द्रोणपर्व

अध्यायः ११८

Drona Parva (Sanskrit) · Adhyaya 118
अक्षर का आकार

सञ्जय उवाच।

द्रोणं स जित्वा पुरुषप्रवीर--
स्तथैव हार्दिक्यमुखांस्त्वदीयान्।
प्रहस्य सूतं वचनं बभाषे
शिनिप्रवीरः कुरुपुङ्गवाग्र्य।।

निमित्तमात्रं वयमद्य सूत
दग्धा रथाः केशवफल्गुनाभ्याम्।
हतान्निहन्मेह नरर्षभेण
वयं सुरेशात्मसमुद्भवेत।।

सञ्जय उवाच।

तमेवमुक्त्वा शिनिपुङ्गवस्तदा
महामृधे सोऽग्र्यधनुर्धरोऽरिहा।
किरन्समन्तात्सहसा शरान्बली
समापतच्छयेन इवामिषाशया।।

तं यान्तमश्वैः शशिशङ्खवर्णै--
र्विगाह्य सैन्यं पुरुषप्रवीरम्।
नाशक्नुवन्वारयितुं समन्ता--
दादित्यरश्मिप्रतिमं रथाग्र्यम्।।

असह्यविक्रान्तमदीनसत्वं
सर्वे गणा भारत ये त्वदीयाः।
सहस्रनेत्रप्रतिमप्रभावं
दिवीव सूर्यं जलदव्यपाये।।

अमर्षपूर्णस्त्वतिचित्रयोधी
शरासनी काञ्चनवर्मधारी।
सुदर्शनः सात्यकिमापतन्तं
न्यवारयद्राजवरः प्रसह्य।।

तयोरभूद्भारतसम्प्रहारः
सुदारुणस्तं समतिप्रशंसन्।
योधास्त्वदीयाश्च हि सोमकाश्च
वृत्रेन्द्रयोर्युद्धमिवामरौघाः।।

शरैः सुतीक्ष्णैः शतशोऽभ्यविध्य--
त्सुदर्शनः सात्वतमुख्यमाजौ।
अनागतानेव तु तान्पृषत्कां--
श्चिच्छेद राजञ्शिनिपुङ्गवोऽपि।।

तथैव शक्रप्रतिमोऽपि सात्यकिः
सुदर्शने यान्क्षिपति स्म सायकान्।
द्विधा त्रिधा तानकरोत्सुदर्शनः
शरोत्तमैः स्यन्दनवर्यमास्थितः।।

तान्वीक्ष्य बाणान्निहतांस्तदानीं
सुदर्शनः सात्यकिबाणवेगैः।
क्रोधाद्दिधक्षन्निव तिग्मतेजाः
शरानमुञ्चत्तपनीयचित्रान्।।

पुनः स बाणैस्त्रिभिरग्निकल्पै--
राकर्णपूर्णैर्निशितैः सुपुङ्खैः।
विव्याध देहावरणं विभिद्य
ते सात्यकेराविविशुः शरीरम्।।

तथैव तस्यावनिपालपुत्रः
सन्धाय बाणैरपरैर्ज्वलद्भिः।
आजघ्निवांस्तान्रजतप्रकाशां--
श्चतुर्भिरश्वांश्चतुरः प्रसह्य।।

तथा तु तेमाभिहतस्तरस्वी
नप्ता शिनेरिन्द्रसमानवीर्यः।
सुदर्शनस्येषुगणैः सुतीक्ष्णै--
र्हयान्निहत्याशु ननाद नादम्।।

अथास्य सूतस्य शिरो निकृत्य
भल्लेन शक्राशनिसन्निभेन।
सुदर्शनस्यापि शिनिप्रवीरः
क्षुरेण कालानलसन्निभेन।।

सकुण्डलं पूर्णशशिप्रकाशं
भ्राजिष्णु वक्त्रं विचकर्त देहात्।
यथा पुरा वज्रधरः प्रसह्य
बलस्य सङ्ख्येऽतिबलस्य राजन्।।

निहत्य तं पार्थिवपुत्रपौत्रं
रणे यदूनामृषभस्तरस्वी।
मुदा समेतः परया महात्मा
रराज राजन्सुरराजकल्पः।।

ततो ययावर्जुनमेव वीरो
निवार्य सैन्यं तव मार्गणौघैः।
सदश्वयुक्तेन रथेन राजँ--
ल्लोकं विसिस्मापयिषुर्नृवीरः।।

तत्तस्य विस्मापयनीयमग्र्य--
मपूजयन्योधवराः समेताः।
प्रवर्तमानानिषुगोचरेऽरी--
न्ददाह बाणैर्हुतभुग्यथैव।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे अष्टादशाधिकशततमोऽध्यायः।। 118 ।।