द्रोणपर्व
अध्यायः २४
धृतराष्ट्र उवाच।
व्यथयेयुरिमे सेनां देवानामपि सञ्जय।
आहवे ये न्यवर्तन्त वृकोदरमुखा नृपाः।।
सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः।
तस्मिन्नेव च सर्वार्थाः प्रदृश्यन्ते पृथग्विधाः।।
दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी।
अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः।।
स एव महतीं सेनां समावर्तयदाहवे।
किमन्यद्दैवसंयोगान्मम पुत्राभवाय च।।
युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः।
स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति।।
द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः।
स पुनर्भागधेयेन सहायानुपलब्धवान्।।
अर्थे मे केकया लब्धाः काशिका कोसलाश्चये।
चेदीनां चार्धमपरे मामे व समुपाश्रिताः।।
पृथिवी भूयसी तात मम पार्थस्य नो तथा।
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा।।
तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः।
निहतः पार्षतेनाजौ किमन्यद्भागधेयतः।।
मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम्।
सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान्।।
समनुप्राप्तकृच्छ्रोऽहं मोहं परममागतः।
भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे।।
यन्मां क्षत्ताऽब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम्।
दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह।।
नृशंसं तु परं तात त्यक्त्वा दुर्योधनं यदि।
पुत्रशेषं चिकीर्षेयं कृत्स्नं न मरणं व्रजेत्।।
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः।
सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति।।
अद्य चाप्यस्य राष्ट्रस्य कृतोच्छेदस्य सञ्जय।
अवशेषं न पश्यामि ककुदे मृदिते सति।।
कथं स्यादवशेषो हि धुर्ययोरभ्यतीतयोः।
यौ नित्यमुपजीवामः क्षमिणौ पुरुषर्षभौ।।
व्यक्तमेव च मे शंस यथा युद्धमवर्तत।
केऽयुध्यन्के व्यपाकुर्वन्के क्षुद्राः प्राद्रवन्भयात्।।
धनुञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः।
तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च वृकोदरात्।।
यथाऽसीच्च निवृत्तेषु पाण्डवेयेषु सञ्जय।
मम सैन्यावशेषस्य सन्निपातः सुदारुणः।।
कथं च वो मनस्तात निवृत्तेष्वभवत्तदा।
मामकानां च ये शूराः के कांस्तत्र न्यवारयन्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि
संशप्तकवधपर्वणि चतुर्विंशोऽध्यायः।। 24 ।।