भीष्मपर्व
अध्यायः ८४
सञ्जय उवाच।
ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे।
श्रुतायुपमभिप्रेक्ष्य प्रेषयामास वाजिनः ।।
ततस्तु त्वरितो राजञ्श्रुतायुषमरिन्दमन् ।
निजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिःक ।।
स संवार्य रमे राजा प्रेषितान्धर्मसूनुना ।
शरान्सप्त महेष्वासः कौन्तेयाया समार्षयत्।।
ते तस्व कवचं भित्त्वा पपुः शोणितमाहवे।
असूनिव विचिन्वन्तो देहे तस्य महात्मनः ।।
पाण्डवस्तु भृशं क्रुद्धो विद्धस्तेन महात्मना ।
रणे वराहकर्णेन राजानं हृद्यविध्यता ।।
अथापरेण भल्लेन केतुं तस्य महात्मनः ।
रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् ।।
केतु निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः ।
पाण्डवं विशिखैतीक्ष्णै राजन्विव्याध सप्तभिः ।।
ततः क्रोघात्प्रजज्वल धर्मपुत्रो युधिष्ठिरः ।
यथा युगान्ते भूतानि दिधक्षुरिव पावकः ।।
क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः ।
प्रविव्यधुर्महाराज व्याकुलं जाप्यभूज्जगत् ।।
सर्वेषां चैव भूतानामिदमासीन्मनोगतम् ।
त्रींल्लोकान्म संक्रुद्धो नृपोऽयं धक्ष्यतीति वै ।।
ऋष..... देवाश्च चक्रुः स्वस्त्ययनं महत्।
लोकानां नृपाशान्त्यर्थं क्रोधिते पाण्डवे तदा ।।
स च क्रोधसमाविष्टः सृक्विणी परिसंलिहन ।
इवारात्सवपुर्घोरं युगान्तादित्यसन्निभम् ।।
ततः सैन्यानि सर्वाणि तावकानि विशांपते ।
निराशान्यभवंस्तत्र जीवितं प्रति भारत ।।
स तु धैर्येण तं कोपं सन्निवार्य महायशाः ।
श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महाधनुः ।।
अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे ।
निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ।।
सत्वरं च रणे राजंस्तस्य वाहान्महात्मनः ।
निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ।।
हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञोऽस्य पौरुषम् ।
विप्रदुद्राव वेगेन श्रुतायुः समरे तदा।।
तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे।
दुर्योधनबलं राजन्सर्वमासीत्पराङ्भुखम् ।।
एवं जित्वा महाराज धर्मपुत्रो युधिष्ठिरः ।
व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ।।
चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् ।
प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ।।
संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि।
चेकितानां रणे यत्तं राजन्विव्याध पत्रिभिः ।।
अथापरेण भल्लेन धनुश्चिच्छेद मारिष ।
सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ।।
अश्वांस्छास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ।
अवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः ।।
स तया वीरघातिन्या गदया गदिनां वरः ।
गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् ।।
भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडशक ।
शरास्ते सात्वतं भित्त्वा प्राविशन्धरणीतलम् ।।
चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् ।
गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः ।।
तामापतन्तीं विमलामश्यमगर्भां महागदाम्।
शरैरनेकसाहस्त्रैर्वारयामास गौतमः ।।
चेकितानस्ततः खङ्गं क्रोधादुद्धृत्य भारत।
लाघवं परमास्थाय गौतमं समुपाद्रवत् ।।
गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंयतः ।
वेगेन महता राजंश्चेकितानमुपाद्रवत् ।।
तावुभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ ।
निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं संततक्षतुः ।।
निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ ।
धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ।।
मूर्छयाऽभिपरीताङ्गौ व्यायामेन तु मोहितौ ।
ततोऽभ्यधावद्वेगेन भीमसेनः सुहृत्तया ।।
चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदः ।
रथमारोपयच्चैनं सर्वसैकन्यस्य पश्यतः ।।
तथैव शकुनि शूरः स्यालस्तव विशांपतेक ।
आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ।।
सौमदत्तिं ततः क्रुद्धो धृष्टकेतुर्महाबलः ।
नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि ।।
सौमदत्तिरुरस्थैस्तैर्भृशं बाणैरशोभत ।
मध्यंदिने महाराज रश्मिभिस्तपनो यथा ।।
भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् ।
हतसूतहयं चक्रे विरथं सायकोत्तमैः ।।
विरथं तं समालोक्य हताश्वं हतसारथिम् ।
महता शरवर्षेण च्छादयामास संयुगे ।।
स तु तं रथमुत्सृज्य धृष्टकेतुर्महामनाः ।
आरुरोह ततो यानं शतानीकस्य मारिष ।।
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा।
रथिनो हेमसन्नाहाः सौभद्रमभिदुद्रुवुः ।।
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत।
शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ।।
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे ।
न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ।।
ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः ।
संवृतं समरे भीष्मं देवैरपि दुरासदम् ।।
प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव ।
अभिमन्युं समुद्दिश्य बालमेकं महारथम् ।।
वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः ।
चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः ।।
एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः।
यथा हन्युर्न नः सेनां तथा माधव चोदय ।।
एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा ।
रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ।।
निष्ठानको महानासीत्तव सैन्यस्य मारिष ।
यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति ।।
समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः ।
सुशर्माणमथो राजन्निदं वचनमब्रवीत् ।।
जानामि त्वां युधां श्रेष्ठमत्यन्तं पूर्ववैरिणम् ।
अनयस्याद्य संप्राप्तं फलं पश्य सुदारुणम् ।।
अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ।
एवं संजल्पतस्तस्य बीभत्सोः शत्रुघातिनः ।।
श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः ।
न चैनमब्रवीत्किंचिच्छुभं वा यदि वाऽशुभम् ।।
अभिगम्यार्जुनं वीरं राजभिर्बहुभिर्वृतः।
पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः ।।
परिवार्यार्जुनं सङ्ख्ये तव पुत्रैर्महारथः ।
शरैः संछादयामास मेघैरिव दिवाकरम् ।।
ततः प्रवृत्तः सुमहान्संग्रामः शोणितोदकः।
तावकानां च समरे पाण्डवानां च भारत ।।