भीष्मपर्व
अध्यायः १००
सञ्जय उवाच।
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः।
अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ।।
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः।
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ।।
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम्।
निवारयितुमप्याजौ त्वदीयाः कुरुनन्दन ।।
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः।
क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ।।
यमदण्डोपमान्घोराञ्ज्वलिताशीविषोपमान् ।
सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ।।
सरथान्रथिनस्तूर्णं हयांश्चैव ससादिनः ।
गजारोहांश्च सगजान्दारयामास फाल्गुनिः ।।
तस्य तत्कुर्वतः कर्म महत्सङ्ख्ये महीभृतः।
पूजयांचक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ।।
तान्यनीकानि सौभद्रो द्रावयामास भारत।
तूलराशीनिवाकाशे मारुतः सर्वतो दिशम् ।।
तेन विद्राव्यमाणानि तव सैन्यानि भारत ।
त्रतारं नाध्यगच्छन्त पङ्क्ते मग्ना इव द्वीपाः ।।
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम ।
अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ।।
न चैनं तावका राजन्विषेहुररिघातिनम् ।
प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ।।
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः ।
अदृश्यत महेष्वासः सवज्र इव वासवः ।।
हेमपृष्ठं धनुश्चास्य ददृशे विचरद्दिशः ।
तोयदेषु यथा राजन्राजमाना शतह्रदा ।।
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे ।
वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ।।
तथैव चरतस्तस्य सौभद्रस्य महात्मनः ।
रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः ।।
मोहयित्वा कृपं द्रोणं द्रौणिं च सबृहद्बलम्।
सैन्धवं च महेष्वासो व्यचरल्लघु सुष्ठु च ।।
मण्डलीकृतमेवास्य धनुः पश्याम भारत।
सूर्यमण्डलसंकाशं दहतस्तव वाहिनीम् ।।
तं दृष्ट्वा क्षत्रियाः शुराः प्रतपन्तं तरस्विनम् ।
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ।।
तेनार्दिता महाराज भारती सा महाचमूः ।
व्यभ्रमत्तत्रतत्रैव योषिन्मदवशादिव ।।
द्रावयित्वा महासैन्यं कम्पयित्वा महारथान् ।
नन्दयामास सुहृदो मयं जित्वेव वासवः ।।
तेन निद्राव्यमाणानि तव सैन्यानि संयुगे।
चक्रुरार्तस्वनं घोरं पर्जन्यनिनदोपमम् ।।
तं श्रुत्वा निनदं घोरं तव सैन्यस्य भारत।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ।।
दुर्योधनस्तदा राजन्नार्श्यशृङ्गिमभाषत।
एष कार्ष्णिर्महाबाहो द्वितीय इव फल्गुनः ।।
चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव ।
तस्य चान्यत्र पश्यामि संयुगे भेषजं महत् ।।
ऋते त्वां राक्षसश्रेष्ठं सर्वविद्यासु पारगम् ।
स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे ।।
वयं पार्थं हनिष्यामो भीष्मद्रोणपुरोगमाः ।
स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् ।।
प्रययौ समरे तूर्णं तव पुत्रस्य शासनात्।
नर्दमानो महानादं प्रावृषीव बलाहकः ।।
तस्य शब्देन महता पाण्डवानां बलं महत् ।
प्राचलत्सर्वतो राजन्वातोद्धूत इवार्णवः ।।
बहवश्च महाराज तस्य नादेन भीषिताः।
प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ।।
कार्ष्णिश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः ।
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ।।
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनं रणे।
नातिदूरे स्थितां तस्य द्रावयामास वै चमूम् ।।
तां वध्यमानां च तथा पाण्डवानां महाचमूम्।
प्रत्यद्ययौ रणे रक्षो देवसेनां यथा बलः ।।
विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष ।
रक्षसा घोररूपेण वध्यमानस्य संयुगे।।
ततः शरसहस्त्रैस्तां पाण्डवानां महाचमूम्।
व्यद्रावयद्रणे रक्षो दर्शयतत्स्वपराक्रमम् ।।
सा वध्यमाना च तथा पाण्डवानामनीकिनी ।
रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ।।
प्रमृद्य च रणे सेनां पद्मिनीं वारणो यथा।
ततोऽभिद्रद्राव रणे द्रौपदेयान्महाबलान् ।।
ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः।
राक्षसं दुद्रुवुः सङ्ख्ये ग्रहाः पञ्च रविं यथा ।।
वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः ।
यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ।।
प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः ।
सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः ।।
स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः ।
मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ।।
विषक्तैः सशरैश्चापि तपनीयपरिच्छदैः ।
आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ।।
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे।
विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः ।
स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव ।
अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ।।
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष ।
प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ।।
प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः ।
चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च ।।
एकैकं पञ्चभिर्बाणैराजघान स्मयन्निव ।
अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ।।
त्वरमाणः सुसंबद्धो हयांस्तेषां महात्मनाम् ।
जघान राक्षसः क्रुद्धः सारथींश्च सहस्रशः ।।
बिभेद च सुसंरब्धः पुनश्चैनान्सुतांशितैः।
शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ।।
विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः ।
अभिदुद्राव वेगेन हन्तुकामो निशाचरः ।।
तानर्दितान्रणे तेन राक्षसेन दुरात्मना ।
दृष्ट्वाऽर्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ।।
तयोः समभवद्युद्धं वृत्रवासवयोरिव।
ददृशुस्तावकाः सर्वे पाण्डवाश्च परस्परम् ।।
तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम्।
महाबलौ महाराज क्रोधसंरक्तलोचनौ ।।
परस्परमवेक्षेतां कालानलसमौ युधि।
`आशीविषाविव क्रुद्धौ नेत्राभ्यामितरेतरम् ।'
तयोः समागमो घोरो बभूव कटुकोदयः ।।
यथा देवासुरे युद्धे शक्रशम्बरयोः पुरा ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि
भीष्मवधपर्वणि नवमदिवसयुद्धे शततमोऽध्यायः ।।