भीष्मपर्व
अध्यायः ९२
सञ्जय उवाच।
ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि।
दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ।।
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः ।
संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ।।
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम्।
तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे ।।
आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ।
स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः ।।
दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः।
जग्राह च महाशक्तिं गिरीणामपि दारिणीम् ।।
संप्रदीप्तां महोल्काभामशनिं ज्वलितामिव ।
तमागच्छन्महाबाहुर्जिघांसुस्तनयं तव।।
तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् ।
कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत् ।।
स नागप्रवरेणाजौ बलिना शीघ्रगामिना ।
यतो दुर्योधनरथस्तं मार्गं प्रत्यषेधयत् ।।
पन्थानं वारयामास कुञ्जरेण सुतस्य ते।
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता ।।
घटोत्कचो महाराज क्रोधसंरक्तलोचनः ।
उद्यतां तां महाशक्तिकं तस्मिंश्चिक्षेप वारणे ।।
स तयाऽभिहतो राजंस्तेन बाहुप्रमुक्तया।
संजातरुधिरोत्पीडः पपात च ममार च ।।
पतत्यथ गजे चापि वङ्गानामीश्वरो बली।
जवेन समभिद्रुत्य जगाम धरणीतलम् ।।
दुर्योधोऽपि संप्रेक्ष्य पतितं वरवारणम् ।
प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ।।
`अशक्तः प्रतियोद्धुं वै दृष्ट्वा तस्य पराक्रमम्।'
क्षत्रधर्मं पुरस्कृत्य आत्मनश्चातिमानिताम्।
प्राप्तेऽपक्रनये राजा तस्थौ गिरिरिवाचलः ।।
राधान च शितं बाणं कालाग्निसमतेजसम्।
सुयोच धरमक्रुद्धस्तस्मिन्घोरे निशाचरे ।।
तमापतन्तं संप्रेक्ष्य वणिमिन्द्राशनिप्रभम् ।
लाघवान्मोचयामास महात्मा वै घटोत्कचः ।।
भूयश्च निननादोषं क्रोधसंरक्तलोचनः ।
त्रासयामास रौन्यानि युगन्ते जलदो यथा ।।
तं श्रुत्वा निनिदं घोरं तस्व भीमस्य रक्षसः।
आचार्यमुसंगम्य भीष्मः शान्तनवोऽब्रवीत् ।।
यथैव निनन्दो घोरः श्रूयते राक्षसेरितः ।
हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन च ।।
नैष शक्यो हि संग्रामे जेतुं भूतेन केनचित् ।
तत्र गच्छत भद्रं वो राजानं परिरक्षितुम् ।।
अभिद्रुत्य महाबाहुं राक्षसेन प्रपीडितम्।
एतद्धि परमं कृत्यं सर्वेषां नः परंतपाः ।।
पितामहवचः श्रुत्वा त्वरमाणा महारथाः ।
उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ।।
द्रोणश्च सोमदत्तश्च बाह्लीकोऽथ जयद्रथः ।
कृपो भिरिश्रवाः शल्य आवन्त्यः स बृहद्बलः ।।
अश्वत्थामा विकर्णश्च चित्रसेनो विविंशतिः।
रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ।।
अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव।
तदनीकमनाधृष्यं पालितं तु महारथैः ।।
पाततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ।
...कम्पत महाबाहुर्मैनाक इव पर्वतःक ।।
प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः ।
शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ।।
ततः समभवद्युद्धं तुमुलं रोमहर्षणम् ।
राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ।।
धनुषां कूजतां शब्दः सर्वतस्तुमुलो रणे ।
अश्रूयत महाराज वंशानां दह्यतामिव ।।
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम्।
शब्दः समभवद्राजन्गिरीणामिव भिद्यताम् ।।
वीरबाहुविसृष्टानां तोमराणां विशांपते ।
रूपमासीद्वियत्स्थानां सर्पाणामिव सर्पताम् ।।
ततः परमसंक्रुद्धो विष्फार्य सुमहद्धनुः ।
राक्षसन्द्रो महाबाहुर्विनदन्भैरव रवम् ।।
आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् ।
सोमदत्तस्य भल्लेन ध्वजं चोन्मथ्य चानदत् ।।
बाह्लीकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे।
कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ।।
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च।
जत्रुदेशे समासाद्य विकर्णं समताडयत् ।।
न्यषीदत्स्वरथोपस्थे शोणितेन परिप्लुतः ।
ततः पुनरमेयात्मा नाराचान्दश पञ्च च ।।
भूरिश्रवसि संक्रुद्धः प्राहिणोद्भरतर्षभ ।
ते वर्म भित्त्वा तस्याशु विविशुर्धरणीतलम् ।।
विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत्।
तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ।।
सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् ।
उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ।।
चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः ।
जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ।।
पूर्णायतविसृष्टेन पीतेन निशितेन च ।
निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ।।
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्।
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः ।।
चिक्षेप निशितांस्तीक्ष्णाञ्छरानाशीविषोपमान्।
बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
अष्टमदिवसयुद्धे द्विनवतितमोऽध्यायः ।।