भीष्मपर्व

अध्यायः १०२

Bhishma Parva (Sanskrit) · Adhyaya 102
अक्षर का आकार

धृतराष्ट्र उवाच।

कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः ।
समीयतू रणे यत्तौ तावुभौ पुरुषर्षभौ ।।

प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः ।
आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय ।।

तावुभौ रथिनो सङ्ख्ये हृष्टौ सिंहाविवोत्कटौ ।
कथं समीयतुर्यत्तौ भारद्वाजधनञ्जयौ ।।

सञ्जय उवाच।

न द्रोणः समरे पार्थं जानीते प्रियमात्मनः ।
क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ।।

न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् ।
निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ।।

रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः ।
नाचिन्तयच्च तान्बाणान्पार्थचापच्युतान्युधि ।।

शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे ।
स प्रजज्वाल रोषेण गहनेऽग्निरिवोर्जितः ।।

ततोऽर्जुनं रणे द्रोणः शरैः सन्नतपर्वभिः ।
छादयामास राजेन्द्र नचिरादेव भारत ।।

ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।
द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ।।

त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् ।
छादयामास समरे पार्थं बाणैरयोमुखैः ।।

ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे ।
हंसा इव महाराज शरत्काले नभस्तले ।।

ते शराः प्राप्य कौन्तेयं समन्ताद्विविशुः प्रभो ।
फलभारनतं यद्वत्स्वादुवृक्षं विहंगमाः ।।

अर्जुनस्तु रणे नादं विनद्य रथिनां वरः।
त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ।।

ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।
पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः ।
मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ।।

शरवृष्टिं ततस्तां तु शरवर्षैः समन्ततः ।
प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः।।

तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् ।
विमुक्तां बहुभिर्योधैः शस्त्रवृष्टिं दुरासदाम् ।।

यदेको वारयामास मारुतोऽभ्रगणानिव ।
कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ।।

अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत।
मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ।।

प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् ।
पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ।।

ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम्।
शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ।।

द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे नराधिप।
प्रशशाम ततो वयुः प्रसन्नाश्च दिशो दश ।।

ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् ।
निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ।।

ततो दुर्योधनश्चैव कृपश्च रथिनां वरः।
अश्वत्थामा तथा शल्यः काम्भोजश्च सुदक्षिणः ।।

विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः ।
महता रथवंशेन पार्थस्यावारयन्दिशः ।।

तथैव भगदत्तश्च श्रतायुश्च महाबलः।
गजानीकेन भीमस्य ताववारयतां दिशः ।।

भूरिश्रवाः शलश्चैव सौबलश्च विशांपते ।
शरौघैर्विमलैस्तीक्ष्णैर्माद्रीपुत्राववारयन् ।।

भीष्मस्तु संहतः सङ्ख्ये धार्तराष्ट्रैः ससैनिकैः ।
युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ।।

आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः।
लोलिहन्सृक्किणी वीरो मृगराडिव कानने ।।

भीमस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे ।
अवप्लुत्य रथात्तूर्णं तव सैन्यान्यभीषयत् ।।

तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः ।
परिवव्रू रणे यत्ता भीमसेनं समन्ततः ।।

गजमध्यमनुप्राप्तः पाण्डवः स व्यराजत।
मेघजालस्य महतो यथा मध्यगतो रविः ।।

व्यधमत्स गजानीकं गदया पाण्डवर्षभः ।
महाभ्रजालमतुलं मातरिश्वेव सन्ततम् ।।

ते वध्यमाना बलिना भीमसेनेन दन्तिनः ।
आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ।।

बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः ।
फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ।।

`सादिनां शस्त्रवृष्टिं च व्यधमद्गदया ततः।'
वायुवेगसमायुक्तो व्यचरत्पाण्डवो युधि ।।

विषाणोल्लिखितैर्गात्रौर्विषाणाभिहतो भृशम्।
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् ।।

विषाणेन च तेनैव कुम्भोऽभ्याहत्य दन्तिनम् ।
पातयामास समरे दण्डहस्त इवान्तकः ।।

शोणिताक्तां गदां बिभ्रन्मेदोभञ्जाकृतच्छविः ।
कृताभ्यङ्गः शोणितेन रुद्रवत्प्रत्यदृश्यत ।।

एवं के वध्यमानाश्च हतशेषा महागजाः ।
प्राद्रवन्त दिशो राजन्विमृद्गन्तः स्वकं बलम् ।।

द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्भुखम् ।।

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
नवमदिवसयुद्धे द्व्यधिकशततमोऽध्यायः ।।