द्रोणपर्व

अध्यायः १४

Drona Parva (Sanskrit) · Adhyaya 14
अक्षर का आकार

सञ्जय उवाच।

ततः स पाण्डवानीके जनयन्सुमहद्भयम्।
व्यचरत्पृतनां द्रोणो दहन्कक्षमिवानलः।।

निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम्।
दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः।।

सततं कृष्यतः सङ्ख्ये धनुषोऽस्याशुकारिणः।
ज्याघोषः शुश्रुवेऽत्यर्थं विस्फूर्जितमिवाशनेः।।

रथिनः सादिनश्चैव नागानश्वान्पदातिनः।
रौद्रा हस्तवता मुक्ताः सम्मृद्गन्ति स्स सायकाः।।

नानद्यमानः पर्जन्यः प्रवृद्धः शुचिसङ्क्षये।
अश्मवर्षमिवावर्षत्परेषामावहद्भयम्।।

विचरन्स दिशः सर्वाः सेनां सङ्क्षोभयन्प्रभुः।
वर्धयामास सन्त्रासं शात्रवाणाममानुषम्।।

तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्।
भ्राजमानं रथे तस्मिन्दृश्यते स्म महाभयम्।।

स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सदा पुनः।
युगान्तकालवद्धोरां रौद्रां प्रावर्तयन्नदीम्।।

अमर्षवेगप्रभवां क्रव्यादगणसङ्कुलाम्।
बलौघैः सर्वतः पूर्णां ध्वजवृक्षापहारिणीम्।।

शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम्।
कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम्।।

मेदोमज्जास्थिसिकतामुष्मीषचयफेनिलाम्।।
सङ्ग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम्।।

नरनागाश्वकलिलां शरवेगौघवाहिनीम्।
शरीरदारुसङ्घाटां रथकच्छपसङ्कुलाम्।।

उत्तमाङ्गैः पङ्कजिनीं निस्त्रिंशझषसङ्कुलाम्।
रथनागहूदोपेतां नानाभारणभूषिताम्।।

महारथशतावर्तां भूमिरेणूर्मिमालिनीम्।
महावीर्यवतां सङ्ख्ये सुतरां भीरुदुस्तराम्।।

शरीरशतसम्बाधां गृध्रकङ्कनिषेविताम्।
महारथसहस्राणि नयन्तीं यमसादनम्।।

शूलव्यालसमाकीर्णां प्राणिवाजिनिषेविताम्।
छिन्नक्षत्रमहाहंसां मुकुटाण्डजसेविताम्।।

चक्रकूर्माङ्गदानक्रां शरक्षुद्रझषाकुलाम्।
बकगृध्रसृगालानां घोरसङ्घैर्निषेविताम्।।

निहतान्प्राणिनः सङ्ख्ये द्रोणेन बलिना रणे।
वहन्तीं पितृलोकाय शतशो राजसत्तम।।

शऱीरशतसम्बाधां केशशैवलशाद्वलाम्।
नदीं प्रावर्तयद्राजन्भीरूपणां भयवर्धिनीम्।।

तर्जयन्तमनीकानि तानि तानि महारथम्।
सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः।।

तानभिद्रवतः शूरांस्तावका दृढविक्रमाः।
सर्वतः प्रत्यगृह्णन्त तदभूद्रोमहर्षणम्।।

शतमायस्तु शकुनिः सहदेवं समाद्रवत्।
सनियन्तृध्वजरथं विव्याघ निशितैः शरैः।।

तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि।
नातिक्रुद्धः शरैश्छित्त्वा षष्ठ्या विव्याध सौबलम्।
`भित्त्वा च शरवर्षेण शकुनिं प्रत्यवारयत्'।।

गदां गृहीत्वा शकुनिः प्रचस्कन्द रथोत्तमात्।
स तस्य गदया राजन्रथात्सूतमपातयत्।।

ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ।
चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ।।

