आश्वमेधिकपर्व

अध्यायः ४

Aswamedhika Parva (Sanskrit) · Adhyaya 4
अक्षर का आकार

युधिष्ठिर उवाच।

शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम्।
द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ।।

व्यास उवाच।

आसीत्कृतयुगे तात मनुर्दण्डिधरः प्रभुः।
तस्य पुत्रो महोष्वासः प्रजातिरभवन्नृपः।।

प्रजातेरभवत्पुत्रः क्षुत इत्यभिविश्रुतः।
क्षुतस्य पुत्र इक्ष्वाकुर्महीपालोऽभवत्प्रभुः।।

तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम्।
तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः।।

तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम्।
विंशस्य पुत्रः कल्याणो विविंशो नाम भारत।।

विविंशस्य सुता राजन्बभूवुर्दश पञ्च च।
सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः।।

दानधर्मरताः शान्ताः सततं प्रियवादिनः।
तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत्।।

खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम्।
नाशकद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः।।

तमपास्य च तद्राज्ये तस्य पुत्रं सुवर्चसम्।
अभ्यषिञ्चन्त राजेन्द्र मुदिता ह्यभवंस्तदा।।

स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं च तत्।
नियतो वर्तयामास प्रजाहितचिकीर्षया।।

ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः।
प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम्।।

तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम्।
तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन्।।

स पीड्यमानो बहुभिः क्षीणकोशाश्ववाहनः।
आर्तिमार्च्छत्परां राजा सह भृत्यैः पुरेण च।।

न चैनमभिहन्तुं ते शक्नुवन्ति बलक्षये।
सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर।।

यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः।
ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम्।।

ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान्।
एतस्मात्कारणाद्राजन्विश्रुतः स करंधमः।।

आवीक्षित्तस्य पुत्रोऽभूत्त्रेतायुगमुखे पुरा।
इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः।।

`कारंधम इति ख्यातो बभूव जगतीपतिः।'
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा।
स हि सम्राडभूत्तेषां वृत्तेन च बलेन च।।

अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत्।
यज्ञशीलो धर्मरतिर्धृतिमान्संयतेन्द्रियः।।

तेजसाऽऽदित्यसदृशः क्षमया पृथिवीसमः।
बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः।।

कर्मणा मनसा वाचा दमेन प्रशमेन च।
मनांस्याराधयामास प्रजानां स महीपतिः।।

य ईजे हयमेधानां शतेन विधिवत्प्रभुः।
याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः।।

तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया।
मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः।
नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः।।

स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत।
कारयामास शुभ्राणि भाजनानि सहस्रशः।।

मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे।
काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः।।

ततः कुण्डानि पात्रीश्च पिठराण्यासंनानि च।
चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते।।

तस्यैव च समीपे तु यज्ञवाटो बभूव ह।
ईजे तत्र स धर्मात्मा विदिवत्पृथिवीपतिः।
मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अश्वमेधपर्वणि चतुर्थाऽध्यायः।। 4 ।।