द्रोणपर्व

अध्यायः १९१

Drona Parva (Sanskrit) · Adhyaya 191
अक्षर का आकार

सञ्जय उवाच।

पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत्।
यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा।।

द्रोणास्त्रेण महाराज वध्यमानाः परे युधि।
नात्रसन्त रणे द्रोणत्सत्ववन्तो महारथाः।।

युध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा।
द्रोणमेवाभ्ययुर्युद्धे योधयन्तो महारथाः।।

तेषां तु च्छाद्यमानानां पाञ्चालानां समन्ततः।
अभवद्भैरवो नादो वध्यतां शरवृष्टिभिः।।

वध्यमानेषु सङ्ग्रामे पाञ्चालेषु महात्मना।
उदीर्यमाणे द्रोणास्त्रे पाण्‍डवान्भयमाविशत्।।

दृष्ट्वाऽश्वनरयोधानां विपुलं च क्षयं युधि।
पाण्‍डवेया महाराज नाशशंसुर्जयं तदा।।

कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित्।
समिद्धः शिशिरापाये दहन्कक्षमिवानलः।।

न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम्।
न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित्।।

त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान्।
मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत्।।

नैष युद्धेन सङ्ग्रामे जेतुं शक्यः कथञ्चन।
सधनुर्धन्विनां श्रेष्ठो देवैरपि सवासवैः।।

न्यस्तशस्त्रस्तु सङ्गारमे शक्यो हन्तुं भवेन्नृभिः।
आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डवाः।
यथा न संयुगे सर्वान्निहन्याद्रुक्मवाहनः।।

अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम।
तं हतं संयुगे कश्चिदस्मै शंसतु मानवः।।

एतन्नारोचयद्राजन्कुन्तीपुत्रो धनञ्जयः।
अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः।।

ततो भीमो महाबाहुरनीकेषु महागजम्।
जघान गदया राजन्नश्वत्थामानमित्युत।
परप्रमथनं घोरं मालवस्येन्द्रवर्मणः।।

भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे।
अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह।।

अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत्।
कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा।।

भीमसेनवचः श्रुत्वा द्रोणस्तत्परमाप्रियम्।
मनसा सन्नागात्रोऽभूद्यथा सैकतमम्भसि।।

शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै।
हतः स इति च श्रुत्वा नैव धैर्यादकम्पत।।

स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत्।
अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः।।

स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः।
अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम्।।

तं विंशतिसहस्राणि पाञ्चालानां नरर्षभाः।
यथा चरन्तं सङ्ग्रामे सर्वतोऽवाकिरञ्छरैः।।

शरैस्तैराचितं द्रोणं नापश्याम महारथम्।
भास्करं जलदै रुद्धं वर्षास्विव विशाम्पते।।

विधूय तान्बाणगणान्पाञ्चालानां महारथः।
प्रादुश्चक्रे ततो द्रोणो ब्राह्ममस्त्रं परन्तपः।।

वधाय तेषां शूराणां पाञ्चालानाममर्षितः।
ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसैनिकान्।।

शिरांस्यापातयच्चापि पाञ्चालानां महामृधे।
तथैव परिघाकारान्बाहून्कनकभूषणान्।।

ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः।
मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः।।

कुञ्जराणां च पततां हयौघानां च भारत।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा।।

हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान्।
अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन्।।

तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान्।
वसुदानस्य भल्लेन शिरः कायादपाहरत्।।

पुनः पञ्चशतान्मात्स्यान्षट्‌सहस्रांश्च सृञ्जयान्।
हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः।।

क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम्।
ऋषयोऽभ्यागतास्तूर्णं हव्यवाहपुरोगमाः।।

विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः।
वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः।।

सिकताः पृश्नयो गर्गा वालखिल्या मरीचिपाः।
भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः।।

त एनमब्रुवन्सर्वे द्रोणमाहरवशोभिनम्।
अधर्मतः कृतं युद्धं समयो निधनस्य ते।।

न्यस्यायुधं रणे द्रोण समीक्षास्मानवस्थितान्।
नातः क्रूरतरं कर्म पुनः कर्तुमिहार्हसि।।

वेदवेदाङ्गविदुषः सत्यधर्मरतस्य ते।
ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते।।

त्यजायुधममोधेषो तिष्ठ वर्त्मनि शाश्वते।
परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे।।

ब्रह्मास्त्रेण त्वया दग्धा अनस्त्रज्ञा नरा भुवि।
यदेतदीदृशं विप्र कृतं कर्म न साधु तत्।।

न्यस्यायुधं रणे विप्र द्रोण मा त्वं चिरं कृथाः।
मा पापिष्ठतरं कर्म करिष्यसि पुनर्द्विज।।

इति तेषां वचः श्रुत्वा भीमसेनवचः स्मरन्।
धृष्टद्युम्नं च सम्प्रेक्ष्य रणे स विमनाऽभवत्।।

सन्दिह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम्।
अहतं वा हतं वेति पप्रच्छ सुतमात्मनः।।

स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम्।
त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन।।

तस्मात्तं परिपप्रच्छ नान्यं कञ्छिद्द्विजर्षभः।
तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे।।

ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधाम्पतिम्।
द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत्।।

यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः।
सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति।।

स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं वचः।
अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः।।

तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम्।।

श्रुत्वैवं तु महाराज वधोपायं महात्मनः।
गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः।।

अश्वत्थामेति विख्यातो गजः शक्रगजोपमः।
निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम्।।

अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति।
नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः।।

स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः।
द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम्।।

त्वयोक्ते नैव युध्येत जातु राजन्द्विजर्षभः।
सत्यवागिति लोकेऽस्मिन्भवान्ख्यातो जनाधिप।।

तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः।
भावित्वाच्च महाराज वक्तुं समुपचक्रमे।।

तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः।
`अश्वत्थामा हति शब्दमुच्चैश्चकार ह'।
अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत।।

तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुलमुच्छ्रितः।
बभूवैवं च तेनोक्ते तस्य वाहाः स्पृशन्महीम्।।

युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः।
पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत्।।

आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम्।
ऋषिवाक्येन मन्वानः श्रुत्वा च निहतं सुतम्।।

विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च।
योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिन्दमः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि
पञ्चदशदिवसयुद्धे एकनवत्यधिकशततमोऽध्यायः।। 191 ।।