भीष्मपर्व
अध्यायः १०३
सञ्जय उवाच।
मध्यंदिनो महाराज संग्रामः समपद्यत।
लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ।।
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् ।
व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः।।
संममर्द च तत्सैन्यं पिता देवव्रतस्तव।
मर्दयेच्च यथा राजन्सिंहः प्राप्य मृगव्रजम् ।।
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा।
भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ।।
धृष्टद्युम्नं ततो विद्ध्वा विराटं च शरैस्त्रिभिः ।
द्रुपदस्य च नाराचं प्रेषयामास भारत ।।
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना ।
चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ।।
शिखण्डी तं च विव्याध भरतानां पितामहम् ।
स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ।।
धृष्टद्युम्नस्तु समरे क्रोधेनाग्निरिव ज्वलन् ।
पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।।
द्रुपदः पञ्चविंशत्या विराटो दशमिः शरैः।
शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ।।
सोऽतिविद्धो महाराज शोणितौघपरिप्लुतः।
वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ।।
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः ।
द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ।।
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः ।
सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ।।
तथा भीमो महाराज द्रौपद्याः पञ्च चात्मजाः ।
केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ।।
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरसमाज्ञया ।
प्रति रक्षणकार्यार्थं धृष्टद्युम्नमुखान्रणे ।।
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः ।
प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ।।
तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम् ।
नराश्वरथनागानां यमराष्ट्रविवर्धनम् ।।
रथी रथिनमासाद्य प्राहिणोद्यमसादनम्।
तथेतरान्समासाद्य नरनागाश्वसादिनः ।।
अनयन्परलोकाय शरैः सन्नतपर्वभिः ।
शरैश्च विविधैर्घोरैस्तत्रतत्र विशांपते ।।
रथास्तु रथिभिर्हीना हतसारथयस्तथा ।
विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ।।
मृद्गन्तस्ते नरान्राजन्हयांश्च सुबहून्रणे।
वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ।।
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः।
कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषणाः ।।
देवपुत्रसमाः सर्वे शौर्ये शक्रसमा युधि।
ऋद्ध्या वैश्रवणां चाति नयेन च बृहस्पतिम् ।।
सर्वलोकेश्वराः शूरास्तत्रतत्र विशांपते।
विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ।।
दन्तिनश्च नरश्रेष्ठ हीनाः परमसादिभिः ।
मृद्गन्तः स्वान्यनीकानि निपेतुः सर्वशब्दगाः ।।
चर्मभिश्चामरैश्चित्रैः पताकाभिश्च मारिष ।
छत्रैः सितैर्हेमदण्डैश्चामरैश्च समन्ततः ।।
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश।
नवमेघप्रतीकाशा जलदोपमनिःस्वनाः ।।
तथैव दन्तिभिर्हीना गजारोहा विशांपते।
प्रधावन्तोऽन्वदृश्यन्त तव तेषां च संकुले ।।
नानादेशसमुत्थांश्च तुरगान्हेमभीषितान् ।
वातायमानानद्राक्षं शतशोऽथ सहस्रशः ।।
अश्वारोहान्हतैरश्वैर्गृहीतासन्समन्ततः ।
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ।।
गजो गजं समासाद्य द्रवमाणं महाहवे ।
ययौ प्रमृद्य तरसा पादातान्वाजिनस्तथा ।
तथैव च रथान्राजन्प्रममर्द रणे गजः ।।
रथाश्चैव समासाद्य पतितांस्तुरगान्भुवि।
व्यमृद्गन्समरे राजंस्तुरगांश्च नरान्रमे ।।
एवं ते बहुधा राजन्प्रत्यमृद्गन्परस्परम्।
`दृश्यन्तेस्म महाबाहो तत्रतत्र महाबलाः ।।'
तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये।
प्रावर्तत नदी घोरा शोमितान्त्रतरङ्गिणी ।।
अस्थिसङ्घातसंबाधा केशशैवलाद्वला ।
रथह्रदा शरावर्ता हयमीना दुरासदा।।
शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला ।
कवचोष्णीषफेनौघा धनुर्वेगासिकच्छपा ।।
` शङ्खनक्रौघसंकीर्णा छत्रकूर्मरथोडुपा।'
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी ।
क्रव्यादहंससंकीर्णा यमराष्ट्रविवर्धनी ।।
तां नदीं क्षत्रियाः शूरा रथनागहयप्लवैः ।
प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महारथाः ।।
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान्।
यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ।।
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत्।
दुर्योधनापराधेन गच्छन्ति क्षत्रियाः क्षयम् ।।
गुणवत्सु कथं द्वेषं धृतराष्ट्रो जनेश्वरः ।
कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ।।
एवं बहुविधा वाचः श्रूयन्ते स्म परस्परम् ।
पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ।।
ता निशम्य ततो वाचः सर्वयोधैरुदाहृताः।
आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ।।
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत।
युध्यध्वमनहंकराः किं चिरं कुरुथेति च ।।
`इति दुर्योधनोत्सृष्टाः सर्वे युयुधिरे नृपाः'
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह।
अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ।।
यत्पुरा न निगृह्णासि वार्यमाणो महात्मभिः ।
वैचित्रवीर्य तस्येदं फलं पश्य सुदारुणम् ।।
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः ।
रक्षन्ति समरे प्राणान्कौरवा वापि संयुगे ।।
एतस्मात्कारणाद्धोरो वर्तते स्वजनक्षयः ।
दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ।।
।। इति श्रामन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
नवमदिवसयुद्धे त्र्यधिकशततमोऽध्यायः ।।