भीष्मपर्व
अध्यायः ५
धृतराष्ट्र उवाच।
नदीनां पर्वतानां च नामधेयानि संजय ।
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ।।
प्रमाणं च प्रमाणज्ञ पृथिव्या मम सर्वतः ।
निखिलेन समाचक्ष्व काननानि च संजय ।।
संजय उवाच।
पञ्चेमानि महाराज महाभूतानि संग्रहात्।
जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ।।
भूमिरापस्तथा वायुरग्निराकाशमेव च।
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ।।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः।
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिःक ।।
चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते।
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ।
शब्दः स्पर्शश्च वायौ द्वौ अकाशे शब्द एव तु ।।
एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु।
वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः ।।
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा ।।
यदा तु विषमीभावमाविशन्ति परस्परम् ।
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ।।
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः ।
सर्वाम्यपरिमेयाणि तदेषां रूपमैश्वरम् ।।
तत्रतत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ।
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ।।
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्।
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ।।
सुदर्शनं प्रवक्ष्यामि द्वीपं तु कुरुनन्दन।
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ।।
नदीजालप्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः ।
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ।।
वृक्षैः पुष्पफलोपेतैः संपन्नधनधान्यवान् ।
लवणेन समुद्रेण समन्तात्परिवारितः ।।
यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः ।
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ।।
द्विरशस्तु ततः प्लक्षो द्विरंशः शाल्मलिर्महान् ।
द्विरंशः पिप्पलस्तस्य द्विरंशश्च कुशो महान्।
सर्वौषधिसमापन्नः पर्वतैः परिवारितः ।।
आपस्ततोऽन्या विज्ञेयाः शेषः संक्षेप उच्यते।
ततोऽन्य उच्यते चायमेनं संक्षेपतः श्रृणु ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि
जम्बूखण्डविनिर्माणपर्वणि पञ्चमोऽध्यायः ।।