भीष्मपर्व
अध्यायः ७
धृतराष्ट्र उवाच।
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय।
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ।।
संजय उवाच।
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे।
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ।।
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः।
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ।।
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप ।
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ।।
ये क्षरन्ति सदा क्षीरं षड्रसं चामृपोतमम् ।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ।।
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका ।
सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप ।
पुष्करिष्यः शुभास्तत्र सुखस्पर्शा मनोरमाः ।।
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः।
शुक्लाभिजनसंयन्नाः सर्वे सुप्रियदर्शनाः।।
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः।
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् ।।
मिथुनं जायते काले समं तच्च प्रवर्धते।
तुल्यरूगुणोपेतं समवेषं तथैव च ।।
एवमेवानुरूपं च चक्रवाकसमं विभो ।
निरापगाम ते लोका नित्यं मुदितमानसाः ।।
दशवर्षसहस्राणि शशवर्षशतानि च ।
जीवन्ति ते महाराज न चान्योन्यं जहत्युत ।।
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः ।
तान्निर्हरन्तीह मृतान्दरीषु प्रक्षिपन्ति च ।।
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः।
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ।।
तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशांपते ।
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ।।
कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः ।
द्रुमश्च योजनोत्सेधः सिद्धचारणसेवितः ।।
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः।
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ।।
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्वचन्द्रनिभाननाः ।
चन्द्रशीतलगात्र्यश्च नृत्तिगीतविशारदाः ।।
दशवर्षसहस्राणि तत्रायुर्भरतर्षभ ।
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ।।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु।
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ।।
सर्वकामफलः पुण्यः सिद्धचारणसेवितः।
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ।।
योजनानां सहस्त्रं च शतं च भरतर्षभ ।
उत्सेधो वृक्षराजस्य दिवस्पृङ्भनुजेश्वर ।।
अरत्नीनां सहस्रं च शतानि दश पञ्च च ।
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ।।
पतमानानि तान्युर्वी कुर्वन्ति विपुलं स्वनम् ।
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसन्निभम् ।।
तस्या जम्बाः फलरसो नदी भूत्वा जनाधिप ।
मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून् ।।
तत्र तेषां मनःशान्तिर्न पिपासा जनाधिप ।
तस्मिन्फलरसे पीते न जरा बाधते च तान् ।।
तत्र जाम्बूनदं नाम कनकं देवभूषणम् ।
इन्द्रगोपकसंकाशं जायते भास्वरं तु तत् ।।
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ।
तथा माल्यवतः श्रृङ्गे दृश्यते हव्यवाट् सदा ।।
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ।
तथा माल्यवतः श्रृङ्गे पूर्वपूर्वानुगण्डिका ।।
योजनानां सहस्राणि पञ्चषण्माल्यवानथ ।
महारजतसंकाशा जायन्ते तत्र मानवाः ।।
ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः ।
तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्ध्वरेतसः ।
रक्षणार्थं तु भूतानां प्रविश्यन्ते दिवाकरम् ।।
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च।
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ।।
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च।
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि
जम्बूखण्डविनिर्माणपर्वणि सप्तमोऽध्यायाः ।।