भीष्मपर्व
अध्यायः २३
सञ्जय उवाच।
धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम्।
अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत् ।।
श्रीभगवानुवाच।
शुचिर्भूत्वा महाबाहो संग्रामाभिमुखे स्थितः।
पराजयाय श्त्रुणां दुर्गास्तोत्रमुदीरय ।।
सञ्जय उवाच।
एवमुक्तोऽर्जुनः सङ्ख्ये वासुदेवेन धीमता।
अवतीर्य रथात्पार्थः स्तोत्रमाह कृताञ्जलिः ।।
अर्जुन उवाच।
नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि ।
कुमारि कालि कापालि कपिले कृष्णपिङ्गले ।।
भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते ।
चण्डि चण्डे नमस्तुभ्यं तारिणि वरवर्णिनि ।।
कात्यायनि महाभागे करालि विजये जये।
शिखिपिच्छध्वजधरे नानाभरणभूषिते।।
अट्टशूलप्रहरणे स्वङ्गखेटकधारिणि ।
गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे ।।
महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि ।
अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये ।।
उभे शाकम्भरि श्वेते कृष्णे कैटभनाशिनि ।
हिरण्याश्चि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते ।।
वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि ।
जम्बूकटकचैत्येषु नित्यं सन्निहितालये ।।
त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम्।
स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि ।।
स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती।
सावित्री वेदमाता च तथा वेदान्त उच्यते ।।
स्तुतासि त्वं महादेवि विशुद्धेनान्तरात्मना ।
जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ।।
कान्तारभयदुर्गेषु भक्तानां चालयेषु च ।
नित्यं वससि पाताले युद्धे जयसि दानवान् ।।
त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च ।
संध्या प्रभावती चैव सावित्री जननी तथा ।।
तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी ।
भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः ।।
सञ्जय उवाच।
ततः पार्थस्य विज्ञाय भक्तिं मानववत्सला।
अन्तरिक्षगतोवाच गोविन्दस्याग्रतः स्थिता ।।
देव्युवाच।
स्वल्पेनैव तु कालेन शत्रूञ्जेष्यसि पाण्डव ।
नरस्त्वमसि दुर्धर्ष नारायणसहायवान् ।।
अजेयस्त्वं रणेऽरीणामपि वज्रभृतः स्वयम् ।
इत्येवमुक्त्वा वरदा क्षणेनान्तरधीयत ।।
लब्ध्वा वरं तु कौन्तेयो मेने विजयमात्मनः ।
आरुरोह ततः पार्थो रथं परमसंमतम् ।।
कृष्णार्जुनावेकरथौ दिव्यौ शङ्खौः प्रदध्मतुः ।
य इदं पठते स्तोत्रं कल्य उत्थाय मानवः ।।
यक्षरक्षःपिशाचेभ्यो न भयं विद्यते सदा।
न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः ।।
न भयं विद्यते तस्य सदा राजकुलादपि ।
विवादेक जयमाप्नोति बद्धो मुच्यति बन्धनात् ।।
दुर्गं तरति चावश्यं तथा चोरैर्विमुच्यते।
संग्रामे विजयेन्नित्यं लक्ष्मीं प्राप्नोति केवलाम् ।।
आरोग्यबलसंपन्नो जीवेद्वर्षशतं तथा ।
एतद्दृष्टं प्रसादात्तु मया व्यासस्य धीमतः ।।
मोहादेतौ न जानन्ति नरनारायणावृषी ।
तव पुत्रा दुरात्मानः सर्वे मन्युवशानुगाः ।।
प्राप्तकालमिदं वाक्यं कालपाशेन कुण्ठिताः ।
द्वैपायनो नारदश्च कण्वो रामस्तथानघः ।
अवारयंस्तव सुतं न चासौ तद्गृहीतवान् ।।
यत्र धर्मो द्युतिः कान्तिर्यत्र ह्रीः श्रीस्तथा मतिः।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ।।
।। इति श्रीमन्महाभरते भीष्मपर्वणि
भगवद्गीतापर्वणि त्रयोविंशोऽध्यायः ।।