द्रोणपर्व

अध्यायः १९०

Drona Parva (Sanskrit) · Adhyaya 190
अक्षर का आकार

सञ्जय उवाच।

तस्मिंस्तथा वर्तमाने गजाश्वनरसंक्षये।
दुःशासनो महाराज धृष्टद्युम्नमयोधयत्।।

स तु रुक्मरथासक्तो दुःशासनशरार्दितः।
अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत्।।

क्षणेन स रथस्तस्य सध्वजः सहसारथिः।
नादृश्यत महाराज पार्षतस्य शरैश्चितः।।

दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः।
नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः।।

स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः।
किऱञ्छरसहस्राणि द्रोणमेवाभ्ययाद्रणे।।

अभ्यपद्यत हार्दिक्यः कृतवर्मा त्वनन्तरम्।
सोदर्याणां त्रयश्चैव त एनं पर्यवारयन्।।

तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ।
द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम्।।

सम्प्रहारमकुर्वंस्ते सर्वे च सुमहारथाः।
अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः।।

शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः।
आर्यं युद्धमकुर्वन्त परस्परजिगीषवः।।

शुक्लाभिजनकर्माणो मतिमन्तो जनाधिप।
धर्मयुद्धमयुध्यन्त प्रेप्सन्तो गतिमुत्तमाम्।।

न तत्रासीदधर्मिष्ठमशस्तं युद्धमेव च।
नात्र कर्णी न नालीको न लिप्तो न च बस्तिकः।।

न सूची कपिशो नैव न गवास्थिर्गजास्थिजः।
न चूली बलिशस्तत्र न यमी नापि पाचकः।
इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः।।

ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन्।
सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च।।

तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम्।
चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह।।

धृष्टद्युम्नस्तु तान्दृष्ट्वा तव राजन्रथर्षभान्।
यमाभ्यां वारितान्वीराञ्छीघ्रास्त्रो द्रोणमभ्ययात्।।

निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः।
समसज्जन्त चत्वारो वाताः पर्वतयोरिव।।

द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ।
समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत।।

दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम्।
यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत्।।

दुर्योधनो महाराज किरञ्छोणितभोजनान्।
तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत।।

तौ परस्परमासाद्य समीपे कुरुमाधवौ।
हसमानौ नृशार्दूलावभीतौ समसज्जताम्।।

बाल्यवृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ।
अन्योन्यं प्रेक्षमाणौ च स्मयमानौ पुनःपुनः।।

अथ दुर्योधनो राजा सात्यकिं समभाषत।
प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः।।

धिक् क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम्।
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम्।।

यत्र मामभिसन्धत्से त्वां चाहं शिनिपुङ्गव।
त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव।।

स्मरामि तानि सर्वाणि बाल्यवृत्तानि यानि नौ।
तानि सर्वाणि जीर्णानि साम्प्रतं नो रणाजिरे।
किमन्यत्क्रोधलोभाभ्यां युद्धमेवाद्य सात्वत।।

तं तथावादिनं तत्र सात्यकिः प्रत्यभाषत।
प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित्।।

नेयं सभा राजपुत्र नाचार्यस्य निवेशनम्।
यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः।।

दुर्योधन उवाच।

क्व सा क्रीडा गताऽस्माकं बाल्ये वै शिनिपुङ्गव।
क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः।।

किन्तु नो विद्यते कृत्यं धनेन धनलिप्सया।
यत्र युध्यामहे सर्वे धनलोभात्समागताः।।

सञ्जय उवाय।

तं तथावादिनं तत्र राजानं माधवोऽब्रवीत्।
एवं वृत्तं सदा क्षात्रं युध्यन्तीह गुरूनपि।।

यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः।
त्वत्कृते सुकृतांल्लोकान्गच्छेयं भरतर्षभ।।

या ते शक्तिर्बलं यच्च तत्क्षिप्रं मयि दर्शय।
नेच्छामि तदहं द्रष्टुं मित्राणां व्यसनं महत्।।

इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः।
अभ्ययात्तूर्णमव्यग्रो दयां नाकुरुतात्मनि।।

