भीष्मपर्व
अध्यायः ४
वैशंपायन उवाच।
एवमुक्त्वा ययौ व्यासो धृतराष्ट्रय धीमते।
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत।।
स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः ।
संजयं संशितात्मानमपृच्छद्रतर्षभ ।।
संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः ।
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह ।।
पार्थिवाः पृथिवीहेतोः समभित्यज्य जीवितम् ।
न वा शाम्यन्ति निघ्नन्तो वर्धयन्ति यमक्षयम् ।।
भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् ।
मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व संजय ।।
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च।
कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले ।।
देशानां च परीमाणं नगराणां च संजय ।
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः ।।
दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा।
प्रभावात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ।।
संजय उवाच।
यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान्।
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ।।
द्विविधानीह भूतानि चराणि स्थावराणि च।
त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः ।।
त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः।
जरायुजानां प्रवरा मानवाः पशवश्च ये ।।
नानारूपधरा राजंस्तेषां भेदाश्चतुर्दश ।
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ।।
ग्राम्याणां पुरुषाः श्रेष्ठाः सिंहाश्चारण्यवासिनाम् ।
सर्वेषामेव भूतानामन्योन्येनोपजीवनम् ।।
उद्भिञ्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः ।
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ।।
तेषां विंशतिरेकोना महाभूतेषु पञ्चसु ।
चतुर्विशतिरुद्दिष्टा गायत्री लोकसंमता ।।
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् ।
तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति।।
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः ।
सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा ।।
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ।
गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः ।।
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ।
एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश ।।
भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति ।
भूमिः प्रतिष्ठा भूतानां भूमिरेव सनातनम् ।।
यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् ।
तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
जम्बूखण्डविनिर्माणपर्वणि चतुर्थोऽध्यायः ।।