द्रोणपर्व
अध्यायः १४३
सञ्जय उवाच।
स बाहुर्न्यपतद्भूमौ सखङ्गः सशुभाङ्गदः।
आदधज्जीवलोकस्य दुःखमद्भुतमुत्तमः।
`यन्त्रमुक्तो महेन्द्रस्य ध्वजो वृत्तोत्सवो यथा'।।
प्रहरिष्यन्हृतो बाहुरदृश्यते किरीटिना।
वेगेन न्यपतद्भूमौ पञ्चास्य इव पन्नगः।।
स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः।
उत्सृज्य सात्यकिं क्रोधाद्ग्रर्हयामास पाण्डवम्।।
`स विबाहुर्महाराज एकपक्ष इवाण्डजः।
एकचक्रो रथो यद्वद्धरणीमास्थितो नृपः।
उवाच पाण्डवं चैव सर्वक्षत्रस्य पश्यतः।।
भूरिश्रवा उवाच।
नृशंसं बत कौन्तेय कर्मेदं कृतवानसि।
अपश्यतो विषक्तस्य यन्मे त्वं बाहुमच्छिनः।।
येषु येषु नरः पार्थ वर्तते सुसमाहितः।
आशु तच्छीलतामेति तदिदं दृश्यते त्वयि।।
किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम्
किं कुर्वाणो मया सङ्ख्ये हतो भूरिश्रवा इति।।
इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना।
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा।।
ननु नामास्त्रधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः।
सोऽयुध्यमानस्य कथं रणे प्रहृतवानसि।।
न प्रमत्ताय भीताय विरथाय प्रयाचते।
व्यसने वर्तमानाय प्रहरन्ति मनीषिणः।।
इदं तु नीचाचरितमसत्पुरुषसेवितम्।
कथमाचरितं पार्थ पापकर्म सुदुष्करम्।।
आर्येण सुकरं त्वाहुरार्यकर्म धनञ्जय।
अनार्यकर्म त्वार्येण सुदुष्करतमं भुवि।।
कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः।
क्षत्रधर्मादपक्रान्तः सुवृत्तश्चारितव्रतः।।
`अल्पस्तवापराधोऽत्र न त्वां तात विगर्हये।
वार्ष्णेयापशदं प्राप्य क्षुद्रं कृतमिदं त्वया'।।
इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया।
वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते।।
को हि नाम प्रमत्ताय परेण सह युध्यते।
ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत्।।
व्रात्याः सङ्क्लिष्टकर्माणः प्रकृत्यैव च गर्हिताः।
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः।।
सञ्जय उवाच।
एवमुक्तो रणे पार्थो भूरिश्रवसमब्रवीत्।
व्यक्तं हि जीर्यमाणोऽपि बुद्धिं जरयते नरः।
अनर्थकमिदं सर्वं यत्त्वया व्याहृतं प्रभो।।
जानन्नेव हृषीकेशं गर्हसे मां च पाण्डवम्।
सङ्गामाणां हि धर्मज्ञः सर्वशास्त्रार्थपारगः।।
न चाधर्ममहं कुर्यां जानंश्चैव हि मुह्यसे।।
युध्यन्ते क्षत्रियाः शत्रून्स्वैःस्वैः परिवृता नराः।
भ्रातृभिः पितृभिः पुत्रैस्तथा सम्बन्धिबान्धवैः।
वयस्यैरथ मित्रैश्च स्वबाहुबलमाश्रिताः।।
स कथं सात्यकिं शिष्यं सुखसम्बन्धिमेव च।
अस्मदर्थे च युध्यन्तं त्यक्त्वा प्राणान्सुदुस्त्यजान्।।
मम बाहुं रणे राजन्दक्षिणं युद्धदुर्मदम्।
*त्वया निकृष्यमाणं च दृष्टवानस्मि निष्क्रियम्।।
न च त्वं रक्षितव्यो हि एको रणगतेन हि।
यो यस्य युध्यतेऽर्थाय संरक्ष्यो नराधिप।
तै रक्ष्यमाणैः स नृपो रक्षितव्यो महामृधे।।
यद्यहं सात्यकिं दृष्ट्वा तूष्णीमासिष्य आहवे।
ततस्तेन वियोगश्च प्राप्यं नरकमेव च।।
रक्षितव्यो मया यस्मात्तस्माल्लब्धो मया स च।
यशश्चैव स्वपक्षेभ्यः फलं मित्रस्य रक्षणात्।।
यच्च मां गर्हसे राजन्कृष्णेन सह सङ्गतम्।
कस्तेन सङ्गमं नेच्छेत्तत्र ते बुद्धिविभ्रमः।।
आबद्धकवचस्येह रथमारुह्य तिष्ठतः।
सर्वायुधैरुपेतस्य प्रतियोद्धृप्रतीक्षिणः।।
अस्मिन्रथगजानीके हयपत्तिसमाकुले।
सिंहनादोद्धतरवे गम्भीरे सैन्यसागरे।।
स्वैश्चापि समुपेतस्य विक्रान्तस्य तथा रणे।
सात्यकेन कथं योग्यः सङ्ग्रामस्ते भविष्यति।।
बहुभिः सह सङ्गम्य निर्जित्य च महारथान्।
