भीष्मपर्व
अध्यायः ४३
वैशंपायन उवाच।
गीता सुगीता कर्तव्या किमन्यैः शास्त्रसंग्रहैः ।
या स्वयं पद्मनाभस्य सुखपद्माद्विनिःसृता ।।
सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः।
सर्वतीर्थमयी गङ्गा सर्वदेवमयो मनुः ।।
गीता गङ्गा च गायत्री गोविन्देति हृदि स्थिते।
चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते ।।
षट्शतानि सविंशानि श्लोकानां प्राह केशवः।
अर्जुनः सप्तपञ्चाशत्सप्तषष्टिं तु सञ्जयः।।
धृतराष्ट्रः श्लोकमेकं गीताया मानमुच्यते ।
भारतामृतसर्वस्वगीताया मथितस्य च।
सारमुद्धृत्य कृष्णेन अर्जुनस्य मुखे हुतम् ।।
सञ्जय उवाच।
ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम् ।
पुनरेव महानादं व्यसृजन्त महारथाःक ।।
पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः ।
दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान् ।।
ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः ।
सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ।।
तथा देवाः सगन्धर्वाः पितरश्च जनाधिप ।
सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया ।।
ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् ।
समीयुस्तत्र सहिता द्रुष्टुं तद्वैशसं महत् ।।
` ते सेने स्तिमिते सञ्जे वीक्षमाणे परस्परम् ।
गङ्गायमुनयोर्वेगो यथैवैत्य परस्परम् ।।
एवं प्रवत्ते ते सेने निःशब्दे जनसंसदि ।
चित्रे पट इवालेख्ये दर्शनीयतरे शुभे ।।'
ततो युधिष्ठिरो दृष्ट्वा युद्धाय समवस्थिते।
ते सेने सागरप्रख्ये मुहुः प्रज्वलिते नृप ।।
विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् ।
अवरुह्य रथात्क्षिप्रं पद्म्यामेव कृताञ्जलिः ।।
पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः ।
वाग्यतः प्रययौ धीरः प्राङ्भुखो रिपुवाहिनीम् ।।
तं प्रयान्तमभिप्रेभ्य कुन्तीपुत्रो धनञ्जयः ।
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ।।
वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम तम् ।
तथा मुख्याश्च राजानस्तच्चित्ता जग्मुरुत्सुकाः ।।
अर्जुन उवाच।
किं ते व्यवसितं राजन्यदस्मानपहाय वै।
प्रद्म्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ।।
भीमसेन उवाच।
क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः।
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ।।
नकुल उवाच।
एवं गते त्वयि ज्येष्ठे मम भ्रातरि भारत।
भीमे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु ।।
सहदेव उवाच।
अस्मिन्रणसमूहे वै वर्तमाने महाभये।
उत्सृज्य क्व नु गन्तासि शत्रूनभिमुखो नृप ।।
सञ्जय उवाच।
एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दनः।
नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः ।।
तानुवाच महाप्राज्ञो वासुदेवो महामनाः ।
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ।।
एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च।
अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ।।
श्रूयते हि पुराकल्पे गुरूनननुमान्य यः।
युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः ।।
अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः ।
ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम ।।
एवं ब्रुवति कृष्णेऽत्र धार्तराष्ट्रचमूं प्रति।
हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् ।।
दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः ।
मिथः संकथयांचक्रुरेषो हि कुलपांसनः ।।
व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकम् ।
युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः ।।
धनञ्जये कथं नाथे पाण्डवे च वृकोदरे ।
नकुले सहदेवे च भीतिरभ्येति पाण्डवम् ।।
न नूनं क्षत्रियकुले जातः संप्रथिते भुवि।
यथाऽस्य हृदयं भीतमल्पसत्वस्य संयुगे ।।
ततस्ते सैनिकाः सर्वे प्रशंसन्ति स्म कौरवान् ।
हृष्टाः सुमनसो भूत्वा चेलानि दुधुवुश्च ह ।।
व्यनिन्दंश्च तथा सर्वे योधास्तव विशांपते।
युधिष्ठिरं ससोदर्यं सहितं केशवनेन हि ।।
ततस्तत्कौरवं सैन्यं धिक्वृत्वा तु युधिष्ठिरम् ।
निःशब्दमभवत्तूर्णं पुनरेव विशांपते ।।
किं नु वक्ष्याति राजाऽसौ किं भीष्मः प्रतिवक्ष्यति।
किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति ।।
विवक्षितं किमस्येति संशयः सुमहानभूत् ।
उभयो सेनयो राजन्युधिष्ठिरकृते तदा ।।
सोऽवगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् ।
भीष्ममेवाभ्यात्तूर्णं भ्रातृभिः परिवारितः ।।
तमुवाच ततः पादौ कारभ्यां पीड्य पाण्डवः ।
भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम् ।।
युधिष्ठिर उवाच।
आमन्त्रये त्वां दुर्धर्ष त्वया योत्स्यामहे सह।
अनजानीहि मां तात आशिषश्च प्रयोजय ।।
भीष्म उवाच।
यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते।
शपेयं त्वां महाराज परीभावाय भारत ।।
प्रीतोऽहं पुत्र युध्यस्व जयमाप्नुहि पाण्डव ।
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे ।।
व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि ।
एवं गते महाराज न तवास्ति पराजयः ।।
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ।।
अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन ।
भृतोऽस्त्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ।।
युधिष्ठिर उवाच।
मन्त्रयस्व महाबाहो हितैषी मम नित्यशः।
युध्यस्व कौरवस्यार्थे ममैष सततं वरः ।।
भीष्म उवाच।
राजन्किमत्र साह्यं ते करोमि कुरुनन्दन।
कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ।।
युधिष्ठिर उवाच।
कथं जयेयं संग्रामे भवन्तमपराजितम्।
एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि ।।
भीष्म उवाच।
नैनं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे।
विजयेत पुमान्कश्तित्साक्षादपि शतक्रतुः ।।
युधिष्ठिर उवाच।
हन्त पृच्छामि तस्मात्त्वां पितामह नमोस्तु ते।
वधोपायं ब्रवीहि त्वमात्मनः समरे परैः ।।
भीष्म उवाच।
न स्म तं तात पश्यामि समरे यो जयेत माम्।
न तावन्मृत्युकालोऽपि पुनरागमनं कुरु ।।
सञ्जय उवाच।
ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन।
शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च ।।
प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति।
पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह ।।
स द्रोणमभिवाद्याथ कृत्वं चाभिप्रदक्षिणम् ।
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ।।
आमन्त्रये त्वां भगवन्योत्स्ये विगितकल्मषः ।
कथं जये रिपून्सर्वाननुज्ञातस्त्वया द्विज ।।
द्रोण उवाच।
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः।
शपेयं त्वां महाराज परीभावाय सर्वशः ।।
तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयाऽनघ।
अनुजानामि युध्यस्व विजयं समवाप्नुहि ।।
करवाणि च ते कामं ब्रूहि त्वमभिकाङ्क्षितम् ।
एवं गते महाराज युद्धादन्यत्किमिच्छसि ।।
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैःक ।।
ब्रवीम्येतत्क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि।
योत्स्येऽहं कौरवस्यार्थे तवाशास्यो जयो मया ।।
युधिष्ठिर उवाच।
जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम्।
युध्यस्व कौरवस्यार्थे वर एष वृतो मया ।।
द्रोण उवाच।
ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव ।
अहं त्वामभिजानामि रणे शत्रून्विजेष्यसि ।।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः।
युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते ।।
युधिष्ठिर उवाच।
पृच्छामि त्वां द्विजश्रेष्ठ श्रृणु यन्मेऽभिकाङ्क्षितम्।
कथं जयेयं संग्रामे भवन्तमपराजितम् ।।
द्रोण उवाच।
न तेऽस्ति विजयस्तावद्यावद्युद्ध्याम्यहं रणे।
ममाशु निधने राजन्यतस्व सह सदरैः ।।
युधिष्ठिर उवाच।
हन्त तस्मान्महाबाहो वधोपायं वदात्मनः।
आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते ।।
द्रोण उवाच।
न शत्रुं तात पश्यामि यो मां हन्याद्रथे स्थितम्।
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् ।।
ऋते प्रायगतं रजन्न्यस्तशस्त्रमचेतनम् ।
हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते ।
शस्त्रं चाहं रणे जह्यां श्रुत्वा तु महदप्रियम्।
श्रद्धेपवाक्यात्पुरुषादेतत्सत्यं ब्रवीति ते ।।
सञ्जय उवाच।
एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः।
अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति ।।
सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् ।
उवाच दुर्धर्षतमं वाक्यं वाक्यविदां वरः ।।
अनुमानये त्वां योत्स्येऽहं गुरो विगतकल्मषः ।
जयेयं च रिपून्सर्वाननुज्ञातस्त्वयाऽनघ ।।
कृप उवाच।
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः।
शपेयं त्वां महाराज परीभावाय सर्वशः ।।
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ।
तेषामर्थे महाराज योद्धव्यमिति मे मतिः ।
अतस्त्वां क्लीबवद्ब्रूयांयुद्धादन्यत्किमिच्छसि ।।
युधिष्ठिर उवाच।
हन्त पृच्छामि ते तस्मादाचार्य श्रृणु मे वचः।
इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः ।।
