आश्वमेधिकपर्व
अध्यायः ७०
वैशम्पायन उवाच।
ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम्।
तदा तद्वेश्म ते पित्रा तेजसाऽभिविदीपितम्।।
ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत्।
अन्तरिक्षे च वागासीत्साधु केशव साध्विति।।
तदस्त्रं ज्वलितं चापि पितामहमगात्तदा।
ततः प्राणान्पुनर्लेभे पिता तव नरेश्वर।।
व्यचेष्टत च बालोसौ यथोत्साहं यताबलम्।
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः।।
ब्राह्मणा वाचयामासुर्गोविन्दस्यैव शासनात्।
ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम्।।
स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः।
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा।
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः।।
तत्र मल्ला नटाश्चैव ग्रन्थिकाः सौख्यशायिकाः।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तं जनार्दनम्।।
कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ।
`सभाजयत संहृष्टो महाराज महाजनः।।'
उत्थाय तु यथाकालमुत्तरा यदुनन्दनम्।
अभ्यवादयत प्रीता सह पुत्रेण भारत।।
ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः।
तथैव वृष्णिशार्दूलो नाम चास्याकरोत्प्रभुः।
पितुस्तव महाराज सत्यसन्धो जनार्दनः।।
परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः।
परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा।।
सोऽवर्धत यथाकालं पिता तव जनाधिप।
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत।।
मासजातस्तु ते वीर पिता भवति भारत।
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः।।
`मेरुकूटनिभान्भाण्डान्कलशान्भाजनानि च।
कृताकृतं महद्भीममादाय पुरुषोत्तमाः।।
भारतैर्वाहनैस्तत्र गोरुते गोरुते पथि।
निवसन्तो ययुर्देवं स्मरन्तः परमेष्ठिनः।।
नासीत्तत्र नृपः कश्चिदभारार्तो नृपं विना।
भीमादयोऽपि यज्ञार्थं वहन्ते किं पुनर्जनाः।।'
तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः।
अलञ्चक्रुश्च माल्यौघैर्नगरं नागसाह्वयम्।।
पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि।
वेश्मानि समलञ्चक्रुः पौराश्चापि जनेश्वरः।।
देवतायतनानां च पूजाः सुविविधास्तथा।
संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया।।
राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः।
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम्।।
नर्तकैश्चापि नृत्यद्भिर्गायकानां च निःस्वनैः।
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा।।
बन्दिभिश्च नरै राजन्स्त्रीसहायैश्च सर्वशः।
तत्रतत्र विविक्तेषु समन्तादुपशोभितम्।।
पताका धूयमानाश्च समन्तान्मातरिश्वना।
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान्।।
अघोषयंस्तदा चाप पुरुषा राजमार्गतः।
सर्वरात्रविहारोऽद्य रत्नाभरणलक्षणः।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्ततितमोऽध्यायः।। 70 ।।