आश्वमेधिकपर्व
अध्यायः ७५
वैशम्पायन उवाच।
प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः।
भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः।।
सहयं पाण्डुपुत्रं तु विषयान्तमुपागतम्।
युयुधे भरतश्रेष्ठ यज्ञदत्तो महीपतिः।।
सोभिनिर्याय नगराद्भगदत्तसुतो नृपः।
अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ।।
तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा।
गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत्।।
ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः।
हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत्।।
पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः।
आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया।।
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि।
दोधूयता चामरेण श्वेतेन च महारथः।।
ततः पार्थं समासाद्य पाण्डवानां महारथम्।
आह्वयामास बीभत्सुं बाल्यान्मोहाच्च संयुगे।।
स वारणं नगप्रख्यं प्रभिन्नकरटामुखम्।
प्रेषयामास संक्रुद्धः श्वेताश्वं प्रति पार्थिवः।।
विक्षरन्तं महामेघं परवारणवारणम्।
शस्त्रवत्कल्पितं सङ्ख्ये विवशं युद्धदुर्मदम्।।
प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः।
तदाऽङ्कशेन विबभावुत्पतिष्यन्निवाम्बरम्।।
तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन्धनंजयः।
भूमिष्ठो वारणगतं योधयामास भारत।।
यज्ञदत्तस्ततः क्रुद्धो मुमोचाशु धनंजये।
तोमरानग्निसङ्काशाञ्शलभानिव वेगितान्।।
अर्जुनस्तानसम्प्राप्तान्गाण्डीवप्रभवैः शरैः।
द्विधा त्रिधा च चिच्छेद खगमान्खगमैस्तदा।।
स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः।
इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति।।
ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान्।
प्रेषयामास संक्रुद्धो भगदत्तात्मजं प्रति।।
स तैर्विद्धो महातेजा यज्ञदत्तो महामृधे।
भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः।।
ततः स पुनरारुह्य वारणप्रवरं रणे।
अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति।।
तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान्।
प्रेषयामास संक्रुद्धो ज्वलितज्वलनोपमान्।।
स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ।
हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि पञ्चसप्ततितमोऽध्यायः।। 75 ।।