तमायान्तं महाबाहुं प्रत्यगृह्णात्तवात्मजः।
शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव।।

ततः प्रववृते युद्धं कुरुमाधवसिंहयोः।
अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः।।

ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम्।
दुर्योधनः प्रत्यविध्यत्कुपितो दशभिः शरैः।।

तं सात्यकिः प्रत्यविध्यत्तथैवावाकिरच्छरैः।
पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह।।

सात्यकिं तु रणे राजन्प्रहसंस्तनयस्तव।
आकर्णपूर्णैर्निशितैर्विव्याध त्रिंशता शरैः।।

ततोऽस्य सशरं चापं क्षुरप्रेण द्विधाऽच्छिनत्।।

सोऽन्यत्कार्मुकमादाय लघुहस्तस्ततो दृढम्।
सात्यकिर्व्यसृजच्चापि शरश्रेणीं सुतस्य ते।।

तामापतन्तीं सहसा शरश्रेणीं जिघांसया।
चिच्छेद बहुधा राजा तत उच्चुक्रुशुर्जनाः।।

सात्यकिं च त्रिसप्तत्या पीडयामास वेगितः।
स्वर्णपुङ्खैः शिलाधौतैराकर्णापूर्णनिःसृतैः।।

तस्य सन्दधतश्चेषु संहितेषु च कार्मुकम्।
आच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाप्यवीविधत्।।

स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरे।
दुर्योधनो महाराज दाशार्हशरपीडितः।।

समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात्।
विसृजन्निषुजालानि युयुधानरथं प्रति।।

तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति।
सततं विसृजन्राजंस्तत्सङ्कुलमवर्तत।।

तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च शरीरिषु।
अग्नेरिव महाकक्षैः शब्दः समभवन्महान्।।

तयोः शरसहस्रैश्च सञ्छन्नं वसुधातलम्।
अगम्यरूपं च शरैराकाशं समपद्यत।।

तत्राप्यधिकमालक्ष्य माधवं रथसत्तमम्।
क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव।।

न तु तं मर्षयामास भीमसेनो महाबलः।
सोऽभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून्।।

तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव।
धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः।।

भीमसेनस्तु सङ्क्रुद्धो गदामादाय पाण्डवः।
ध्वजं धनुश्च सूतं च सम्ममर्दाहवे रिपोः।।

रथचक्रं च कर्णस्य बभञ्ज स महाबलः।
भग्नयक्रे रथेऽतिष्ठदकम्पः शैलराडिव।।

एकचक्रं रथं तस्य तमूहुः सुचिरं हयाः।
एकचक्रमिवार्कस्य रथं सप्त हया यथा।।

अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत।
विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे।।

भीमसेनस्तु सङ्क्रुद्धः सूतपुत्रमयोधयत्।
तस्मिंस्तथा वर्तमाने क्रुद्धो धर्मसुतोऽब्रवीत्।
पाञ्चालानां नरव्याघ्रान्मात्स्यांश्च पुरुषर्षभान्।।

ये नः प्राणाः शिरो ये च ये नो योधा महारथाः।
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभान्।।

ये नः प्राणाः शिरो ये च ये नो योधा महारथाः।
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः।।

किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः।
तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः।।

क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः।
जयन्तो वध्यमानाश्च गतिमिष्टां गमिष्यथ।।

ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः।
चतुर्धा वाहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः।।

पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्निशितैः शरैः।
भीमसेनपुरोगाश्चाप्येकतः पर्यवारयन्।।

आसंस्तु पाण्डुपुत्राणां त्रयो जिह्मा महारथाः।
यमौ च भीमसेनश्च प्राक्रोशंस्ते धनञ्जयम्।।

अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद।
तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम्।।

कौरवेयांस्ततः पार्थः ससा समुपाद्रवत्।
पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान्।
ममर्दुस्तरसा वीराः पञ्चमेऽहनि भारत।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि
पञ्चदशदिवसयुद्धे नवत्यधिकशततमोऽध्यायः।। 190 ।।