भीष्मपर्व
अध्यायः २४
Bhishma Parva (Sanskrit) · Adhyaya 24
धृतराष्ट्र उवाच।
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय।
उदग्रमनसः के वा के वा दीना विचेतसः ।।
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने ।
मामकाः पाण्डवेया वा तन्ममाचक्ष्व सञ्जय ।।
कस्य सेनासमुदये गन्धो माल्यसमुद्भवः ।
वायुः प्रदक्षिणश्चैव योधानामभिगर्जताम् ।।
सञ्जय उवाच।
उभयोः सेनयोस्तत्र योधा जहृषिरे तदा।
स्रजः समाः सुगन्धानामुभयत्र समुद्भवः ।।
संहतानामनीकानां व्यूढानां भरतर्षभ ।
संसर्गात्समुदीर्णानां विमर्दः सुमहानभूत् ।।
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः।
शूराणां रणशूराणां गर्जतामितरेतरम् ।।
उभयोः सेनयो राजन्महान्व्यतिकरोऽभवत्।
अन्योन्यं वीक्षमाणानां योधानां भरतर्षभ।
कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि
भगवद्गीतापर्वणि चतुर्विशोऽध्यायः ।।