द्रोणपर्व
अध्यायः १०४
सञ्जय उवाच।
तावकास्त्वभिसम्प्रेक्ष्य वृष्ण्यन्धकरूद्वहौ।
सत्वरास्तौ जिघांसन्तस्तथैव विजयः परान्।।
सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः।
दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः।।
रुक्मपुङ्खैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते।
कूजद्भिरतुलान्नादन्रोषितैरुरगैरिव।।
भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः।
कृपश्च मद्रराजश्च द्रोणिश्च रथिनां वरः।।
ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः।
व्यराजयन्दश दिशो वैयार्घ्रैर्हेमचन्द्रकैः।।
ते दंशिताः सुसंरब्धा रथैर्मेघौघनिःस्वनैः।
समावृण्वन्दश दिशः पार्थस्य निशितैः शरैः।।
कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान्।
व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश।।
आजानेयैर्महावेगैर्नानादेशसमुत्थितैः।
पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः।।
कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः।
धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन्।।
ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः।
पूरयन्तो दिवं राजन्पृथिवीं च ससागराम्।।
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ।
प्रवरौ सर्वदेवानां सर्वशङ्खवरौ भुवि।।
देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः।
शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः।।
पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत्।
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः।।
सर्वशब्दानतिक्रम्य पूरयामास रोदसी।
तस्मिंस्तथा वर्तमाने दारुणे नादसङ्कुले।।
भीरूणां त्रासजनने शूराणां हर्षवर्धने।
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च।।
मृदङ्गेष्वपि राजेन्द्र वाद्यमानेष्वेनकशः।
महारथसमाख्याता दुर्योधनहितैषिणः।।
अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः।
कर्णादयो महेष्वासास्त्वत्सैन्यपरिरक्षिणः।।
अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः।
कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च।।
बभूव तव तत्सैन्यं शङ्खशब्दे समीरिते।
उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभों।।
तत्प्रहृष्टजनाबाधं भेरीशङ्खनिनादितम्।
बभूव भृशमुद्विग्नं निर्घातैरिव संवृतम्।।
स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत्।
त्रासयामास तत्सैन्यं युगान्त इव सम्भृतः।।
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः।
जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन्।।
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत्।
अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः।।
तमर्जुनः पृषत्कानां शतैः षङ्भिरताडयत्।
अत्यर्थमिव सङ्क्रुद्धः प्रतिविद्धे जनार्दने।।
कर्णं च दशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा।
शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान्।।
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम्।
भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः।।
कर्णो द्वात्रिंशता चैव वृषसेनश्च सप्तभिः।
जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः।
मद्राजश्च दशभिर्विव्यधुः फल्गुनं रणे।।
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत्।
वासुदेवं च विंशत्या पुनः पार्थं च पञ्चभिः।।
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः।
प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम्।।
कर्णं द्वादशभिर्विद्व्वा वृषसेनं त्रिभिः शरैः।
शल्यस्य सशरं चापं मुष्टिदेशे व्यकृन्तत।।
सौमदत्तिं त्रिभिर्विद्व्वा शल्यं च दशभिः शरैः।
शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः।।
गौतमं पञ्चविंशत्या सैन्धवं च शतेन ह।
पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत्।।
भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः।
अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह।।
ततः शरशतैस्तीक्ष्णैस्तानरीन्श्वेतवाहनः।
प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे चतुरधिकशततमोऽध्यायः।। 104 ।।