द्रोणः पाञ्चालदायादं विव्याध निशितैः शरैः।
तयोस्तत्र महाराज बाणवर्षैः प्रकाशितम्।
खद्योतैरिव चाकाशं प्रदोषे पुरुषर्षभ।।

विविंशतिं भीमसेनो विंशत्या निशितैः शरैः।
विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत्।।

विविंशतिस्तु सहसा व्यश्वकेतुशरासनम्।
भीमं चक्रे महाराज ततः सैन्यान्यपूजयन्।।

स तन्न ममृषे वीरः शत्रोर्विक्रममाहवे।
ततोऽस्य गदया दान्तान्हयात्सर्वानपातयत्।।

हताश्वात्स रथाद्राजन्गृह्य चर्म महाबलः।
अभ्ययाद्भीमसेनं तु मत्तो मत्तमिव द्विपम्।।

शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः।
विव्याध प्रहसन्बाणैर्लालयन्कोपयन्निव।।

तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः।
निपात्य नकुलः सङ्‌ख्ये शङ्खं दध्मौ प्रतापवान्।।

धृष्टकेतुः कृपेणास्ताञ्छित्त्वा बहुविधाञ्छरान्।
कृपं विव्याध सप्तत्या ध्वजं चास्य त्रिभिः शरैः।।

तं कृपः शरवर्षेण महता समवारयत्।
विव्याध च रणे विप्रो धृष्टकेतुममर्षणम्।।

सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे।
विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव।।

तं भोजः सप्तसप्तत्या विद्ध्वाऽऽशु निशितैः शरैः।
नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम्।।

सेनापतिः सुशर्माणं भृशं मर्मस्वताडयत्।
स चापि तं तोमरेण जत्रुदेशेऽभ्यताडयत्।।

वैकर्तनं तु समरे विराटः प्रत्यवारयत्।
सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत्।।

तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम्।
यत्सैन्यं वारयामास शरैः सन्नतपर्वभिः।।

द्रुपदस्तु स्वयं राजा भगदत्तेन सङ्गतः।
तयोर्युद्धं महाराज चित्ररूपमिवाभवत्।।

भगदत्तस्तु राजानं द्रुपदं नतपर्वभिः।
सनियन्तृध्वजरथं विव्याध पुरुषर्षभः।।

द्रुपदस्तु ततः क्रुद्धो भगदत्तं महारथम्।
आजघानोरसि क्षिप्रं शरेणानतपर्वणा।।

युद्धं योधवरौ लोके सौमदत्तिशिखण्डिनौ।
भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ।।

भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम्।
महता सायकौघेन च्छादयामास वीर्यवान्।।

शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशाम्पते।
नवत्या सायकानां तु कम्पयामास भारत।।

राक्षसौ रौद्रकर्माणौ हेडिम्बालम्बुसावुभौ।
चक्रातेऽत्युद्भुतं युद्धं परस्परजयैषिणौ।।

मायाशतसृजौ दृप्तौ मायाभिरितरेतरम्।
अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ।।

चेकितानोऽनुविन्देन युयुधे चातिभैरवम्।
यथा देवासुरे युद्धे बलशक्रौ महाबलौ।।

लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम्।
यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे।।

ततः प्रचलिताश्वेन विधिवत्कल्पितेन च।
रथेनाभ्यपतद्राजन्सौभद्रं पौरवो पौरवो नदन्।।

ततोऽभ्ययात्स त्वरितो युद्धाकाङ्क्षी महाबलः।
तेन चक्रे महद्युद्धमभिमन्युररिन्दमः।।

पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत्।
तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत्।।

सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः।
पञ्चभिस्तस्य विव्याध हयान्सूनं च सायकैः।।

ततः प्रहर्षयन्सेनां सिंहवद्विनदन्मुहुः।
समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम्।।

