आश्वमेधिकपर्व

अध्यायः ७१

Aswamedhika Parva (Sanskrit) · Adhyaya 71
अक्षर का आकार

वैशम्पायन उवाच।

तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः।
वासुदेवः सहामात्यः प्रययौ ससुहृद्गणः।
ते समेत्य यथान्यायं प्रत्युद्याता दिदृक्षया।।

ते समेत्य तथाधर्मं पाण्डवा वृष्णिभिः सह।
विविशुः सहिता राजन्पुरं वारणसाह्वयम्।।

विशतस्तस्य सैन्यस्य खुरनेमिस्वनेन ह।
द्यावापृथिव्यौ खं चैव सर्वमासीत्समावृतम्।।

ते कोशानग्रतः कृत्वा विविशुः स्वं पुरं तदा।
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः।।

ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम्।
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे।।

धृतराष्ट्राभ्यनुज्ञाता गान्धारीं सुबलात्मजाम्।
कुन्तीं च राजशार्दूल तदा भरतसत्तम।।

विदुरं यूजयित्वा च वैश्यापुत्रं समेत्य च।
पूज्यमानाः स्म ते वीरा व्यरोचन्त विशाम्पते।।

ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम्।
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत।।

तदुपश्रुत्य तत्कर्म वासुदेवस्य धीमतः।
पूजार्हं पूजयामासुः कृष्णं देवकीनन्दनम्।।

ततः कतिपयाहस्य व्यासः सत्यवतीसुतः।
आजगाम महातेजा नगरं नागसाह्वयम्।।

तस्य सर्वे यथान्यायं पूजा चक्रुः कुरूद्वहाः।
सह वृष्ण्यन्धकव्याघ्रैरुपासांचक्रिरे तदा।।

तत्र नानाविधाकाराः कथाः समभिकीर्त्य वै।
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत्।।

भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम्।
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ।।

तमनुज्ञातुमिच्छामि भवता मुनिसत्तम।
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः।।

व्यास उवाच।

अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम्।
यजस्व वाजिमेधेन विधिवद्दक्षिणावता।।

अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम्।
तेनेष्ट्वा त्वं विपात्मा वै भविता नात्र संशयः।।

इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः।
अश्वमेधस्य कौरव्य चकाराहरणे मतिम्।।

समनुज्ञाप्य तत्सर्वं कृष्मद्वैपायनं नृपः।
वासुदेवमथाभ्येत्य वाग्मी वचनमब्रवीत्।।

देवकी सुप्रजा देवी त्वया पुरुषसत्तम।
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत।।

त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन।
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही।।

दीक्षयस्व त्वमात्मानं त्वं हि नः परमो गुरुः।
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्।।

त्वं हि यज्ञो गुरुश्च त्वं धर्मज्ञस्त्वं प्रजापतिः।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः।।

वासुदेव उवाच।

त्वमेवैतन्महाबाहो कर्तुमर्हस्यरिंदम।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः।।

त्वं चाद्यि कुरुवीराणां धर्मेण हि विराजसे।
गुणीभूताः स्म ते राजंस्त्वं नो राजन्गुरुर्मतः।
यजस्व मदनुज्ञातः प्राप्य एष क्रतुस्त्वया।।

युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत।
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ।।

भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ।
इष्टवन्तो भविष्यन्ति त्वयीष्टवति पार्थिवे।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि एकसप्ततितमोऽध्यायः।। 71 ।।