द्रोणपर्व
अध्यायः १०९
सञ्जय उवाच।
`किरन्तं शरवर्षाणि रोषाद्दोणं महाहवे।
वित्रासयन्तं तां सेनां कौन्तेयानां महीपते।।
दृष्ट्वा ततो महेष्वासो निघ्नन्तं च रथान्भृशम्।
घटोत्कचो महाबाहू रणायाभिजगाम ह।।
पिशाचवदनैर्युक्तं रथं काञ्चनभूषितम्।
समास्थाय महाराज नानाप्रहरणैर्युतः।।
दंशितस्तपनीयेन कवचेन सुवर्चसा।
भूषणैराचिताङ्गश्च नदन्निव च तोयदः।।
हैडिम्बेयः सुसङ्क्रुद्धो द्रोणमभ्यद्रवद्बली।
तमभ्यधावदायान्तं क्रद्धरूपलम्बुसः।।
ऋक्षचर्मपरिक्षिप्तं रथमास्थाय दंशितः।
रक्तोष्ठः सधनुष्पाणिः प्रांशुः कल्प इव स्थितः।।
क्षिपञ्छतघ्नीर्विपुला मुसलोपमतोमरान्।
मुसण्ठीर्बहुलाश्चैव त्रिशूलानपि पट्टसान्।।
कर्पराञ्छतधारांश्च पिनाकान्विविधांस्तथा।
चक्राणि च क्षुरप्राणि क्षेपणीश्च कटङ्कटान्।।
नारायान्विविधानस्यन्सकङ्कोलूकवायसान्।
चिक्षेप धनुरादाय निनदन्भैरवान्रवान्।।
तं रौद्रं क्रूरमायान्तं दृष्ट्वा कालमिवागतम्।
प्राद्रवद्भयसंविग्ना राजन्पाण्डववाहिनी।।
सात्यकिस्तु रथव्याघ्रो दृष्ट्वा तं राक्षसं युधि।
अभ्ययादमरप्रख्यो भ्रामयित्वा महद्धनुः।।
अभ्यद्रवच्च तद्रक्षस्तिष्ठतिष्ठेति चाब्रवीत्।
अलम्बुसं राक्षसेन्दरं सोऽस्त्रवर्षैरवाकिरत्।।
ततः पाण्डवसैन्यानि विद्रुतान्यथ भारत।
निरीक्ष्याभ्यद्रवत्तूर्णं त्वरमाणो घटोत्कचः।।
चिक्षेप च गदाशक्तीस्तोमरानथ पट्टसान्।
हेमचित्रत्सरूनुग्रान्खङ्गानाकाशसप्रभान्।।
अन्योन्यमरादालोक्य राक्षसौ तौ महाबलौ।
भैरवं नदतुर्नादान्सतोयाविव तोयदौ।।
ततः प्रववृते युद्धं घोरं राक्षससिंहयोः।
यादृगेव पुरा वृत्तं रामरावणयोर्मृधे।।
स शक्तीश्च पिनाकांश्च वज्रान्खङ्गान्परश्वथान्।
अन्योन्यमभिसङ्क्रुद्धौ तदा व्यसृजतामुभौ।।
आकृष्यमाणे धनुषि तयोर्बाहुबलेन च।
यन्त्रेणेव तदा राजन्भृशं नादान्प्रचक्रतुः।।
अलम्बुसस्ततश्चक्रं कृतान्तज्वलनप्रभम्।
घटोत्कचाय चिक्षेप यत्नमास्थाय वीर्यवान्।।
तद्भैमसेनिः सम्प्रेक्ष्य चक्रं वेगवदन्तरे।
गदया ताडयामास तद्दीर्णं शतधाऽभवत्।।
ततोऽग्निचूर्णैः सहसा चक्रघातविनिःसृतैः।
दंशकैरिव सा सेना पतद्भिर्भृशसंकुला।।
ततः प्रतिहते चक्रे स वीरो रोषसंकुलः।
प्राहिणोत्तरसा शूलं शक्तीर्दशशतं तदा।।।
ज्वलन्तीश्च किरन्तीश्च ज्वालामालाः समन्ततः।
युगान्तोल्कानिभास्तीक्ष्णा हेमदण्डा महास्वनाः।।
ताश्चापतन्तीः सम्प्रेक्ष्य राक्षसस्य घटोत्कचः।
अर्धचन्द्रैः प्रचिच्छेद नाराचैः कङ्कपत्रिभिः।।
ततो रोषपरीताङ्गः प्रमुमोच स राक्षसः।
शरवर्षं महाघोरं घटोत्कचरथं प्रति'।।
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः।
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव।।
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत्।।
तयोर्युद्धं समभवद्रक्षोग्रामणिमुख्ययोः।
यादृगेव पुरा वृत्तं रामरावणयोः प्रभो।।
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे।
अलम्बुसमथो विद्धा सिंहवद्व्यनदन्मुहुः।।
तथैवालम्बुसो राजन्हैडिम्बिं युद्धदुर्मदम्।
विद्व्वा विद्वृऽनदद्वृष्टः पूरयन्खं समन्ततः।।
तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ।
निर्विशेषमयुध्येतां मायाभिरितरेतरम्।।
