द्रोणपर्व
अध्यायः १०३
सञ्जय उवाच।
एवमुक्त्वाऽर्जुनं राजा त्रिभिर्मर्मातिगैः शरैः।
अभ्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान्।।
वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे।
प्रतोदं चास्य भल्लेन च्छित्त्वा भूमावपातयत्।।
तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः।
अविध्यत्तूर्णमव्यग्रस्ते चाभ्रश्यन्त वर्मणि।।
तेषां नैष्फल्यमालोक्य पुनर्नव च पञ्च च।
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः।।
अष्टाविंशांस्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान्।
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः।।
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम्।
त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः।।
कच्चिद्गाण्डीवजः प्राणस्तथैव भरतर्षभ।
मुष्टिश्च ते यथा पूर्वं भुजयोश्च बलं तव।।
न वा कच्चिदयं कालः प्राप्तः स्यादद्य पश्चिमः।
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः।।
विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान्।
व्यर्थान्निपतितान्सङ्खे दुर्योधनरथं प्रति।।
वज्राशनिसमा घोराः परकायावभेदिनः।
शराः कुर्वन्ति ते नार्थं पार्थ काऽद्य विडम्बना।।
अर्जुन उवाच।
द्रोणेन नियतं कृष्ण धार्तराष्ट्रे निदर्शितम्।
अन्ते विहितमस्त्राणामेतत्कवचधारणम्।।
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि।
एको द्रोणो हि वैदैतदहं तस्माच्च सत्तमात्।।
न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन।
अपि वज्रेण गोविन्द स्वयं मघवता युधि।।
जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम्।
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते।।
यथा भविष्यद्यच्चैव तत्सर्वं विदितं तव।
न त्विदं वेद वै कश्चिद्यथा त्वं मधुसूदन।।
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम्।
तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम्।।
यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव।
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम्।।
पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन।
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम्।।
इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम्।
तस्माद्वृहस्पतिः प्राप ततः प्राप पुरन्दरः।।
पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम्।
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम्।
नैनं गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया।।
सञ्जय उवाच।
एवमुक्त्वाऽर्जुनो बाणानभिमन्त्र्य व्यकर्षयत्।
मानवास्त्रेण मानार्हस्तीक्ष्णावरणभेदिना।।
विकृष्यमाणांस्तेनैव धनुर्मध्यगताञ्छरान्।
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना।।
तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना।
न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः।।
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन।
अस्त्रं मामेव हन्याद्धि हन्याच्चापि बलं मम।।
ततो दुर्योधनः कृष्णौ नवभिर्नवभिः शरैः।
अविध्यत रणे राजञ्शरैराशीविषोपमैः।।
भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ।
शरवर्षेण महता ततोऽहृष्यन्त तावकाः।
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा।।
ततः क्रुद्धो रणे पार्थः सृक्विणी परिसंलिहन्।
नापश्यच्च ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम्।।
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः।
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी।।
धनुरस्याच्छिनत्तूर्णं हस्तावापं च वीर्यवान्।
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे।।
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम्।
आविद्ध्यद्धस्ततलयोरुभयोरर्जुनस्तदा।।
[प्रयत्नज्ञो हि कौन्तयो नखमांसान्तरेषुभिः।
स वेदनाभिराविग्नः पलायनपरायणः।।]
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः।
समापेतुः परीप्सन्तो धनञ्जयशरार्दितम्।।
तं रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः।
पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम्।।
अथ नार्जुनगोविन्दौ न रथो वा व्यदृश्यत।
अस्त्रवर्षेण महता शरौघैश्चापि संवृतौ।।
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम्।
तत्र व्यङ्गी कृताः पेतुः शतशोऽथ रथद्विपाः।।
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम्।
स रथः स्तम्भितस्तस्थौ क्रोशमात्रे समन्ततः।।
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत्।
धनुर्विष्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम्।।
ततो विष्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून्।
महता शरवर्षेण तलशब्देन चार्जुनः।।
पाञ्चजन्यं च बलवान्दध्मौ तारेण केशवः।
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम्।।
`तेनाच्युतोष्ठपुटपूरितमारुतेन
शङ्खान्तरोदरविवृद्धविनिःसृतेन।
नादेन सासुरवियत्सुरलोकपाल--
मुद्विग्नमीश्वर जगत्स्फुटतीव सर्वम्'।।
तस्य शङ्खस्य नादेन धनुषो निःस्वनेन च।
निःसत्वाश्च ससत्वाश्च क्षितौ पेतुस्तदा जनाः।।
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः।
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः।।
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु।
चक्रुर्नादान्महेष्वासाः कम्पयन्तो वसुन्धराम्।।
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिःस्वनैः।
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि।।
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम्।
प्रदध्मतुः शङ्खवरौ वासुदेवधनञ्जयौ।।
तेन शब्देन महता पूरितेयं वसुन्धरा।
सशैला सार्णवद्वीपा सपाताला विशाम्पते।।
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश।
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले।।
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ।
सम्भ्रमं परमं प्राप्तास्त्वरमाणा महारथाः।।
अथ कृष्णौ महाभागौ तावका वीक्ष्य दंशितौ।
अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे त्र्यधिकशततमोऽध्यायः।। 103 ।।