भीष्मपर्व

अध्यायः ९९

Bhishma Parva (Sanskrit) · Adhyaya 99
अक्षर का आकार

सञ्जय उवाच।

ततः शान्तनवो भीष्मो निर्ययौ सह सेनया।
व्यूहं चाव्यूहत महत्सर्वतोभद्रमात्मनः ।।

कृपश्च कृतवर्मा च शैब्यश्चैव महारथः ।
शकुनिः सैन्धवश्चैव काम्भोजश्च सुदक्षिणः ।।

भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत ।
अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ।।

द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ।।

अश्वत्थामा सोमदत्तश्चावन्त्यौ च महारथौ ।
महत्या सेनया युक्ता वामं पक्षमपालयन् ।।

दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः ।
व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ।।

अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः ।
पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ।।

एवं च तं तदा व्यूहं कृत्वा भारत तावकाः।
सन्नद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ।।

ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः।
नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ।।

अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ।।

स्थिताः सैन्येन महता परानीकविनाशनाः ।
शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः ।।

चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् ।
स्थिता रणे महाराज महत्या सेनया वृताः ।।

अभिमन्युर्महेष्वासो द्रुपदश्च महाबलः ।
युयुधानो महेष्वासो युधामन्युश्च वीर्यवान् ।।

केकया भ्रातरश्चैव स्थिता युद्धाय दंशिताः ।
एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् ।।

पाण्डवाः समरे शूराः स्थिता युद्धाय दंशिताः ।
तावकास्तु रणे यत्ताः सहसेना नराधिपाः ।।

अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाऽग्रतो नृप।
तथैव पाण्डवा राजन्भीमसेनपरोगमाः ।।

भीष्मं योद्धुमभीप्सन्तः संग्रामे विजयैषिणः ।
क्ष्वेलाः किलकिलाः शङ्खान्क्रकचान्गोविषाणिकाः ।।

भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान्।
पाण्डवा अभ्यवर्तन्त नदन्तो भैरवान्रवान् ।।

भेरीमृद्गशङ्खानां दुन्दुभीनां च निःस्वनैः ।
उत्कृष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ।।

वयं प्रतिनदन्तस्तानगच्छाम त्वरान्विताः ।
सहसैवाभिसंक्रद्धास्तदासीत्तुमुलं महत् ।।

ततोऽन्योन्यं प्रधावन्तः संप्रहारं प्रचक्रिरे ।
ततः शब्देन महता प्रचकम्पे वसुंधरा ।।

पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः ।
सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ।।

ववुश्च वातास्तुमुलाः शंसन्तः सुमहद्भयम् ।
घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ।।

वेदयन्त्यो महाराज महद्वैशसमागतम्।
दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च ।।

रुधिरेण समुन्मिश्रमस्थिवर्षं पपात च ।
रुदतां वाहनानां च नेत्रेभ्यः प्रापतञ्जलम् ।।

सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशांपते ।
अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ ।।

रक्षसां पुरुषादानां नदतां भैरवान्रवान् ।
संपतन्तश्च दृश्यन्ते गोमायबलवायसाः ।।

श्वानश्च विविधैर्नादैर्भषन्तस्तत्र मारिष ।
ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् ।
निपेतुः सहसा भूमौ वेदयन्त्यो महद्भयम् ।।

महान्त्यनीकानि महासमुच्छ्रये
ततस्तयोः पाण्डवधार्तराष्ट्रयोः।
चकम्पिरे शङ्खमृदङ्गनिःस्वनैः
प्रकम्पितानीव वनानि वायुना ।।

नरेन्द्रनागाश्वसमाकुलाना-
मभ्यायतीनामशिवे मुहूर्ते।
बभूव घोषस्तुमुलश्चमूनां
वातोद्धुतानामिव सागराणाम् ।।

।। इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि
नवमदिवसयुद्धे एकोनशततमोऽध्यायः ।।