मायाशतसृजौ नित्यं मोहयन्तौ परस्परम्।
मायायुद्धेषु कुशलौ मायायुद्धमयुध्यताम्।।
यांयां घटोत्कचो युद्धे मायां दर्शयते नृप।
तां तामलम्बुसो राजन्माययैव निजघ्निवान्।।
तं तथा युध्यमानं तु मायायुद्धविशारदम्।
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाऽक्रुध्यन्त पाण्डवाः।।
त एनं भृशसंविग्नाः सर्वतः प्रवरा रथैः।
अभ्यद्रवन्त सङ्कुद्धा भीमसेनादयो नृप।।
त एनं कोष्ठकीकृत्य रथवंशेन मारिष।
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम्।।
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया।
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः।।
स विष्फार्य अनुर्धोरमिन्द्राशनिसमस्वनम्।
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः।।
युधिष्ठिरं त्रिभिर्विद्धा सहदेवं च सप्तभिः।
नकुलं च त्रिसप्तत्या द्रोपदेयांश्च मारिष।
पञ्चभिःपञ्चभिर्विद्ध्वा घोरं नादं ननाद ह।।
तं भीमसेनो नवभिः सहदेवस्तु पञ्चभिः।
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत।
नकुलस्तु चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः।।
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः।
पुनर्विव्याध सप्तत्या ननाद च महाबलः।।
तस्य नादेन महता कम्पितेयं वसुन्धरा।
सपर्वतवना राजन्सपादपजलाशया।।
सोऽतिविद्धो महेष्वासैः सर्वतस्तैर्महारथैः।
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः।।
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः।
हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः।।
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः।
व्यसृजत्सायकांस्तूर्णं रुक्मपुङ्खाञ्शिलाशितान्।।
ते शऱा नतपर्वाणो भैमसेनिविनिर्भिदः।
रुषिताः पन्नगा यद्वद्योधमुख्यानुपागमन्।।
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान्।
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः।।
स विध्यमानः समरे पाण्डवैर्जितकाशिभिः।
`*नाभ्यपद्यत कर्तव्यमार्श्यशृङ्गिर्महाबलः।।
घटोत्कचं महाराज शरवर्षैरवाकिरत्।
दग्धाद्रिकूटसदृशं तमञ्जनचयोपरमम्।।
घटोत्कचोऽप्यसम्भ्रान्तः शरवर्षं महत्तरम्।
अलम्बुसवधप्रेप्सुर्मुमोचाग्निरिव ज्वलन्।।
अलम्बुसवधाच्चोग्राद्धटोत्कचवधादपि।
शराः प्रादुर्भवन्ति स्म द्विरेफा इव शाखिनः।।
अभ्रच्छायेव रचिता बाणैस्तत्र नरेश्वर।
न स्म विज्ञायते किञ्चिदन्धकारे कृते शरैः।।
तत आकर्णमुक्तेन भल्लेन च घटोत्कचः।
अलम्बुसस्य चिच्छेद शिरो यन्तुर्महाबलः।।
ततोऽपरैर्वेगवद्भिः क्षुरैस्तस्य घटोत्कचः।
अक्षमीषां युगं चैव चिच्छेद युधि ताडयन्।।
अवस्कन्द्य रथात्तूर्णं कैर्मीरः क्रोधमूर्च्छितः।
तस्मिन्मायामयं घोरमस्त्रवर्षं ववर्ष ह।।
घटोत्कचोऽप्याशु रथात्प्रस्कन्द्य स तमेव च।
मायास्त्रेणैव मायास्त्रं व्यधमत्समरे रिपोः।।
हैडिम्बेनार्द्यमानस्तु युधि सोऽलम्बुसोऽद्रवत्।
अन्तर्हितो महाराज घटोत्कचमयोधयत्।।
अन्तर्धानगतं दृष्ट्वा तत्रतत्र घटोत्कचः।
गदया ताडयामास वेगवत्या महाबलः।।
उत्पपात ततो व्योम्नि प्रहारपरिपीडितः।
अलम्बुसो राक्षसेन्द्रः सहसा पक्षिराडिव।।
घटोत्कचोऽप्यसम्भ्रान्तः खङ्गपाणिरथोत्पतत्।
