भीष्मपर्व
अध्यायः ८
धृतराष्ट्र उवाच।
वर्षाणां चैव नामानि पर्वतानां च संजय।
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ।।
संजय उवाच।
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु।
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ।।
शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः।
निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ।।
दशवर्षसहस्राणि शतानि दश पञ्च च।
जीवन्ति ते महाराज नित्यं मुदितमानसाः ।।
दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण तु।
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ।।
यत्र चायं महाराज पक्षिराट् पतगोत्तमः।
यक्षानुगा महाराज धनिनः प्रियदर्शनाः ।।
महाबलास्तत्र जना राजन्मुदितमानसाः।
एकादशसहस्राणि वर्षाणां ते जनाधिप ।।
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च।
श्रृङ्गाणि वै श्रृङ्गवतस्त्रीण्येव मनुजाधिप ।।
एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् ।
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ।
तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली ।।
उत्तरेण तु श्रृङ्गस्य समुद्रान्ते जनाधिप ।
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ।।
न तत्र सूर्यस्तपति न जीर्यन्ते च मानवाः ।
चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ।।
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ।
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ।।
अनिष्पन्दा इष्टगन्धा निराहारा जितेन्द्रियाः ।
देवलोकच्युताः सर्वे तथा विरजसो नृप ।।
त्रयोदशसहस्राणि वर्षाणां ते जनाधिप ।
आयुःप्रमाणं जीवन्ति नरा भरतसत्तम ।।
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः ।
हरिर्वसति वैकुण्ठः शकटे कनकोञ्ज्वले ।।
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् ।
अग्निवर्णं महातेजो जाम्बूनदविभूषितम् ।।
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ ।
संक्षेपो विस्तरश्चैव कर्ता कारयिता तथा ।।
पृथिव्यापस्तथाऽऽकाशं वायुस्तेजश्च पार्थिव ।
स यज्ञः सर्वभूतनामास्यं तस्य हुताशनः ।।
वैशंपायन उवाच।
एवमुक्तः संजयेन धृतराष्ट्रो महामनाः।
ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ।।
स विचिन्त्य महातेजाः पुनरेवाब्रवीद्वचः।
असंशयं सूतपुत्र कालः संक्षिपते जगत् ।।
सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् ।
नरो नारायणश्चैव सर्वज्ञः सर्वभूतहृत् ।।
देवा वैकुण्ठ इत्याद्दुर्वेदा विष्णुरिति प्रभुम् ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि
जम्बूखण्डविनिर्माणपर्वणि अष्टमोऽध्यायः ।।