द्रोणपर्व
अध्यायः ११७
सञ्जय उवाच।
काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः।
भारद्वाजः शरव्रातैर्मर्मभिद्भिरवाकिरत्।।
स सम्प्रहारस्तुमुलो द्रोणसात्वतयोरभूत्।
पश्यतां सर्वसैन्यानां बलिवासवयोरिव।।
ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः।
त्रिभिराशीविपाकारैर्ललाटे समविध्यत।।
तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः।
व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः।।
ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान्।
भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे।।
तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान्।
द्वाभ्यांद्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित्।।
तामस्य लघुतां द्रोणः समवेक्ष्य विशाम्पते।
प्रहस्य सहसाऽविध्यत्त्रिंशतां शिनिपुङ्गवम्।।
पुनः पञ्चशतेषूणां शितेन च समार्पयत्।
लघुतां युयुधानस्य लाघवेन विशेषयन्।।
समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः।
तथा द्रोणरथाद्राजन्नापतन्ति तनुच्छिदः।।
तथैव युयुधानेन सृष्टाः सतसहस्रशः।
अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः।।
लाघवाद्दिजमुख्यस्य सात्वतस्य च मारिष।
विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ।।
सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः।
आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः।।
सारथिं च शतेनैव भारद्वाजस्य पश्यतः।
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः।।
सप्तत्या सारथिं विद्व्वा तुरङ्गांश्च त्रिभिस्त्रिभिः।
ध्वजमेकेन चिच्छेद माधवस्य रथे स्थितम्।।
अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा।
धनुश्चिच्छेद समरे माधवस्य महात्मनः।।
सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः।
गदां जग्राह महतीं भारद्वाजाय चाक्षिपत्।।
तामापतन्तीं सहसा पट्टबद्धामयस्मयीम्।
न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः।।
अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः।
विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः।।
स विद्वा समरे द्रोणं सिंहनादममुञ्चत।
तं वै न मृमषे द्रोणः सिंहनादं महात्मनः।।
ततः शक्तिं रणे द्रोणो रुक्मदण्डामयस्मयीम्।
तरसा प्रेषयामास माधवस्य रथं प्रति।।
अनासाद्य तु शैनेयं सा शक्तिः कालसन्निभा।
भित्त्वा रथं जगामोग्ना धरणीं दारुणस्वना।।
ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा।
दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ।।
द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः।
अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम्।।
मुमोह सारथिस्तस्य रथशक्त्या समाहतः।
स रथोपस्थमासाद्य मुहूर्तं सन्न्यषीदत।।
चकार सात्यकी राजंस्तत्र कर्मातिमानुषम्।
अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम्।।
ततः शरशतेनैव युयुधानो महारथः।
अविध्यद्ब्राह्मणं सङ्ख्ये हृष्टरूपो विशाम्पते।।
तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत।
ते घोराः कवचं भित्त्वा पपुः शोणितमाहवे।।
निर्विद्धस्तु शरैर्घोरैरक्रुद्ध्यत्सात्यकिर्भृशम्।
सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति।।
ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि।
अश्वान्व्यद्रावयद्बाणैर्हतसूतांस्ततस्ततः।।
स रथः प्रद्रुतः सङ्ख्ये मण्डलानि सहस्रशः।
चकार राजतो राजन्भ्राजमान इवांशुमान्।।
अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत।
इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः।।
ते सात्यकिमपास्याशु राजन्युधि महारथाः।
यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन्।।
तान्दृष्ट्वा प्रद्रुतान्सङ्ख्ये सात्वतेन शरार्दितान्।
प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम्।।
व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः।
वातायमानैस्तैरश्वैर्नीतो वृष्णिशरार्दितैः।।
पाण्डुपाञ्चालसम्भिन्नं व्यूहमालोक्य वीर्यवान्।
शैनेये नाकरोद्यत्नं व्यूहमेवाभ्यरक्षत।।
निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव।
तस्थौ क्रोधेध्मसन्दीप्तः कालसूर्य इवोद्यतः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे सप्तदशाधिकशततमोऽध्यायः।। 117 ।।