भीष्मपर्व

अध्यायः १०७

Bhishma Parva (Sanskrit) · Adhyaya 107
अक्षर का आकार

सञ्जय उवाच।

युध्यतामेव तेषां तु भास्करेऽस्तमुपागते।
सन्ध्या समभवद्धोरा नापश्याम ततो रणम् ।।

ततो युधिष्ठिरो राजा सन्ध्यां संदृश्य भारत।
वध्यमानं च भीष्मेण त्यक्तास्त्रं भयविह्वलम् ।।

स्वसैन्यं च परावृत्तं पलायनपरायणम्।
भीष्मं च युधि संरब्धं पीडयन्तं महारथम् ।।

सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान्।
` निशामुखं च संप्रेक्ष्य घोररूपं भयानकम्।'
चिन्तयित्वा ततो राज्ञामपहारमकारयत् ।।

ततोऽपहारं सैन्यानां चक्रे राजा युधिष्ठिरः ।
तथैव तव सैन्यानामपहारे ह्यभूत्तदा ।।

ततोऽपहारं सैन्यानां कृत्वा तत्र महारथाः ।
न्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः ।।

भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः ।
नालभन्त तदा शान्तिं भीष्मबाणप्रपीडिताः ।।

भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयान्।
पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ।।

न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः ।
ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ।।

तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह ।
सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ।।

आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः।
मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ।।

ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप ।
वासुदेवं समुद्वीक्ष्य वचनं चेदमाददे ।।

कृष्ण पश्य माहात्मानं भीष्मं भीमपराक्रमम् ।
गजं नलवनानीव विमृद्गन्तं बलं मम ।।

न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् ।
लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ।।

यथा घोरो महानागस्तक्षको वै विषोल्बणः।
तथा भीष्मो रणे क्रुद्धस्तीक्ष्णशस्त्रः प्रतापवान् ।।

गृहीतचापः समरे प्रमुञ्चन्निशिताञ्छरान्।
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ।।

वरुणः पाशभृच्चापि सगदो वा धनेश्वरः ।
न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे ।।

सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे।
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ।।

वनं यास्यामि दुर्धर्ष श्रेयो वै तत्र मे गतम् ।
न युद्धं रोचते कृष्ण हन्ति भीष्मो हि नः सदा ।।

यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन्।
एकतो मृत्युमभ्येति तथाऽहं भीष्ममेयिवान् ।।

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।
भ्रातरश्चैव मे शुराः सायकैर्भृशपीडिताः ।।

मत्कृते भ्रातृसौहार्दाद्राज्यभ्रष्टा वनं गताः।
परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ।।

जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्।
जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ।।

यदि तेऽहमनुग्राह्यो भ्रातृभिः स केशव ।
स्वधर्मस्याविरोधेन हितं व्याहर केशव ।।

सञ्जय उवाच।

एवं श्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम्।
प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ।।

श्रीभगवानुवाच ।

धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर ।
यस्य ते भ्रातरः शूरा दुर्जयाः सत्रुसूदनाः ।।

अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ।
माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिविश्वरौ ।।

मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव ।
त्वप्रयुक्तो महाराज किं न कुर्यां महाहवे ।।

हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् ।
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ।।

यदि भीष्मे हते वीरे जयं पश्यसि पण्डव।
हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ।।

पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे।
विमुञ्चन्तं महास्त्रामि पातयिष्यामि तं रथात् ।।

यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः।
मदर्था भवदर्था ये ये मदीयास्तवैव ते ।।

तव भ्राता मम सखा संबन्धी शिष्य एव च ।
मांसान्युत्कृत्य दास्यामि फल्गुनार्थे महीपते ।।

एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत्।
एष नः समयस्तात तारयेम परस्परम् ।।

स मां नियुङ्क्ष्व राजेन्द्र यावत्सज्जो भवाम्यहम् ।
प्रतिज्ञातमुपप्लाव्ये यत्तत्पार्थेन पूर्वतः ।।

पातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ।
परिरक्ष्यमिदं तावद्वचः पार्थस्य धीमतः ।।

अनुज्ञातेन पार्थेन मया कार्यं न संशयः।
अथवा फल्गुनस्यैष भारः परिमितो रणे ।।

स हनिष्यति संग्रामे भीष्मं परपुरंजयम् ।
अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः ।।

त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः ।
निहन्त्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप ।।

विपरीतो महावीर्यो गतसत्वोऽल्पजीवनः ।
भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते ।।