सञ्जय उवाच
तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम्।
अवध्योऽहं महीपाल यद्ध्यस्व जयमाप्नुहि ।।
प्रीतस्तेऽभिगमेनाहं जयं तव नराधिप ।
आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते ।।
एतच्छ्रुत्वा महाराज गौतमस्य विशांपते।
अनुमान्य कृपं राजा प्रययौ येन मद्रराट् ।।
स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् ।
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ।।
अनुमानये त्वां दुर्धर्ष योत्स्ये विगतकल्मषः ।
जयेयं नु परान्राजन्ननुज्ञातस्त्वया रिपून् ।।
शल्य उवाच।
यदि मां नाधिगच्छेथा युद्धाय कृतनिश्चयः ।
शपेयं त्वां महाराज परीभावाय वै रणे ।।
तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते ।
अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि ।।
ब्रूहि चैष परं वीर केनार्थः किं ददामि ते।
एवं गते महाराज युद्धादन्यत्किमिच्छसि ।।
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
इति सत्यं महाराज बद्धोस्म्यर्थेन कौरवैः ।।
करिष्यामि हि ते कामं भागिनेय यथेप्सितम्।
ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि ।।
युधिष्ठिर उवाच।
मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम्।
कामं युद्ध्य परस्यार्थे वरमेतं वृणोम्यहम् ।।
शल्य उवाच।
किमत्र ब्रूहि साह्यं ते करोमि नृपसत्तम।
कामं योत्स्ये परस्यार्थे बद्धोऽस्म्यर्थेन कौरवैः ।।
युधिष्ठिर उवाच।
स एव मे वरः शल्य उद्योगे यस्त्वया कृतः।
सूतपुत्रस्य संग्रामे कार्यस्तेजोवधस्त्वया ।।
शल्य उवाच।
संपत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितम् ।
गच्छ युध्यस्व विस्रब्धः प्रतिजाने वचस्तव ।।
सञ्जय उवाच।
अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् ।
निर्जगाम महासैन्याद्भ्रतृभिः परिवारितः ।।
वासुदेवस्तु राधेयमाहवेऽभिजगाम वै।
तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः ।।
श्रुतं मे कर्ण भीष्मस्य द्वोषात्किल न योत्स्यसे।
अस्मान्वरय राधेय यावद्भीष्मो न हन्यते ।।
हते तु भीष्मे राधेय पुनरेष्यसि संयुगम् ।
धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् ।।
कर्ण उवाच।
न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव ।
त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् ।।
सञ्जय उवाच।
तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत ।
युधिष्ठिरपुरोगैश्च पाण्डवैः सह संगतः ।।
अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः ।
योऽस्मान्वृणोति तमहं वरये साह्यकारणात् ।।
अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् ।
प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् ।।
अहं योत्स्यामि भवतः संयुगे धृतराष्ट्रजान् ।
युष्मदर्थं महाराज यदि मां वृणुषेऽनघ ।।
युधिष्ठिर उवाच।
एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान्।
युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः ।।
वृणोमि त्वां महाबाहो युध्यस्व मम कारणात्।
त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते ।।
भजस्वास्मान्राजपुत्र भजमानान्महाद्युते ।
न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः ।।
सञ्जय उवाच।
ततो युयुत्सुः कौरव्यान्परित्यज्य सुतांस्तव।
जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिं ।।
ततो युधिष्ठिरो राजा संप्रहृष्टःक सहानुजः ।
जग्राह कवचं भूयो दीप्तिमत्कनकोञ्ज्वलम् ।।
प्रत्यपद्यन्त ते सर्वे स्वरथान्पुरुषर्षभाः ।
ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः ।।
अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् ।
सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः ।।
रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः ।
धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे तदा ।।
गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान्।
दृष्ट्वा महीक्षितस्तत्र पूजयांचक्रिरे भृशम् ।।
सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् ।
दयां च ज्ञातिषु परां कथयांचक्रिरे नृपाः ।।
साधुसाध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः।
वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षणाः ।।
म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तथा ।
वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः ।।
ततो जघ्नुर्महाभेरीः शतशश्च सहस्रशः ।
शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि
भीष्मवधपर्वणि त्रिचत्वारिंशोऽध्यायः ।।