द्रोणपर्व
अध्यायः १७८
सञ्जय उवाच।
तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे।
हर्षमाहारयाञ्चक्रुः कुरवः सर्व एव ते।।
तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः।
अप्लुवाः प्लवमासाद्य तर्तुकामा इवार्णवम्।।
पुनर्जातमिवात्मानं मन्वानाः पुरुषर्षभाः।
अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन्।।
तस्मिंस्त्वमानुषे युद्धे वर्तमाने महाभये।
कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने।।
`न द्रौणिर्न कृपद्रोणौ न शल्यो न च माधवः।
एक एव तु तेनासीद्योद्धा कर्णो रणे वृषा'।।
उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः।
व्यभ्रमंस्तावकाश्चापि घूर्णमानास्ततस्ततः।।
चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः।
तत्कर्म दृष्ट्वा सम्भ्रान्ता हैडिम्बस्य रणाजिरे।।
सर्वमाविग्नमभवद्धाहाभूतमचेतनम्।
तव सैन्यं महाराज निराशं कर्णजीविते।।
दुर्योधनस्तु सम्प्रेक्ष्य कर्णमार्तिं परां गतम्।
अलायुधं राक्षसेन्द्रं समाहूयेदमब्रवीत्।।
एष वैकर्तनः कर्णो हैडिम्बेन समागतः।
कुरुते कर्म सुमहद्यदस्योपयिकं मृधे।।
पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना।
नानाशस्त्रैरभिहतान्पादपानिव दन्तिना।।
तवैष भारः समरे ज्ञातिमध्ये मया कृतः।
तवैवानुमते वीर तं विक्रम्य निबर्हय।।
पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः।
मायाबलं समाश्रित्य कर्षयत्यरिकर्शन।।
एवमुक्तः स राज्ञा तु राक्षसो भीमविक्रमः।
तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत्।।
ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो।
प्रत्यमित्रमुपायान्तमर्दयामास मार्गणैः।।
तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः।
मत्तयोर्वासिताहेतोर्दीपयोरिव कानने।।
रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः।
अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा।।
तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम्।
अलायुधेन समरे सिंहेनेव गवां पतिम्।।
रथेनादित्यवपुषा भीमः प्रहरतां वरः।
किरञ्छरौघान्प्रययावलायुधरथं प्रति।।
तमायान्तमभिप्रेक्ष्य स तदाऽलायुधः प्रभो।
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत्।।
तं भीमः सहसाऽभ्येत्य राक्षसान्तकरः प्रभो।
सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत्।।
तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः।
अभ्यवर्षत कौन्तेयं पुनःपुनररिन्दम।।
तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन्।
नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः।।
स ताड्यमानो बहुभिर्भीमसेनो महाबलः।
पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः।।
ते वध्यमाना भीमेन राक्षसाः क्रूरबुद्धयः।
विनेदुस्तुमुलान्नादान्दुद्रुवुस्ते दिशो दश।।
तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो मबहालम्।
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत्।।
तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः।।
अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे।
चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत्।।
स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः।
गदां चिक्षेप वेगेन वज्रपातोपमां तदा।।
तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः।
गदया ताडयामास सा गदा भीममाव्रजत्।।
स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत्।
तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः।।
ते चापि राक्षसाः सर्वे रजन्यां भीमरूपिणः।
शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान्।।
पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः।
न शान्तिं लेभिरे तत्र राक्षसैर्भृशपीडिताः।।
तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवम्।
अब्रवीत्पुण्डरीकाक्षो धनञ्जयमिदं वचः।।
पश्य भीमं महाबाहुं राक्षसेन्द्रवशं गतम्।
पदमस्यानुगच्छ त्वं मा विचारय पाण्डव।।
धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ।
सहितौ द्रौपदेयाश्च कर्णं यान्तु महारथाः।।
नकुलः सहदेवश्च युयुधानश्च वीर्यवान्।
इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव।।
त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम्।
मारयस्व नरव्याघ्र महद्धि भयमागतम्।।
एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः।
जग्मुर्वैकर्तनं कर्णं राक्षसांश्चैव तान्रणे।।
अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः।
धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान्।।
हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः।
जघान मिषतः सङ्ख्ये भीमसेनस्य राक्षसः।।
सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः।
तस्मै गुर्वीं गदां घोरां विनदन्नुत्ससर्ज ह।।
ततस्तां भीमनिर्घोषामापतन्तीं महागदाम्।
गदया राक्षसो घोरो निजघान ननाद च।।
तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम्।
भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत्।।
तयोः समभवद्युद्धं तुमुलं नररक्षसोः।
गदानिपातसंहादैर्भुवं कम्पयतोर्भृशम्।।
गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम्।
मुष्टिभिर्वज्रसंहादैरन्योन्यमभिजघ्नतुः।।
रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः।
यथासन्नमुपादाय निजघ्नतुरमर्षणौ।।
तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम्।
मत्ताविव महानागौ चकृपाते पुनः पुनः।।
तावपश्यद्वृषीकेशः पाण्डवानां हिते रतः।
स भीमसेनरक्षार्थं हैडिम्बिं पर्यचोदयत्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे अष्टसप्तत्यधिकशततमोऽध्यायः।। 178 ।।