युधिष्ठिर उवाच।

एवमेतन्महाबाहो यथा वदसि माधव।
सर्वे ह्येते न पर्याप्तास्तव वेगविधारणे ।।

नियतं समावाप्स्यामि सर्वमेतद्यथेप्सितम् ।
यस्य मे पुरुषव्याघ्र भवान्पक्षे व्यवस्थितः ।।

सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर।
त्वया नाथेन गोविन्द किमु भीष्मं महारथम् ।।

न तु त्वामनृतं कर्तुमुत्सहे स्वात्मगौरवात्।
अयुध्यमानाः सहाय्यं यथोक्तं कुरु माधव ।।

समयस्तु कृतः कश्चिन्मम भीष्मेण संयुगे।
मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथंचन ।।

दुर्योधनार्थं योत्स्यामि सत्यमेतदिति प्रभो।
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव ।।

तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः ।
भवता सहिताः सर्वे प्रयाम मधुसूदन ।।

तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् ।
रुचिते तव पृच्छामि मन्त्रं वार्ष्णेय माचिरम् ।।

स वक्ष्यति हितं वाक्यं सत्यमस्माज्जनार्दन।
यथा च वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ।।

स नो जयस्य दाता स्यान्मन्त्रस्य च दृढव्रतः ।
बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ।।

तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव।
पितुः पितरमिष्टं च धिगस्तु क्षत्रजीविकाम् ।।

सञ्जय उवाच।

ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् ।
रोचते मे महाप्राज्ञ राजेन्द्र तव भाषितम् ।।

देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत्।
गम्यतां स्ववधोपायं प्रष्टुं सागरगासुतम् ।।

वक्तमर्हति सत्यं स त्वया पृष्टो विशेषतः ।
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् ।।

गत्वा शान्तनवं वृद्धं मन्त्रं पृच्छाम भारत ।
स नो दास्यति मन्त्रं यं तेन योत्स्यामहे परान् ।।

सञ्जय उवाच।

एवमामन्त्र्य ते वीराः पाण्डवाः पाण्डुपूर्वज।
जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ।।

विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति।
प्रविश्य च तदा भीष्मं शिरोभिः प्रणिपेदिरे ।।

पूजयन्तो महाराज पाण्डवा भरतर्षभम् ।
प्रणम्य शिरसा चैनं भीष्मं शरणमभ्ययुः ।।

तानुवाच महाबाहुर्भीष्मः कुरुपितामहः ।
स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय ।।

स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा।
किं वा कार्यं करोम्यद्य युष्माकं प्रीतिवर्धनं ।।

`युद्धादन्यत्र हे वत्साः प्रीयन्तां मा विशङ्कथ ।'
सर्वात्मनापि कर्तास्मि यदपि स्यात्सदुष्करम् ।
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनःपुनः ।।

उवाच राजा दीनात्मा प्रीतियुक्तमिदं वचः।
कथं जयेम सर्वज्ञ कथं राज्यं लभेमहि ।।

प्रजानां संशयो न स्यात्कथं तन्मे बद प्रभो ।
भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः ।।

भवन्तं समरे वीर विषहेम कथं वयम्।
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह ।।

मण्डलेनैव धनुषा दृश्यसे संयुगे सदा।
आददानं संदधानं विकर्षन्तं धनुर्न च ।।

पश्यामस्त्वां महाबाहो रथे सूर्यमिवापरम् ।
रथाश्वनरनागानां हन्तारं परवीरहन् ।।

कोऽथवोत्सहते जेतुं वां पुमान्भरतर्षभ ।
वर्षता शरवर्षाणि महान्ति पुरुषर्षभ ।।

क्षयं निता हि पृतना संयुगे महती मम।
यथा युधि जयेम त्वां यथा राज्यं भृशं मम ।।

मम सैन्यस्य च क्षेमं तन्मे ब्रूहि पितामह ।

सञ्जय उवाच।

ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज ।।

न कथंचन कौन्तेय मयि जीवति संयुगे।
जयो भवति सर्वज्ञ सत्यमेतद्ब्रवीमि ते ।।

निर्जिते मयि युद्धेन रणे जेष्यथ पाण्डवाः ।
क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् ।।

अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् ।
एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् ।
हते मयि हतं सर्वं तस्मादेवं विधीयताम् ।।

युधिष्ठिर उवाच।

ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि।
भवन्तं समरे क्रुद्धं दण्डहस्तमिवान्तकम् ।।

शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा।
न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ।।

भीष्म उवाच।

सत्यमेतन्महाबाहो यथा वदसि पाण्डव ।।

नाहं जेतुं रणे शक्यः सेन्द्रैरपि सुरासुरैः।
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ।
ततो मां न्यस्तशस्त्रं तु एते हन्युर्महारथाः ।।

निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे ।
द्रवमाणे च भीते च तवास्मीति च वादिनि ।।

`स्त्रीजिते स्त्रीप्रधाने च स्त्रीप्रधायिनि धर्मज'
स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रिणि ।
अप्रसूते च षण्डे च न युद्धं रोचते मम ।।

इमं मे शृणु राजेन्द्र संकल्पं पूर्वचिन्तितम् ।
असंकल्पध्वजं दृष्ट्वा न युध्येयं कदाचन ।।

य एष द्रौपदो राजंस्तव सैन्ये महारथः ।
शिखण्डी समरामर्षी शूरश्च समितिंजयः ।।

यथाऽभवच्च स्त्रीपूर्वं पश्चात्पुंस्त्वं समागतः।
जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ।।

अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डीनम् ।
मामेव विशिखैस्तीक्ष्णैरभिद्रवतु दंशितः ।।

असंकल्पध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः ।
न प्रहर्तुमभीप्सामि गृहीतेषु कथंचन ।।

तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः।
शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ।।

न तं पश्यामि लोकेष मां हन्याद्यः समुद्यतम्।
ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् ।।

पार्षतं तु पुरोधाय क्लीबमद्य ममाग्रतः ।
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ।
मां पातयतु बीभत्सुरेवं तव जयो ध्रुवम् ।।

एतत्कुरुष्व कौन्तेय यथोक्तं मम सुव्रत ।
ततो जेष्वसि संग्रामे धार्तराष्ट्रान्समागतान् ।।

सञ्जय उवाच।

तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति।
अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ।।

तथोक्तवति गाङ्गेये परलोकाय दीक्षिते।
अर्जुनो दुःखसंतप्तः सव्रीडमिदमब्रवीत् ।।

गुरुणा कुरुवृद्धेन कृतप्रज्ञेन धीमता ।
पितामहेन संग्रामे कथं योद्धास्मि माधव ।।

क्रीडता हि मया बाल्ये वासुदेव महामनाः ।
पांसुरूषितगात्रेण महात्मा परुषीकृतः।।

यस्याहमधिरुह्याङ्कं वालः किल गदाग्रज ।
तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ।।

नाहं तातस्तव पितुस्तातोऽस्मि तव भारत ।
इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ।।

कामं वध्यतु सैन्यं मे नाहं योत्स्ये महात्मना ।
जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ।।

` कथमस्माद्विधः कृष्ण जानन्धर्मं सनातनम् ।
न्यस्तशस्त्रे च वृद्धे च प्रहरेद्धि पितामहे ।।'

श्रीवासुदेव उवाच।

प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे।
क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ।।

पातयैनं रथात्पार्थ क्षत्रियं युद्धदुर्मदम् ।
नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ।।

दृष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते।
यद्दृष्टं हि पुरा पार्थ तत्तथा न तदन्यथा ।।

न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् ।
त्वदन्यः शक्नुयाद्योद्धुमपि वज्रधरः स्वयम् ।।

जहि भीष्मं स्थिरो भूत्वा शृणु चेदं वचो मम।
यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ।।

ज्यायांसमपि चेद्वृद्धं गुणैरपि समन्वितम् ।
आततायिनमायान्तं हन्याद्धातकमात्मनः ।।

शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय ।
योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ।।

अर्जुन उवाच।

शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् ।
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ।।

ते वयं प्रमुखे तस्य पुरस्कृत्य शिखण्डिनम्।
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ।।

अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः ।
शिखण्ड्यपि युधां श्रेष्ठं भीष्ममेवाभियोधयेत् ।।

श्रुतं हि कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् ।
कन्या ह्येषा पुरा भूत्वा पुरुषः समपद्यत ।।

`अर्जुनस्य वचः श्रुत्वा भीष्मस्य वधसंयुतम्।
जहृषुर्हृष्टरोमाणः सकृष्णाः पाण्डवास्तदा।।'

इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः।
अनुमान्य महात्मानं प्रययुर्हृष्टमानसाः।
शयनानि यथा स्वानि भेजिरे पुरुषर्षभाः ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
सप्ताधिकशततमोऽध्यायः ।।