तं तु सन्धितमाज्ञाय सायकं घोरदर्शनम्।
द्वाभ्यां शराभ्यां हार्दिक्यश्चिच्छेद सशरं धनुः।।

तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा।
उद्बबर्ह सितं खङ्गमाददनाः शरावरम्।।

स तेनानेकतारेण चर्मणा कृतहस्तवत्।
भ्रान्तासिना चरन्मार्गान्दर्शयन्वीर्यमात्मनः।।

भ्रामितं पुनरुद्धान्तमाधूतं पुनरुत्थितम्।
चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत।।

स पौरवरथस्येषामाप्लुत्य सहसा नदन्।
पौरवं रथमास्थाय केशपक्षे परामृशत्।।

जघानास्य पदा सूतमसिना पातयद्धृजम्।
विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत्।।

तमागलितकेशान्तं ददृशुः सर्वपार्थिवाः।
उक्षाणमिव सिंहेन पात्यमानमचेतसम्।।

तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत्।
पौरवं पातितं दृष्ट्वा नामृष्यत जयद्रूथः।।

स बर्हिबर्हावततं किङ्किणीशतजालवत्।
चर्म चादाय खङ्गं च नदन्पर्यपतद्रथात्।।

ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम्।
उत्पपात रथात्तूर्णं श्येनवन्निपपात च।

प्रासपट्टिशनिस्त्रिंशाञ्छत्रुभिः सम्प्रचोदितान्।
चिच्छेद चासिना कार्ष्णिश्चर्मणा संरुरोध च।।

स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः।
तमुद्यम्य महाखङ्गं चर्म चाथ पुनर्बली।।

वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम्।
ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम्।।

तौ परस्परमासाद्य खह्गदन्तनखायुधौ।
हृष्टवत्सम्प्रजहाते व्याघ्रकेसरिणाविव।।

सम्पातेष्वभिघातेषु निपातेष्वसिचर्मणोः।
न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः।।

अवक्षेपोऽसिनिर्हादः शस्त्रान्तरनिदर्शनम्।
बाह्यान्तरनिपातश्च निर्विशेमदृश्यत।।

बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम्।
ददृशाते महात्मानौ सपक्षाविव पर्वतौ।।

ततो विक्षिपतः खङ्गं सौभद्रस्य यशस्विनः।
शरावरणपक्षान्ते प्रजहार जयद्रथः।।

रुक्मपत्रान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे।
सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः।।

भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्।
अदृश्यत निमेषेण स्वरथं पुनरास्थितः।।

तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम्।
सहिताः सर्वराजानः परिवव्रुः समन्ततः।।

ततश्चर्म च खङ्गं च समुत्क्षिप्य महाबलः।
ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम्।।

सिन्धुराजं परित्यज्य सौभद्रः परवीरहा।
तापयामास तत्सैन्यं भुवनं भास्करो यथा।।

तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम्।
चिक्षेप समरे घोरां दीप्तामग्निशिखामिव।।

तामवप्लुत्य जग्राह विकोशं चाकरोदसिम्।
वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम्।।

तस्य लाषवमाज्ञाय सत्वं चामिततेजसः।
सहिताः सर्वराजानः सिंहनादमथानदन्।।

ततस्तामेव शल्यस्य सौभद्रः परवीरहा।
मुमोच भुजवीर्येण वैदूर्यविकृतां शिताम्।।

सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा।
जघान सूतं शल्यस्य रथाच्चैनमपातयत्।।

ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः।
सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ।।

यमौ च द्रौपदेयाश्च साधुसाध्विति चुक्रुशुः।
बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः।।

प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम्।
तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम्।।

अथैनं सहसा सर्वे समन्तान्निशितैः शरैः।
अभ्याकिरन्महाराज जलदा इव पर्वतम्।।

तेषां च प्रियमन्विच्छन्सूतस्य च पराभवम्।
आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि
एकादशदिवसयुद्धे चतुर्दशोऽध्यायः।। 14 ।।