ततो वेगेन महता विवर्षिषुरिवाम्बुदः।।
तमापतन्तं सम्प्रेक्ष्य कैर्मीरी राक्षसोत्तमः।
अभिदुद्राव वेगेन सिंहः सिंहमिव स्थितम्।।
दक्षिणेनासिमुद्यम्य वक्षः प्रच्छाद्य वर्मणा।
अभिदुद्राव वेगेन वेगवन्तं घटोत्कचः।।
तावुभौ वेगसंरब्धावलम्बुसघटोत्कचौ।
अन्योन्यस्य तथैवोरू समाजघ्नतुरञ्जसा।।
अन्योन्यस्याभिघातेन तयो राक्षससिंहयोः।
शैलेनाभिहतस्येव शैलस्याभून्महास्वनः।।
ततोऽपसृत्य सहसा पुनरापेततुर्भृशम्।
चरन्तावसिमार्गांस्तान्विविधान्राक्षसोत्तमौ।।
तयोर्गात्रेषु पतितावसी भिन्नौ निपेततुः।
वेगोत्सृष्टे मघवता वज्रे शैलतटेष्विव।।
ततः सैन्यानि ददृशुस्तद्युद्धमतिदारुणम्।
युद्धं तयो राक्षसयोरामिषे श्येनयोरिव।।
ततो लोहितरक्ताक्षावुभौ तौ राक्षसोत्तमौ।
तथैक्ष्येतां तु शार्दूलौ सन्ध्यारक्ताविवाम्बुदौ।।
चक्राते श्येनवच्चैव मण्डलानि सहस्रशः।
उभौ निस्त्रिंशहस्तौ तौ सपक्षाविव पक्षिणौ।।
भ्रामयित्वा तु तं खङ्गं पाण्डोः किर्मीरनन्दनः।
चिक्षेपास्य शिरो हर्तुं स च तस्य घटोत्कचः।।
तावसी युगपद्दीप्तौ समेत्य विपुलौ भुवि।
पतितौ तौ तु बाहुभ्यां राक्षसौ समसज्जताम्।।
शीर्षाघातांसधातैश्च परस्परमथाहतौ।
पुनर्विमिश्रितौ वीरौ व्यायुध्येते मुहुर्मुहुः।।
भैमसेनिरथोत्क्षिप्य समाविध्य पुनः पुनः।
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि।।
बललाघवसम्पन्नः सम्पन्नो विक्रमेण च।
भैमसेनिरथ क्रुद्धः सर्वसैन्यस्य पश्यतः।।
असृक्क्षरितसर्वाङ्गश्चूर्णितास्थिविभूषणः।
घटोत्कचेन निष्पिष्टो हतः सालकटङ्कटः।।
पाण्डवानां ततः सेना तं दृष्ट्वा विनिपातितम्।
ननाद सुमहानादं हर्षवेगसमाप्लुता।।
ततस्तु निपपाताशु गतासुर्भुवि राक्षसः।
शिखरं पर्वतस्येव वज्रवेगेन पातितम्।।
पतता तेन महता रथिनां दन्तिनां दश।
तव सैन्ये महाराज निहताः सुबृहत्तया।।
ततो घटोत्कचो हत्वा तद्रक्षो वृत्रसन्निभम्।
पुनः स रथमास्थाय विजिगीषुर्ननादह'।।
ततः सुमनसः पार्था हते तस्मिन्निशाचरे।
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह।।
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम्।
अलम्बुसं तथा शूरा विशीर्णमिव पर्वतम्।
हाहाकारमकार्षुश्च सैन्यानि भरतर्षभ।।
जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः।
यदृच्छया निपतितं भूमावङ्गारकं यथा।।
घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम्।
मुमोच बलवन्नादं बलं हत्वेव वासवः।।
स पूज्यमानः पितृभिः सबान्धवै--
र्घटोत्कचः कर्मणि दुष्करे कृते।
रिपुं निहत्याभिननन्द वै तदा
ह्यलम्बुसं पक्वमलम्बुषं यथा।।
ततो निनादः सुमहान्समुत्थितः
सशङ्खनानाविधबाणघोषवान्।
निशम्य तं प्रत्यनदंस्तु पाण्डवा--
स्ततो ध्वनिर्भुवनमथाऽस्पृशद्भृशम्।।
`ततोऽभिगम्य राजानं धर्मपुत्रं युधिष्ठिरम्।
स्वकर्मावेदयन्मूर्ध्ना प्राञ्जलिर्निपपात ह।।
मूर्ध्न्युपाघ्राय तं ज्येष्ठः परिष्वज्य च पाण्डवः।
प्रितोऽस्मीत्यब्रवीद्राजन्हर्षादुत्फुल्ललोचनः।।
घटोत्कचेन निष्पिष्टे हते सालकटङ्कटे।
बभूवुर्मुदिताः सर्वे हते तस्मिन्निशाचरे'।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे नवाधिकशततमोऽध्यायः।। 109 ।।