द्रोणपर्व
अध्यायः १०८
सञ्जय उवाच।
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः।
एकैकं पञ्चभिर्विद्व्वा पुनर्विव्याध सप्तभिः।।
ते पीडिता भृशं तेन रौद्रेण सहसा विभो।
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन।।
नाकुलिश्च शतानीकः सौमदत्तिं नरर्षभम्।
द्वाभ्यां विद्व्वाऽनदद्वृष्टः शराभ्यां शत्रुकर्शनः।।
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः।
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम्।।
स तान्प्रति महाराज पञ्च चिक्षेप सायकान्।
एकैकं हृदि चाजघ्ने एकैकेन महायशाः।।
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना।
परिवार्य रणे वीरं विव्यधुः सायकैर्भृशम्।।
अर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः।
प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति।।
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः।
ननाद बलवन्नादं विव्याध च शितैः शरैः।।
यौधिष्ठिरिर्ध्वजं तस्य च्छित्त्वा भूमावपातयत्।
नाकुलिश्चाथ यन्तारं रथनीडादपाहरत्।।
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम्।
क्षुरप्रेण शिरो राजन्निचकर्त महात्मनः।।
तच्छिरो न्यपतद्भूतौ तपनीयविभूषितम्।
अभासयद्रुणोद्देशं बालसूर्यसमप्रभम्।।
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः।
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा।।
अलम्बुसस्तु समरे भीमसेनं महाबलम्।
योधयामस सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा।।
सम्प्रयुद्धौ रमे दृष्ट्वा तावुभौ नरराक्षसौ।
विस्मयः सर्वभूतानां भयं चासीत्सुदारुणम्।।
आर्श्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः।
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम्।।
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम्।
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः।।
स भीमं पञ्छभिर्विद्व्वा शरैः सन्नतपर्वभिः।
भैमान्परिजघानाशु रथांस्त्रिशतमाहवे।
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा।।
सोऽतिविद्धस्तथा भीमो राक्षसेन महाबलः।
निषसाद रथोपस्थे मूर्च्छयाऽभिपरिप्लुतः।।
प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्च्छितः।
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम्।
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः।।
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः।
शुशुभे सर्वतो राजन्प्रफुल्ल इव किंशुकः।।
स वध्यमानः समरे भीमचापच्युतैः शरैः।
स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना।
घोरं रूपमथो कृत्वा भीमसेनमभाषत।।
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम्।।
बाको नाम सुदुर्बुद्धे राक्षसप्रवरो बली।
परोक्षं मम तद्वृत्तं यद्धाता मे हतस्त्वया।।
सञ्जय उवाच।
एवमुक्त्वा ततो भीममन्तर्धानं गतस्तदा।
महता शरवर्षेण भृशं तं समवाकिरत्।।
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा।
आकाशं पूरयामास शरैः सन्नतपर्वभिः।।
स वध्यमानो भीमेन निमेषाद्रथमास्थितः।
जगाम धरणीं चैव क्षुद्रः खं सहसाऽगमत्।।
उच्चावचानि रूपाणि चकार सुबहूनि च।
अणुर्बृहत्पुनः स्थूलो नादान्मुञ्चन्निवाम्बुदः।।
[निपेतुर्गगनाचत्चैव शरधाराः सहस्रशः।
शक्तयः कणपाः प्रासाः शूलपट्टसतोमराः।।
शतघ्न्यः परिघाश्चैव भिण्डिपालाः परश्वथाः।
शिलाः खङ्घा गुडाश्चैव ऋष्टीर्वज्राणि चैव ह।।
सा राक्षसविसृष्टा तु शस्त्रवृष्टिः सुदारुणा।
जघान पाण्डुपुत्रस्य सैनिकान्रणमूर्धनि।।]
उच्चावचास्तथा वाचो व्याजहार समन्ततः।
तेन पाण्डवसैन्यानां सूदिता युधि वारणाः।।
हयाश्च बहवो राजन्पत्तयश्च तथा पुनः।
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः।।
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम्।
छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम्।।
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम्।
वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान्।।
तं तथा समरे राजन्विचरन्तमभीतवत्।
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम्।।
तावकानां तु सैन्यानां प्रहर्षः समजायत।
वादित्रनिनदश्चोग्रः सुमहान्रोमहर्षणः।।
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः।
नामृष्यत यथा नागस्तलशब्दं समीरितम्।।
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः।
सन्दधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारुतिः।।
ततः शरसहस्राणि प्रादुरासन्समन्ततः।
तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत्।।
तदस्त्रं प्रेरितं तेन भीमसेनेन संयुगे।
राक्षसस्य महामायां हत्वा राक्षसमार्दयत्।।
स वध्यमानो बहुधा भीमसेनेन राक्षसः।
सन्त्यज्य समरे भीमं द्रोणानीकमुपाद्रवत्।।
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना।
अनादयन्सिंहनादैः पाण्डवाः सर्वतो दिशम्।।
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम्।
प्रहादमिव दैतेया यथा शक्रं मरुद्गणाः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे अष्टाधिकशततमोऽध्यायः।। 108 ।।