श्रान्तश्च श्रान्तवाहश्च क्षीणसर्वायुधस्त्वया।
समेतः सात्यकिः सङ्ख्ये निर्जितश्च महारथः।।
ईदृशं सात्यकिं सङ्ख्ये निर्जित्य च महारथम्।
अधिकत्वं विजानीपे स्ववीर्यवशमागतम्।।
इच्छसि त्वं शिरस्तस्य असिना हर्तुमाहवे।
तथा कृच्छ्रगतं दृष्ट्वा सात्यकिं कः क्षमिष्यति।
एकस्यैकेन हि कथं सङ्ग्रामः सम्भविष्यति।।
त्वं तु गर्हय चात्मानं स्वधर्मं यो न रक्षसि।
कथं रक्षिष्यसे वीर ये वै त्वां संश्रिता जनाः।।
आत्तशस्त्रस्य हि रणे वृष्णिपुत्रं जिघांसतः।
छिन्नवान्यदहं बाहुं नैतल्लोकविगर्हितम्।।
न्यस्तशस्त्रस्य हि पुनर्विकलस्य विवर्मणः।
अभिमन्योर्वधं तात धार्मिकः को नु पूजयेत्।।
सञ्जय उवाच।
एवमुक्तो महार्बाहुर्यूपकेतुर्महायशाः।
युयुधानं समुत्सृज्य रणे प्रायमुपाविशत्।।
शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः।
यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत्।।
सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः।
ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः।।
ततस्ते सर्वसेनासु जनाः कृष्णधनञ्जयौ।
गर्हयामासुरप्येतौ शशंसुर्भूरिदक्षिणम्।।
निन्द्यमानौ तथा कृष्णौ नोचतुः किञ्चिदप्रियम्।
ततः प्रशस्यमानश्च नाहृष्यद्यूपकेतनः।।
तांस्तथावादिनो राजन्पुत्रांस्तव धनञ्जयः।
अमूष्यमाणो मनसा तेषां तस्य च भाषितम्।।
असङ्क्रुद्धमना वाचः स्मारयन्निव भारत।
उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः।।
मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम्।
न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे।।
यूपकेतुं समीक्ष्यैतन्न मां गर्हितुमर्हथ।
न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम्।।
न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः।
`नाभिमन्योर्वधं यूयं गर्हयध्वं कुतस्तदा।।
दुर्योधनस्य क्षुद्रस्य अप्रमाणे च तिष्ठतः।
सौमदत्तेरथं साधुः सर्वसाहाय्यकारिणः।।
अस्मदीया मया रक्ष्याः प्राणबाध उपस्थिते।
ये मे प्रत्यक्षतो वीरा हन्येरन्निति मे मतिः।।
सात्यकश्च वशं नीतः कौरवेण महात्मना।
ततो मयैतच्चरितं प्रतिज्ञारक्षणं प्रति।।
सञ्जय उवाच।
पुनश्च कृपयाऽऽविष्टो बहु तत्तद्विचिन्तयन्।
उवाच चैनं कौरव्यमर्जुनः शोकपीडितः।।
धिगस्तु क्षत्रधर्मं तु यत्र त्वं पुरुषेश्वरः।
अवस्थामीदृशीं प्राप्तः शरण्यः शरणप्रदः।।
नातिभारः कृतान्तस्य विद्यते कुरुनन्दन।
यत्र त्वं पुरुषव्याघ्रः प्राप्तः पापामिमां दशाम्।।
नात्मनः सुकृतस्यास्य फलं वै नृपसत्तम।
यत्र त्वं कुरुशार्दूल प्राप्तः पापामिमां दशाम्।।
रौरवं नरकं भीमं गमिष्यति सुयोधनः।
यत्कृते नरशार्दूलः प्राप्तः पापामिमां दशाम्।।
को हि नाम पुमाँल्लोके मादृशः पुरुषोत्तम।
प्रहरेत्त्वद्विधे त्वद्य प्रतिज्ञा यदि नो भवेत्'।।
एवमुक्तः स पार्थेन शिरसा भूमिमस्पृशत्।
पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम्।।
एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः।
युपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः।।
अर्जुन उवाच।
या प्रीतिर्धर्मराजे मे भीमे च बलिनां वरे।
नकुले सहदेवे च सा मे त्वयि शलाग्रज।।
मया त्वं समनुज्ञातः कृष्णेन च महात्मना।
गच्छ पुण्यकृतां लोकाञ्छिबिरौशीनरो यथा।।
वासुदेव उवाच।
ये लोका मम विमलाः सकृद्विभाता
ब्रह्माद्यैः सुरवृषभैरपीष्यमाणाः।
तान्क्षिप्रं व्रज सतताग्निहोत्रयाजि--
न्मत्तुल्यो भव गरुडोत्तमाङ्गयानः।।
सञ्जय उवाच।
`धनञ्जये ब्रुवत्येवं घृणया च परिप्लुते।
अवाङ्मुखा बभूवुश्च सैनिकाः सर्व एव ते।।
