भीष्मपर्व

अध्यायः ८३

Bhishma Parva (Sanskrit) · Adhyaya 83
अक्षर का आकार

धृतराष्ट्र उवाच।

बहूनि हि विचित्राणि द्वैरथानि स्म सञ्जय।
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ।।

न चैव मामकं किंचिद्धृष्टं शंससि सञ्जय ।
नित्यं पाण्डुसुतान्हृष्टानभग्नान्संप्रशंससि ।।

जीयमानान्विमनसो मामकान्विगतौजसः ।
वदसे संयुगे सूत दिष्टमेतन्न संशयः ।।

सञ्जय उवाच।

यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः।
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ।।

गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् ।
महोदधिसमभ्याशे लवणत्वं निगच्छति ।।

तथा तत्पौरुषं राजंस्तावकानां परंतप ।
प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे ।।

घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् ।
न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि ।।

तवापराधात्सुमहान्सपुत्रस्य विशांपते ।
पृतिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः ।।

आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप ।
न हि रक्षन्ति राजानः सर्वथाऽत्रापि जीवितम् ।।

युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः।
चमूं विगाह्य युद्ध्यन्ते नित्यं स्वर्गपरायणाः ।।

पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः।
तं त्वमेकमना भूत्वा शृणु देवासुरोपमम् ।।

आवन्त्यौ तु महेष्वासौ महासेनौ महाबलौ ।
युधामन्युमभिप्रेक्ष्य समेयता रणोत्कटौ ।।

तेषां प्रववृते युद्धं समुहद्रोणहर्षणम् ।
युधामन्युः सुसंक्रुद्धो भ्रातरौ देवरूपिणौ ।।

विव्याध निशितैस्तूर्णं शरैः सन्नतपर्वभिः।
तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ।।

युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत ।
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ।।

युधामन्युस्ततो राजन्ननुविन्दस्य सायकैः ।
चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ।।

भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष ।
चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ।।

त्यक्त्वाऽनुविन्दोऽथ रथं विन्दस्य रथमास्थितः।
धनुर्गृहीत्वा परमं भारसाधनमुत्तमम् ।।

तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ।
शरान्मुमुचतुस्तूर्णं युधामन्यौ महात्मनि ।।

ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः ।
दिवाकरपथं प्राप्य च्छादयामासुरम्बरम् ।।

युधामन्यू रणे क्रुद्धो भ्रातरौ तौ महारथौ ।
ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ।।

तस्मिंस्तु पतिते भूमौ गतसत्वे तु सारथौ ।
रथः प्रदुद्राव दिशः समुद्धान्तहयस्ततः ।।

तौ स जित्वा महाराज यज्ञसेनसुतः प्रभुः।
पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ।।

सा वध्यमाना समरे धार्तराष्ट्री महाचमूः ।
वेगान्बहुविधांश्चक्रे विषं पीत्वेन मानवः ।।

हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत्।
रथेनादित्यवर्णेन सध्वजेन महाबलः ।।

ततः प्राग्ज्योतिषो राजा नागराजं समास्थितःक ।
यथा वज्रधरः पूर्वं संग्रामे तारकामये ।।

तत्र देवाः सगन्धर्वा ऋषयश्च समागताः ।
विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः ।।

यथा सुरपतिः शक्रस्त्रासयामास दानवान्।
तथैव समरे राजा द्रावयामास पाण्डवान् ।।

तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतो दिशम्।
त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत ।।

भैमसेनिं रथस्थं तु तत्रापश्याम भारत ।
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ।।

निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत ।
आसीन्निष्ठानको घोरस्तव सैन्यस्य संयुगे ।।

घटोत्कचस्ततो राजन्भगदत्तं महारणे।
शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः ।।

निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्र्युतान्।
भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ।।

स ताड्यमानो बहुभिः शरैः सन्नतपर्वभिः ।
न विव्यथे राक्षसन्द्रो भिद्यमान इवाचलः ।।

तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश ।
प्रेषयामास समरे तांश्चिच्छेद स राक्षसः ।।

स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः ।
भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ।।

ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत।
तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः ।।

स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् ।
शक्तिं चिक्षेप वेगेन प्रग्ज्योतिषगजं प्रति ।।

तामापतन्तीं सहसा हेमदण्डां सुवेगिनीम् ।
त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीं ।।

शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् ।
यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ।।

तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् ।
अजय्यं समरे वीरं यमेन वरुणेन च ।।

पाण्डवीं समरे सेनां संममर्द स कुञ्जरः ।
यथा वनगजो राजन्मृद्गश्चरति पद्मिनीम् ।।

मद्रेश्वरस्तु समरे यमाभ्यां समसञ्जत ।
स्वस्त्रीयौ छादयांचक्रे शरौघैः पाण्डुनन्दनौ ।।

सहदेवस्तु समरे मातुलं दृश्य संगतम् ।
अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ।।

छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् ।
तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ।।

ततः प्रहस्य समरे नकुलस्य महारथः।
` ध्वजं चिच्छेद बाणेन धनुश्चैकेन मारिष ।।

अथैनं छिन्नधन्वानं छादयामास भारत।
निजघान रणे तं तु सूतं चास्य न्यपातयत् ।।

ततः प्रसह्य समरे नकुलस्य महारथः ।
अश्वांश्च चतुरो राजंश्चतुर्भिः सायकोत्तमैः ।।

प्रेषयामास समरे यमस्य सदनं प्रति।
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।।

आरुरोह ततो यानं भ्रातुरेव यशस्विनः ।
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके ।।

मद्रराजरथं तूर्णं च्छादयामासतुः क्षणात्।
स च्छाद्यमानो बहुभिः शरैः सन्नतपर्वभिः ।।

स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः।
प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह ।।

सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान्।
मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत ।।

स शरः प्रेषितस्तेन गरुडानिलवेगवान् ।
मद्रराजं विनिर्भिद्य निपपात महीतले ।।

स गाढविद्धो व्यथितो रथोपस्थे महारथः ।
निषसाद महाराज कश्मलं च जगाम ह ।।

तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे।
अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ।।

दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्भुखम्।
सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ।।

निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ ।
दध्यतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः ।।

अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशांपते ।
यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
सप्तमदिवसयुद्धे त्र्यशीतितमोऽध्यायः ।।