आश्वमेधिकपर्व
अध्यायः ३
व्यास उवाच।
युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः।
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाम्।।
ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः।
करोत्यसुकरं कर्म तत्रका परिदेवना।।
आत्मानं मन्यसे चाथ पापकर्माणमन्ततः।
शृणु तत्र यथा पापमपकृत्येत भारत।।
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर।
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते।।
यज्ञेन तपसा चैव दानेन च नराधिप।
पूयन्ते नरशार्दूल नरा दुष्कृतकारिणः।।
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम्।
प्रवर्तन्ते महात्मानस्तस्माद्यज्ञः परायणम्।।
यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः।
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन्।।
राजसूयाश्वमेधौ च सर्वमेधं च भारत।
नरमेधं च नृपते त्वमाहर युधिष्ठिर।।
यजस्व वाजिमेधेन विधिवद्दक्षिणावता।
बहुकामान्नवित्तेन रामो दाशरथिर्यथा।।
यथा च भरतो राजा दौष्यन्तिः पृथिवीपतिः।
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः।।
युधिष्ठिर उवाच।
असंशयं वाजिमेधः पारयेत्पृथिवीमपि।
अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि।।
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम।
`अहमाराधयिष्यामि कथं शोकपरायणः।'
दानमल्पं न शक्नोमि दातुं वित्तं च नास्ति मे।।
न तु बालानिमान्दीनानुत्सहे वसु याचितुम्।
तथैवाद्रविणान्कृच्छ्रे वर्तमानान्नृपात्मजान्।।
स्वयं विनाश्य पृथिवीं यज्ञार्थं द्विजसत्तम।
करमाहारयिष्यामि कथं शोकपरायणः।।
दुर्योधनापराधेनि वसुधायां नराधिपाः।
प्रनष्टा योजयित्वाऽस्मानकीर्त्या मुनिसत्तम।।
दुर्योधनेन पृथिवी क्षपिता जयकारणात्।
कोशश्चापि विशीर्णोसौ धार्तराष्ट्रस्य दुर्मतेः।।
पृथिवी दक्षिणा चात्र वाजिमेधे महाक्रतौ।
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः।।
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन।
अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि।।
एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा।
मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत्।।
कोशश्चापि विशीर्णोऽयं परिपूर्णो भविष्यति।
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम्।।
उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपते।
तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति।।
युधिष्ठिर उवाच।
कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम्।
कस्मिंश्च काले स नृपो बभूव ददतांवर।।
व्यास उवाच।
यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम्।
यस्मिन्काले महावीर्यः स राजाऽऽसीन्महाधनः।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अश्वमेधपर्वणि तृतीयोऽध्यायः।। 3 ।।