द्रोणपर्व
अध्यायः १४४
धृतराष्ट्र उवाच।
अजितो द्रोणराधेयविकर्णकृतवर्मभिः।
`यश्चैवोत्सहते वेतुं समस्तं मामकं बलम'।
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे।।
स कथं कौरवेयेण समरेष्वनिवारितः।
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः।।
सञ्जय उवाच।
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा।
यथा च भूरिश्रवसो यत्र ते संशयो नृप।।
`ब्रह्मणस्त्वभवत्पुत्रो मानसोऽत्रिर्महातपाः'।
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः।।
बुधस्यैलो महाबाहुः पुत्र आसीत्पुरूरवाः।
पुरूरवस आयुस्तु आयुषो नहुषः सुतः।।
नहुषस्य ययातिस्तु राजा देवर्षिसम्मतः।
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः।।
यदोरभूदन्ववाये आजमीढ इति स्मृतः।
यादवस्तस्य तु सुतः शूरस्त्रैलोक्यसम्मतः।।
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः।
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि।
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि।
तद्वार्यश्चापि तत्रैव कुले शिनिरभून्नृप।।
एतस्मिन्नेव काले तु देवकस्य महात्मनः।
दुहितः स्वयंवरे राजन्सर्वक्षत्रसमागमे।।
तत्र वै देवकीं देवीं वसुदेवार्थमाशु वै।
निर्जित्व पार्थिवान्सर्वान्रथमारोपयच्छिनिः।।
तां दृष्ट्वा देवकीं शूरो रथस्थां पुरुषर्षभः।
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप।।
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमुद्भतम्।
बाहुयुद्धं सुबलिनोः प्रसक्तं पुरुषर्षभः।।
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः।
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः।।
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः।
कृपया च पुनस्तेन स जीवेति विसर्जितः।।
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष।
प्रासादयन्महादेवममर्षवशमास्थितः।।
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः।
वरेण च्छन्दयामास स तु वव्रे वरं नृपः।।
पुत्रमिच्छामि भगवन्यो निपात्य शिनेः सुतम्।
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे।।
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव।
एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत।
स तेन वरदानेन लब्धवान्भूरिदक्षिणम्।।
अपातयच्च समरे सौमदत्तिः शिनेः सुतम्।
पश्यतां सर्वसैन्यानां पदा चैनमताडयत्।।
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि।
न हि शक्यो रणे जेतुं सात्वतो मनुजर्षभैः।।
लब्धलक्ष्याश्च सङ्ग्रामे बहुशश्चित्रयोधिनः।
देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः।
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः।।
न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो।
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ।।
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः।।
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः।
जेतारो वृष्णिवीराणां किं पुनर्मानवा रणे।।
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिस्वे चाप्यहिंसकाः।
एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि।।
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः।
समर्थान्नावमन्यन्ते दीनानभ्युद्वरन्ति च।।
नित्यं देवपरा दान्तास्त्रातारश्चाविकत्थनाः।
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते।।
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम्।
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप।।
एतत्ते सर्वमाख्यातं यत्र ते संशयः प्रभो।
कुरुराज नरश्रेष्ठ तव व्यपनयो महान्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे चतुश्चत्वारिंशदधिकशततमोऽध्यायः।। 144 ।।