भीष्मपर्व

अध्यायः ४४

Bhishma Parva (Sanskrit) · Adhyaya 44
अक्षर का आकार

धृतराष्ट्र उवाच।

एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च।
के पूर्वं प्राहरंस्तत्र कुरवःक पाण्डवा नु किम् ।।

सञ्जय उवाच।

भ्रातृभिः सहितो राजन्पुत्रो दुःशासनस्तव।
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ।।

तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः ।
भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ।।

क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः ।
भेरीमृदङ्गमुरजा हयकुञ्जरनिःस्वनाः ।।

उभयोःक सेनयोर्ह्यासंस्ततस्तेऽस्मान्समाद्रवन्।
वयं तान्प्रतिर्दन्तस्तदाऽऽसीत्तुमुलं महत् ।।

महान्त्यनीकानि महासमुच्छ्रये
समागमे पाण्डवधार्तराष्ट्रयोः।
चकम्पिरे शङ्खमृदङ्गनिःस्वनैः
प्रकम्पितानीव वनानि वायुना ।।

नरेन्द्र नागाश्वरताकुलाना-
मभ्यागतानामशिवे मुहूर्ते।
बभूव घोषस्तुमुलश्चमूनां
वातोद्धुतानामिव सागराणाम् ।।

तस्मिन्समुत्थिते शब्दे तुमुले रोमहर्षणे।
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ।।

शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम्।
सिंहनादं च सैन्यानां भीससेनरवोऽभ्यभूत् ।।

हयानां हेषमाणानामनीकेषु सहस्रशः ।
सर्वानभ्यभवच्चब्दान्भीमस्य नदतः स्वनः ।।

तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः ।
जीमूतस्येव नदतः शक्राशनिसमस्वनम् ।।

वाहनानि च सर्वाणि शकृन्मूत्रं प्रमुस्रुवुः ।
शब्देन तस्य वीरस्य सिंहस्येवेतरेक मृगाः ।।

दर्शयन्घोरमात्मानं महाभ्रमिव नादयन्।
विभीषयंस्तव सुतान्भीमसेनः समभ्ययात् ।।

तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् ।
छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ।।

दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः ।
दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृपः ।।

विविंशतिश्चित्रसेनो विकर्णश्च महारथः ।
पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ।।

महाचापानि धुन्वन्तो मेघा इव सविद्युतः ।
आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ।।

अथ ते द्रौपदीपुत्राः सौभद्रश्च महारथः ।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।।

धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः ।
वज्रैरिव महावेगैः शिखराणि धराभृताम् ।।

तस्मिन्प्रथमसंग्रामे भीमज्यातलनिःस्वने।
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ।।

लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ ।
निमित्तवेधिनां चैव शरानुत्सृजतां भृशम् ।।

नोपशाम्यति निर्घोषो धनुषां कूजतां तथा।
विनिश्चेरुः शरा दीप्ताज्योतींषीव नभस्तलात् ।।

सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत।
ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ।।

ततस्ते जातसंरम्भाः परस्परकृतागसः ।
अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ।।

कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले ।
शुशुभाते रणेऽतीव पटे चित्रार्पिते इव ।।

ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः ।
सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ।।

युधिष्ठिरेण चदिष्टाः पार्थिवास्ते सहस्रशः ।
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ।।

उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः ।
अन्तर्धीयत चादित्यः सैन्येन रजसा वृतः ।।

प्रयुद्धानां प्रभग्नानां पुनरावर्तिनामपि।
नात्र स्वेषां परेषां वा विशेषः समदृश्यत ।।

तस्मिस्तु तुमुले युद्धे वर्तमाने महाभये।
अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि
भीष्मवधपर्वणि चतुश्चत्वारिंशोऽध्यायः ।।