आश्वमेधिकपर्व

अध्यायः ७४

Aswamedhika Parva (Sanskrit) · Adhyaya 74
अक्षर का आकार

वैशम्पायन उवाच।

त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः।
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः।।

ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तम*****
विषयान्तं ततो वीरा दंशिताः पर्यवारयन्।।

रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः।
परिवार्य हयं राजन्ग्रहीतुं सम्प्रचक्रमुः।।

ततः किरीटी सञ्चिन्त्य तेषां तत्र चिकीर्षितम्।
वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः।।

तदनादृत्य ते सर्वे शरैरभ्यहनंस्तदा।
तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत्।।

तानव्रवीत्ततो जिष्णुः प्रहसन्निव भारत।
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव च।।

स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः।
हतबान्धवा न ते पार्त हन्तव्याः पार्थिवा इति।।

स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः।
तान्निवर्तध्वमित्याह न न्यवर्तन्ति चापि ते।।

ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे।
विनद्य शरजालेनि प्रजहास धनंजयः।।

ततस्ते रथघोपेण रथनेमिस्वनेन च।
पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन्।।

सूर्यवर्मा ततः पार्ते शराणां नतपर्वणाम्।
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन्।।

तथैवान्ये महेष्वासा ये च तस्यानुयायिनः।
मुमुचुः शरवर्षाणि धनंजयवधैषिणः।।

स ताञ्ज्यामुखनिर्मुक्तैर्बहुभिः सुबहूञ्शरान्।
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा।।

केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा।
युयुधे भ्रातुरर्थाय पाण्डवेन यशस्विना।।

तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे।
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा।।

केतुवर्मण्यभिहते धृतवर्मा महारथः।
रथेनाशु समुत्पत्य शरैर्जिष्णुमवाकिरत्।।

तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान्।
गुडाकेशो महादेजा बालस्य धृतवर्मणः।।

न संदधानं ददृशे नाददानं च तं तदा।
किरन्तमेवं स शरान्ददृशे पाकशासनिः।।

स तु तं पूजयामास धृतवर्माणमाहवे।
मनसा तु मुहूर्तं वै रणे समभिहर्षयन्।।

`न विव्याध रणे क्रुद्धः कुन्तीपुत्रो हसन्निव।
सौभद्रस्येव तत्कर्म दृष्ट्वा बालस्य विस्मितः।।

तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव।
प्रीतिपूर्वं महाबाहुः प्राणैर्न व्यपरोपयत्।।

स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा।
धृतवर्मा शरं दीप्तं मुमोच विजये तदा।।

स तेन विजयस्तूर्णमासीद्विद्धः करे भृशम्।
मुमोच गाण्डिवं मोहात्तत्पपाताथ भूतले।।

धनुषः पततस्तस्य सव्यसाचिकराद्विभो।
बभूव सदृशं रूपं शक्रचापस्य भारत।।

तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिवः।
चकार सस्वनं हासं धृतवर्मा महाहवे।।

ततो रोषार्दितो जिष्णुः प्रमृज्य रुधिरं करात्।
धनुरादत्त तद्दिव्यं शरवर्षैर्ववर्ष च।।

ततो हलहलाशब्दो दिवस्पृगभवत्तदा।
नानाविधानां भूतानां तत्कर्माणि प्रशंसताम्।।

ततः सम्प्रेक्ष्य संक्रुद्धं कालान्तकयमोपमम्।
जिष्णुं त्रैगर्तका योधाः परीताः पर्यवारयन्।।

अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः।
परिवव्रुर्गुडाकेशं तत्राक्रुद्ध्यद्धनंजयः।।

ततो योधाञ्जघानाशु तेषां स दश चाष्ट च।
महेन्द्रवज्रप्रतिमैरायसैर्बहुभिः शरैः।।

तान्सम्प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनंजयः।
शरैराशीविषाकारैर्जघान स्वनवद्धसन्।।

ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः।
दिशोऽभिदुद्रुवू राजन्धनंजयशरार्दिताः।।

`हतावशिष्टा हि पराः पार्थं दृष्टपराक्रमाः।'
तमूचुः पुरुषव्याघ्रं संशप्तकनिषूदनम्।।

तवास्म किंकराः सर्वे सर्वे वै वशगास्तव।
आज्ञापयस्वः नः पार्थ प्रह्वान्प्रेष्यानवस्थितान्।
करिष्यामः प्रियं सर्वं तव कौरवनन्दन।।

एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा।
जीवितं रक्षत नृपाः शासनं प्रतिगृह्यताम्।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि चतुःसप्ततितमोऽध्यायः।। 74 ।।