स दुर्मुखं भ्रुवोर्मध्ये नाराचेनाभ्यताडयत्।
तस्य तद्धि बभौ वक्त्रं सनालमिव पङ्कजम्।।

कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान्।
द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत्।।

ते चैनं भृशसन्तप्ताः शरवर्षैरवाकिरन्।
स च तांश्छादयामास शरजालैः पुनः पुनः।।

नैव कर्णो न ते पञ्च ददृशर्बाणसंवृताः।
साश्वसूतध्वजरथाः परस्परशराचिताः।।

पुत्रास्ते दुर्जयश्चैव जयश्च विजयश्च ह।
नीलकाश्यजयत्सेनांस्त्रयस्त्रीन्प्रत्यवारयन्।।

तद्युद्धमभवद्धोरमीक्षितृप्रीतिवर्धनम्।
सिंहव्याघ्रतरक्षूणां यथर्क्षमहिषर्षभैः।।

क्षेमधूर्तिबृहन्तौ तु भ्रातरौ सात्वतं युधि।
द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः।।

तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत्।
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने।

राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम्।
चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत्।।

ततोऽम्बष्ठोऽस्थिभेदिन्या निरभिद्यच्छलाकया।
स त्यक्त्वा सशरं चापं रथाद्भूमिमुपागमत्।।

वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः।
अक्षुद्रः क्षुद्रकैर्बाणैः क्रुद्धरूपमवारयत्।।

युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ।
ते युद्धासक्तमनसो नान्यं बुबुधिरे क्रियाम्।।

सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम्।
पर्यवारयदायान्तं यशो द्रोणस्य वर्घयन्।।

स सौमदत्तेस्त्वरितश्चित्रेष्वसनकेतने।
पुनः पताकां सूतं चच्छत्रं चापातयद्रथात्।।

अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा।
साश्वसूतध्वजरथं तं चकर्त वरासिना।।

रथं च स्वं समास्थाय धनुरादाय चापरम्।
स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम्।।

पाण्ड्यमिन्द्रमिवायान्तमसुरान्प्रति दुर्जयम्।
समर्थः सायकौघेन वृषसेनो न्यवारयत्।।

`अथाजगाम हैडिम्बो महामायो महाबलः।
पितॄणां हितमन्विच्छन्दहन्कौरववाहिनीम्'।।

गदापरिघनिस्त्रिंशपट्टसायोघनोपलैः।
कडङ्गरैर्भुशुण्डीभिः प्रासैस्तोमरसायकैः।।

मुसलैर्मुद्गरैश्चक्रैर्न्भिण्डिपालपरश्वथैः।
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः।।

आतुदन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन्।
सेनां विभीषयन्नायाद्दोणप्रेप्सुर्घटोत्कचः।।

तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः।
राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः।।

तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः।
तादृग्यादृक्पुरावृत्तं शम्बरामरराजयोः।।

एवं द्वन्द्वशतान्यासन्रथवारणवाजिनाम्।
पदातीनां च भद्रं ते तव तेषां च सङ्कुले।।

नैतादृशो दृष्टपूर्वः सङ्ग्रामो नैव च श्रुतः।
द्रोणस्याभावभावे तु प्रसक्तानां परस्परम्।।

इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो।
तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि
द्वादशदिवसयुद्धे पञ्चविंशोऽध्यायः।। 25 ।।