आश्वमेधिकपर्व
अध्यायः ११६
युधिष्ठिर उवाच।
कीदृशा ब्राह्मणाः पुण्या भावशुद्धाः सुरेश्वर।
यत्कर्म सफलं नेति कथयस्य ममानघ।।
भगवानुवाच।
शृणु पाण्डव तत्सर्वं ब्राह्मणानां यथाक्रमम्।
सफलं निष्फलं चैव तेषां कर्म ब्रवीमि ते।।
त्रिदण्डधारणं मौनं जटाधारणमुण्डनम्।
वल्कलाजिनसंवासो व्रतचर्याऽभिषेचनम्।।
अग्निहोत्रं गृहे वासः स्वाध्यायं दारसत्क्रिया।
सर्वाण्येतानि वै मिथ्या यदि भावो न निर्मलः।।
अग्निहोत्रं वृथा राजन्वृथा वेदास्तथैव च।
शीलेन देवास्तुष्यन्ति श्रुतयस्तत्र कारणम्।।
क्षान्तः दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम्।
तमग्र्यं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः।।
अग्निहोत्रव्रतपरान्स्वाध्यायनिरताञ्शुचीन्।
उपवासरतान्दान्तांस्तादेवा ब्राह्मणान्विदुः।।
न जात्या पुजीतो राजन्गुणाः कल्याणकारणाः।
चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः।।
मनश्शौचं कर्मशौचं कुलशौचं च भारत।
शरीरशौचं वाक्छौचं शौचं पञ्चविधं स्मृतम्।।
पञ्चस्वेतेषु शौचेषु हृदिं शौचं विशिष्यते।
हृदयस्य च शौचेन स्वर्गं गच्छन्ति मानवाः।।
अग्निहोत्रपरिभ्रष्टः प्रसक्तः क्रयविक्रयैः।
वर्णसङ्करकर्ता च ब्राह्मणो वृषलैः समः।।
यस्य वेदश्रुतिर्नष्टा कर्षकश्चापि यो द्विजः।
विकर्मसेवी कौन्तेय स वै वृषल उच्यते।।
वृषो हि धर्मो विज्ञेयस्तस्य यः कुरुते लयम्।
वृषलं तं विदुर्देवा निकृष्टं श्वपचादपि।।
स्तुतिभिर्ब्रह्मगीताभिर्यः शूद्रं स्तौति मानवः।
न तु मां स्तौति पापात्मा स तु चण्डालतः समः।।
श्वदृतौ तु यथा क्षीरं ब्रह्म वै वृषले तथा।
दुष्टतामेति तत्सर्वं शुना लीढं हविर्यथा।।
अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः।
धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश।।
यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत।
उत्पन्नानि पवित्राणि भुवनार्थं तथैव च।।
तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि युधिष्ठिर।
सर्वं त्रीण्यपवित्राणि पञ्चामेध्यानि भारत।
श्वा च शूद्रः श्वपाकश्च अपवित्राणि पाण्डव।।
गायकः कुक्कुटो यूपो ह्युदक्या वृषलीपतिः।
प?ञ्चैते स्युरमेध्याश्च स्प्रष्टव्या न कदातन।
स्पृष्ट्वैतानष्ट वै विप्रः सचेलो जलमाविशेत्।।
मद्भक्ताञ्शूद्रसामान्यादवमन्यन्ति ये नराः।
नरकेष्वेव तिष्ठन्ति वर्षकोटिं नराधमाः।।
चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान्।
अवमानात्पतन्त्येव नरके रौरवे नराः।।
मम भक्तस्य भक्तेषु प्रीतिरभ्यधिका मम।
तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः।।
कीटपक्षिमृगाणां च मयि संन्यस्तचेतसाम्।
ऊर्ध्वामेव गतिं विद्धि किं पुनर्ज्ञानिनां नृणाम्।।
पत्रं वाऽप्यथवा पुष्पंक फलं वाऽप्यप एव वा।
ददाति मम शूद्रो यच्छिरसा धारयामि तत्।।
विप्रानेवार्चयेद्भक्त्या शूद्रप्रायांश्च मत्प्रियान्।
तेषां तेनैव रूपेण पूजां गृह्णामि भारत।।
वेदोत्तेनैव मार्गेण सर्वभूतहृदि स्थितम्।
मामर्चयन्ति ये पिप्रा मत्सायुज्यं व्रजन्ति ते।।
मद्भक्तानां हितायैव प्रादुर्भावः कृतो मया।
प्रदुर्भावकृता काचिदर्चनीया युधिष्ठिर।।
आसामन्यतमां मूर्तिं यो मद्भक्त्या समर्चति।
तेनैव परितुष्टोऽहं भविष्यामि न संशयः।।
मृदा च मणिरत्नैश्च ताम्रेण रजतेन च।
कृत्वा प्रतिकृतिं कुर्यादर्चनां काञ्चनेन वा।
पुण्यं दशगुणं विद्यादेतेषामुत्तरोत्तरम्।।
जपकामो भवेद्राजा विद्याकामो द्विजोत्तमः।
वैश्यो वा धनकामस्तु शूद्रः सुखफलप्रियः।
सर्वकामाः स्त्रियो वाऽपि सर्वान्कामानवाप्नुयुः।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि षोडशाधिकशततमोऽध्यायः।। 116