मुहूर्तादिव विश्रम्य सात्यकिः क्रोधमूर्च्छितः।
अमर्षवशमापन्नः सौमदत्तिनिराकृतः'।।
उत्थितः स तु शैनेयो विमुक्तः सौमदत्तिना।
सङ्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः।।
निहतं पाण्डुपुत्रेण प्रसक्तं भूरिदक्षिणम्।
इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम्।।
निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम्।
क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः।।
वार्यमाणः स कृष्णेन पार्थेन च महात्मना।
भीमेन चक्रक्षाभ्यामश्वत्थाम्ना कृपेण च।।
कर्णेन वृषसेनेन सैन्धवेन तथैव च।
विक्रोशतां च सैन्यानामवधीत्तं धृतव्रतम्।।
प्रायोपविष्टस्य रणे पार्थेन च्छिन्नबाहुनः।
सात्यकिः कौरवेयस्य खङ्गेनापाहरच्छिरः।।
नाभ्यनन्दन्त तं सैन्याः सात्यकिं तेन कर्मणा।
अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम्।।
सहस्राक्षसमं चैव सिद्धचारणमानवाः।
भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम्।।
अपूजयन्त तं देवा विस्मितास्तेऽस्य कर्मभिः।
पक्षवादांश्च सुबहून्प्रावदंस्तव सैनिकाः।।
न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा।
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखतरो नृणाम्।।
हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा।
विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे।।
`मर्तव्यमेव सर्वेण चरमं पूर्वमेव वा।
मन्यध्वं मृत इत्येष माभूद्वो बुद्धिलाघवम्।।
तस्मिन्हते महाबाहौ यूपकेतौ महात्मनि।
धिगेनमिति चाक्रन्दन्क्षत्रियाः क्रोधमूर्च्छिताः।।
अन्ये न युक्तमित्येव भवितव्यं तथेति च।
केचिदासन्विमनसः केचिद्दुःखसमन्विताः'।।
सात्यकिरुवाच।
न हन्तव्यो न हन्तव्य इति मन्दाः प्रभाषत।
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः।।
यदा बालः सुभद्रायाः सुतः शस्त्रनिनाकृतः।
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः।।
मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि।
`श्रुत्वा तत्सर्वभावेन गर्हयध्वं न चार्जुनम्।
शृणुध्वं सर्वमेवेह श्रुत्वा गर्हथ मानवाः'।।
यो मां निष्पिष्य सङ्ग्रमे जीवन्हन्यात्पदा रुषा।
स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः।।
चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः।
मन्यध्वं मृत इत्येवमेतद्वो बुद्धिलाघवम्।।
युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुङ्गवाः।।
यत्तु पार्थेन मां दृष्ट्वा प्रतिज्ञामभिरक्षता।
सखङ्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः।।
भवितव्यं हि यद्भावि दैवं चेष्टयते हि तत्।
सोयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम्।।
अपि चापं पुरा गीतः श्लोको वाल्मीकिना भुवि।
न हन्तव्याः स्त्रिय इति यद्ब्रवीषि प्लवङ्गम।।
सर्वकालं मनुष्येण व्यवसायवता सदा।
पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत्।
अनुष्ठितं मया तच्च कस्माद्गर्हथ मूढवत्।।
सञ्चय उवाच।
एवमुक्ते महाराज सर्वे कौरवपुङ्गवाः।
न स्म किंचिदभाषन्त मनसा समपूजयन्।।
मन्त्रभिपूतस्य महाध्वरेषु
यशस्विनो भूरिसहस्रदस्य।
मुनेरिवारण्यगतस्य तस्य
न तत्र कश्चिद्वधमभ्यनन्दत्।।
सुनीलकेशं वरदस्य तस्य
सूरस्य पारावतलोहिताक्षम्।
अश्वस्य मेध्यस्य शिरो निकृत्तं
न्यस्तं हविर्धानमिवान्तरेण।।
स तेजसा शस्त्रकृतेन पूतो
महाहवे देहवरं विसृज्य।
आक्रामदूर्ध्वं वरदो वरार्हो
व्यावृत्त्य धर्मेण परेम रोदसी।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे त्रिचत्वारिंशदधिकशततमोऽध्यायः।। 143 ।।