द्रोणपर्व

अध्यायः १७९

Drona Parva (Sanskrit) · Adhyaya 179
अक्षर का आकार

सञ्जय उवाच।

संदृश्य समरे भीमं रक्षसा ग्रस्तमन्तिकात्।
वासुदेवोऽव्रवीद्राजन्घटोत्कचमिदं वचः।।

पश्य भीमं महाबाहो रक्षसा ग्रस्तमाहवे।
पश्यतां सर्वसैन्यानां तव चैव महाद्युते।।

स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम्।
जहि क्षिप्रं महाबाहो पश्चात्कर्णं बधिष्यसि।।

स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान्।
युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः।।

तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः।
अलायुधस्य चैवोग्रं हेडिम्बेश्चापि भारत।।

अलायुधस्य योधांश्च राक्षसान्भीमदर्शनान्।
वेगेनापततः शूरान्प्रगृहीतशरासनान्।।

आत्तायुधः सुसङ्क्रुद्धो युयुधानो महारथः।
नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः।।

सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान्।
परिचिक्षेप बीभत्सुः सर्वतः प्रकिरञ्छरान्।।

कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान्।
धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां पहारथान्।।

तान्वध्यमानान्दृष्ट्वाऽथ भीमो भीमपराक्रमः।
अभ्ययात्त्वरितः कर्णं विशिखान्प्रकिरन्रणे।।

ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः।
नकुलः सहदेवश्च सात्यकिश्च महारथः।
ते कर्णे योधयामासुः पाञ्चाला द्रोणमेव तु।।

अलायुधस्तु सङ्क्रुद्धो घटोत्कचमरिन्दमम्।
परिघेणातिकायेन ताडयामास मूर्धनि।।

स तु तेन प्रहारेण भैमसेनिर्महाबलः।
ईषन्मूर्छितमात्मानमस्तम्भयत वीर्यवान्।।

ततो दीप्ताग्निसङ्काशां शतघण्टामलङ्कृताम्।
चिक्षेप तस्मै समरे गदां काञ्चनभूषिताम्।।

सा हयांश्च रथं चास्य सारथिं च महास्वना।
चूर्णयामास वेगेन विसृष्टा भीमकर्मणा।।

स भग्नहयचक्राक्षाद्विशीर्णध्वजकूबरात्।
उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम्।।

स समास्थाय मायां तु ववर्ष रुधिरं बहु।
विद्युद्विभ्राजितं चासीत्तुमुलाभ्राकुलं नभः।।

ततो वज्रनिपाताश्च साशनिस्तनयित्नवः।
महांश्चटचटाशब्दस्तत्रासीच्च महाहवे।।

तां प्रेक्ष्य महतीं मायां राक्षसो राक्षसस्य च।
ऊर्ध्वमुत्पत्य हैडिम्बिस्तां मायां माययाऽवधीत्।।

सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि।
अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे।।

अश्मवर्षं स तं घोरं शरवर्षेण वीर्यवान्।
दिक्षु विध्वंसयामास तदद्भुतमिवाभवत्।।

ततो नानाप्रहरणैरन्योन्यमभिवर्षताम्।
आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः।।

पिनाकैः करवालैश्च तोमरप्रासकम्पनैः।
नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वथैः।।

अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि।
उत्पाटितैर्महाशाखैर्विविधैर्जगतीरुहैः।।

शमीपीलूकदम्बैश्च चम्पकैश्चैव भारत।
इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः।।

पलाशैश्चारिमेदैश्च प्लुक्षन्यग्रोधपिप्पलैः।
महद्भिः समरे तस्मिन्न्योन्यमभिजघ्नतुः।।

विपुलैः पर्वताग्रैश्च नानाधातुभिराचितैः।
तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव।।

युद्धं समभवद्धोरं भैम्यलायुधयोर्नृप।
हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा।।

तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा।
उत्सृज्य च शितौ खङ्खागवन्योमभिपेततुः।।

तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ।
भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ।।

तौ स्विन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप।
रुधिरं च महाकायावतिवृष्टाविवाम्बुदौ।।

अथाभिपत्य वेगेन समुद्धाम्य च राक्षसम्।
बलेनाक्षिप्य हैडिम्बिश्चकर्तास्य शिरो महत्।।

सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूपितम्।
तदा सुतुमुलं नादं ननाद सुमहाबलः।।

हतं दृष्ट्वा महाकायं बकज्ञातिमरिन्दमम्।
पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे।।

ततो भेरीसहस्राणि शङ्खानामयुतानि च।
अवादयन्पाण्डवेया राक्षसे निहते युधि।।

अतीव सा निशा तेषां बभूव विजयावहा।
विद्योतमाना विबभौ समन्ताद्दीपमालिनी।।

अलायुधस्य तु शिरो भैमसेनिर्महाबलः।
दुर्योधनस्य प्रमुखे चिक्षेप गतचेतसः।।

अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम्।
बभूव परमोद्विग्नः सह सैन्येन भारत।।

तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि।
हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम्।।

ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः।
जीवितं चिरकालं भ्रातॄणां चाप्यमन्यत।।

स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै।
प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे एकोनाशीत्यधिकशततमोऽध्यायः।। 179 ।।