भीष्मपर्व

अध्यायः ९३

Bhishma Parva (Sanskrit) · Adhyaya 93
अक्षर का आकार

सञ्जय उवाच।

विमुखीकृत्य वर्सांस्तु तावकान्युधि राक्षसः।
जिघांसुभरतश्रेष्ठ दुर्योधनमुपाद्रवत् ।।

तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम् ।
अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाःक ।।

तालमात्राणि चापानि विकर्षन्तो महारथाः ।
तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् ।।

अथैनं शरवर्षेण समन्तात्पर्यवाकिरन् ।
पर्वतं वारिधाराभिः शरदीव वलाहकाः ।।

स गाढविद्धो व्यथितस्तोत्रार्दित इव द्विपः ।
उत्पपात तदाऽऽकाशं समन्ताद्वैनतेयवत् ।।

व्यनदत्सुमहानादं जीमूत इव शारदः ।
दिशः खं विदिशश्चैव नादयन्भैरवस्वनः ।।

राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः ।
उवाच भरतश्रेष्ठ भीमसेनमरिन्दमम् ।।

युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः ।
यथाऽस्य श्रूयते शब्दो नदतो भैरवं स्वनम् ।।

अतिभारं च पश्यामि तस्मिन्राक्षसपुङ्गवे ।
पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः ।।

तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः।
एतज्ज्ञात्वा महाबाहो कार्यद्वयमुपस्थितम् ।।

गच्छ रक्षस्व हैडिम्बं शंशयं परमं गतम् ।
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः ।।

प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् ।
वेगेन महता राजन्पर्वकाले यथोदधिःक ।।

तमन्वगात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः ।
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ।।

अभिमन्युमुखाश्चैव द्रौपदेया महारथाः ।
क्षत्रदेवश्च विक्रन्तः क्षत्रधर्मा तथैव च ।।

अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः ।
महता रथवंशेन हैडिम्बं पर्यवारयन् ।।

कुञ्चरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिःक ।
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ।।

सिंहनादेन महता नेमिघोषेण चैव ह।
खुरशब्दनिपातैश्च कम्पयन्तो वसुंधराम् ।।

तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् ।
भीमसेनभयोद्विग्नं विवर्णवदनं तथा ।।

परिवृत्य महाराज परित्यज्य घटोत्कचम् ।
ततः प्रववृते युद्धंक तत्र तेषां महात्मनाम् ।।

तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् ।
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः ।।

अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे ।
व्यतिष्यक्तं महारौद्रं युद्धं भीरुभयावहम् ।।

हया हयैः समाजग्मुः पादाताश्च पदातिभिः ।
`रथा रथैः समागच्छन्नागा नागैश्च संयुगे'
अन्योन्यं समरे राजन्प्रार्थयानाः समभ्ययुः ।।

सहसा चाभवत्तीव्रं सन्निपातन्महद्रजः।
गजाश्वरथपत्तीनां पादनेमिसमुद्धतम् ।।

धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत्।
नैव स्वे न परे राजन्समजानन्परस्परम् ।।

पिता पुत्रं न जानीते पुत्रो वा पितरं तथा ।
निर्मर्यादे तथाभूते वैशसे रोमहर्षणे ।।

शस्त्राणां भरतश्रेष्ठ मनुष्याणां च र्जताम् ।
सुमहानभवच्छब्दः प्रेतानामिव भारत ।।

गजवाजिमनुष्याणां शोणितान्रतरङ्गिणी ।
प्राववर्तत नदी तत्र केशशैवलशाद्वला ।।

नराणां चैव कायेभ्यः शिरसां पततां रणे।
शुश्रुवे सुमहाञ्छब्दः पततामश्मनामिव ।।

विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः ।
अश्वैः संभिन्नदेहैश्च संकीर्णाऽभूद्वसुंधरा ।।

नानाविधानि शस्त्राणि विसृजन्तो महारथाः ।
अन्योन्यमभिधावन्तः संप्रहारार्थमुद्यताः ।।

हया हयान्समासाद्य प्रेषिता हयसादिभिः ।
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ।।

नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् ।
उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ।।

प्रेषिताश्च महामात्रैर्वारणाः परवारणैः ।
अभ्यघ्नन्त विषणाग्रैर्वारणानेव संयुगे ।।

ते जातरुधिरोत्पीडाः पताकाभिरलङ्कृताः ।
संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ।।

केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः ।
विनदन्तोऽभ्यधावन्त गर्जमाना धना इव ।।

केचिद्धस्तैर्द्विधाच्छिन्नैश्छिन्नगात्रास्तथाऽपरे ।
निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ।।

पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः ।
मुमुचुः शोणितं भूरि धातूनिव महीधराः ।।

नाराचनिहतास्त्वन्ये तथा विद्धाश्च तोमरैः ।
विनदन्तोऽभ्यधावन्त विशृङ्गा इव पर्वताः ।।

केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः ।
रथान्हयान्पदातींश्च ममृदुः शतशो रणे ।।

तथा हया हयारोहैस्ताडिताः प्रासतोमरैः ।
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ।।

रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः।
परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ।।

स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् ।
प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ।।

तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे।
धार्तराष्ट्रं महत्सैन्यं प्रययौ विमुखीकृतम् ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
अष्टमदिवसयुद्धे त्रिनवतितमोऽध्यायः ।।