भीष्मपर्व
अध्यायः १०८
धृतराष्ट्र उवाच।
कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे।
पाण्डवाश्च कथं भीष्मं तन्ममाचक्ष्व सञ्जय ।।
सञ्जय उवाच।
ततः प्रभाते विमले सूर्यस्योदयनं प्रति।
ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ।।
ध्मायमानेषु शङ्खेषु पाण्डरेषु समन्ततः ।
शिखण्डिनं पुरस्कृत्य निर्याप्ताः पाण्डवा युधि ।।
कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् ।
शिखण्डी सर्वसैन्यानामग्र आसीद्विशांपते ।।
चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ ।
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ।।
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः।
धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ।।
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः।
प्रययौ सिंहनादेन नादयन्भरतर्षभ ।।
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृत्तः ।
द्रुपदश्च महाबाहो ततः पञ्चादुपाद्रवत् ।।
केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् ।
जघनं पालयामासुः पाण्डवेयश्च राक्षसः ।।
एवं व्यूह्य महासैन्यं पाण्डवास्तव वाहिनीम् ।
अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः ।।
तथैव कुरवो राजन्भीष्मं कृत्वा महारथम् ।
अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ।।
पुत्रैस्तव दुराधर्षो रक्षितः सुमहाबलैः ।
ततो द्रोणो महेष्वासः पुत्रश्चास्य महाबलः ।।
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः ।
कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ।।
काम्भोजराजो बलवांस्ततः पश्चात्सुदक्षिणः ।
मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ।।
तथैवान्ये महेष्वासाः सुशर्मप्रमुखा नृपाः ।
जघनं पालयामासुस्तव सैन्यस्य भारत ।।
दिवसेदिवसे प्राप्ते भीष्मः शान्तनवो युधि।
आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ।।
ततः प्रववृते युद्धं तव तेषां च भारत।
अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ।।
अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्।
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान्।।
तत्र भारत भीमेन ताडितास्तावकाः शरैः।
रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ।।
नकुलः सहदेवश्च सात्यकिश्च महारथः ।
तव सैनयं समासाद्य पीडयामासुरोजसा ।।
ते वध्यामानाः समरे तावका भरतर्षभ ।
नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ।।
ततस्तु तावकं सैन्यं वध्यमानं समन्ततः।
संप्राद्रवद्दशः दिशः काल्यमानं महारथैः ।।
त्रातारं नाध्यगच्छन्त तावका भरतर्षभ ।
वध्यमानाः शितैर्बाणैः पाण्डवैः सह सृञ्जयैः ।।
धृतराष्ट्र उवाच।
पीड्यमानं बलं दृष्ट्वा पार्थैर्भीष्मः पराक्रमी ।
यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय ।।
कथं वा पाण्डवा युद्धे प्रत्युद्याताः परंतपाः ।
निघ्नन्तो मामकान्वीरांस्तन्ममाचक्ष्व सञ्जय ।।
सञ्जय उवाच।
आचक्षे ते महाराज यदकार्षीत्पिता तव।
पीडिते तव पुत्रस्य सैन्ये पाण्डव सृञ्जयैः ।।
प्रंहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज ।
अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ।।
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् ।
नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ।।
स पाणडवान्महेष्वासः पञ्चालांश्चैव सृञ्जयान् ।
नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ।।
अभ्यवर्षत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ।
स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् ।।
आत्तशस्त्रो रणे यत्नाद्वारयामास सायकैः ।
नानाशस्त्रास्त्रवर्षैस्तान्वीर्यामर्षप्रवेरितैः ।।
निजघ्ने समरे क्रुद्धो हस्त्यश्वं चामितं बहु।
रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभ ।।
सादिनश्चाश्वपृष्ठेभ्यः पादातांश्च समागतान् ।।
गजारोहान्गजेभ्यश्च परेषां जयकारिणः ।
तमेकं समरे भीष्मं त्वरमाणं महारथम् ।।
पाण्डवाः समवर्तन्त वज्रहस्तमिवासुराः।
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्छरान् ।।
दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः।
मण्डलीभूतमेवास्य नित्यं धनुरदृश्यत ।।
संग्रामे युध्यमानस्य शक्रचापोपमं महत् ।।
तदृष्ट्वा समरे कर्म पुत्रास्तव विशांपते ।।
विस्मायं परमं गत्वा पितामहमपूजयन् ।
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव ।।
युध्यमानं रणे शूरं विप्रचित्तिमिवामराः ।
न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ।।
दशमेऽहनि संप्राप्ते रथानीकं शिखण्डिनः ।
अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ।।
तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्सनान्तरे ।
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ।।
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् ।
पुनर्नालोकयत्क्रुद्धः प्रहसन्निदमब्रवीत् ।।
कामं प्रहर वा मा वा न त्वां योत्स्ये कथंचन ।
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ।।
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्च्छितः ।
उवाच भीष्मं समरे सृक्विणी परिलेलिहन् ।।
जानामि त्वां महाबाहो क्षत्रियाणां भयंकरम् ।
मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ।।
दिव्यश्च ते प्रभावोऽयं मया च बहुशः श्रुतः ।
जनन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ।।
पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम ।।
अद्य त्वां योधयिष्यामि रणे पुरुषसत्तम ।।
ध्रुवं च त्वां हनिष्यामि शपे सत्येन तेऽग्रतः ।
एतच्छ्रुत्वा च मद्वाक्यं यत्कृत्यं तत्समाचर ।।
कामं युध्यस्व वा मा वा न मे जीवन्प्रमोक्ष्यसे ।
सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिंजय ।।
सञ्जय उवाच।
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः।
अविध्यत रणे भीष्मं प्रतुदन्वाक्यसायकैः ।।
तस्य तद्वचनं श्रुत्वा सव्यसाची महारथः ।
कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत् ।।
अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः ।
अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ।।
न हि ते संयुगे पीडां शक्ताः कर्तुं महाबलाः ।
तस्मादद्य महाबाहो यत्नाद्भीष्यमभिद्रव ।।
अहत्वा समरे भीष्म यदि यास्यसि मारिष ।
अवहास्योऽस्य लोकस्य भविष्यसि मया सह ।।
नावहास्या यथा वीर भवेम परमाहवे ।
तथा कुरु रणे यत्नं साधयस्व पितामहम् ।।
कुरूंश्च सहितान्सर्वान्यतमानान्महारथान् ।
अहमावारयिष्यामि सावयस्व पितामहम् ।।
द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् ।
चित्रसेनं विकर्णं च सैन्धवं च यजद्रथम् ।।
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम् ।
भगदत्तं तथा शूरं मागदं च महाबलम् ।।
सौमदत्तिं तथा शूरमार्श्यशृङ्गिं च राक्षसम् ।
त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ।।
अहमावारयिष्यामि वेलेव मकरालयम् ।
कुरूंश्च सहितान्सर्वान्युध्यमानान्महाबलान् ।
निवारयिष्यामि रणे साधयस्व पितामहम् ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
दशमदिवसयुद्धे अष्टाधिकशततमोऽध्यायः ।।