द्रोणपर्व

अध्यायः १३

Drona Parva (Sanskrit) · Adhyaya 13
अक्षर का आकार

सञ्जय उवाच।

सान्तरे तु प्रतिज्ञाने राज्ञो द्रोणेन निग्रहे।
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम्।
सिंहनादरवांश्चक्रुर्बाहुशब्दांश्च कृत्स्नशः।।

तच्च सर्वं यथान्यायं धर्मराजेन भारत।
आप्तैश्चारैः परिज्ञातं भारद्वाजचिकीर्षितम्।।

ततः सर्वान्समानाय्य भ्रातृनन्यांश्च सर्वशः।
अव्रवीद्धर्मराजस्तु धनञ्जयमिदं वचः।।

श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम्।
यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम्।।

सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रघातिना।
तच्चान्तरममोघेषौ त्वयि तेन समाहितम्।।

तत्त्वमद्य महाबाहो युध्यस्व मदनन्तरम्।
यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात्।।

अर्जुन उवाच।

यथा मे न वधः कार्य आचार्यस्य कथञ्चन।
तथा तव परित्यागो न मे राजंश्चिकीर्षितः।।

अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि।
प्रतियाताऽहमाचार्यं त्वां न जह्यां कथञ्चन।।

त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति।
न स तं जीवलोकेऽस्मिन्कामं प्राप्ता कथञ्चन।।

प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकली भवेत्।
न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम्।।

यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम्।
विष्णुर्वा सहितो देवैर्न त्वां प्राप्स्यत्यसौ मृधे।।

मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि।
द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि।।

अन्यच्च ब्रूयां राजेन्द्र प्रतिज्ञां मम निश्चलाम्।।

न स्मराम्यनृतं तावन्न स्मरामि पराजयम्।
न स्मरामि प्रतिश्रुत्य विस्मृत्य मनस्वऽकृतम्।।

सञ्जय उवाच।

ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह।
प्रावाद्यन्त महाराज पाण्डवानां निवेशने।।

सिंहनादश्च संजज्ञे पाण्डवानां महात्मनाम्।।
धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः।।

श्रुत्वा शङ्खस्य निर्घोषं पाण्डवस्य महौजसः।
त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे।।

ततो व्यूढान्यनीकानि तव तेषां च भारत।
शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे।।

ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्।
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि।।

यतमानाः प्रयतेन द्रोणानीकविशातने।
न शेकुः सृञ्जया युद्धे तद्धि द्रोणेन पालितम्।।

तथैव तव पुत्रस्य रथोदाराः प्रहारिणः।
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटीना।।

आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम्।
सम्प्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते।।

ततो रुक्मरथो राजन्नर्केणेव विराजता।
वरूथिना विनिष्पत्य व्यचरत्पृतनामुखे।।

तमुद्यन्तं रथेनैकमाशुकारिणमाहवे।
अनेकमिव सन्त्रसान्मेनिरे पाण्डुसृञ्जयाः।।

तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम्।
त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम्।।

मध्यन्दिनमनुप्राप्तो गभस्तिशतसंवृतः।
यथा दृश्येत घर्मोशुस्तथा द्रोणोऽप्यदृश्यत।।

न चैनं पाण्डवेयानां कश्चिच्छक्नोति भारत।
वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः।।

मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान्।
धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः।।

स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः।
पार्षतो यत्र तत्रैनामभिनत्पाण्डुवाहिनीम्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशदिवसयुद्धे त्रयोदशोऽध्यायः।। 13 ।।

0
अपनीते ततः पार्थे धर्मराजो जितस्त्वया।।

ग्रहणे हि जयस्तस्य न वधे पुरुषर्षभ।
`ग्रहणं हि वधात्तस्य धर्मराजस्य मन्यसे'।
अनेनैवाभ्युपायेन ग्रहणं समुपैष्यसि।।

अहं गृहीत्वा राजानं सत्यधर्मपरायणम्।
आनयिष्यामि ते राजन्वशमद्य न संशयः।।

यदि स्यास्यति सङ्ग्रामे मुहूर्तमपि मेऽग्रतः।
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये।।

फल्गुनस्य समीपे तु न हि शक्यो युधिष्ठिरः।
ग्रहीतुं समरे राजन्सेन्द्रैरपि सुरासुरैः।।

सञ्जय उवाच।

`एवमुक्ते तदा तस्मिन्युद्धे देवासुरोपमे'।
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे।
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः।।

ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत्।
`स्कन्धावारेषु सर्वेषु यथास्थानेषु मारिष'।
सैन्यस्थानेषु सर्वेषु सुघोषितमरिन्दम।।

पाण्डवेयेषु सापेक्षं द्रोणं जानाति ते सुतः।
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि
द्रोणाभिषेकपर्वणि द्वादशोऽध्यायः।। 12 ।।