आश्वमेधिकपर्व
अध्यायः ११५
वैशम्पायन उवाच।
केशवेनैवमाख्याते धर्मपुत्रः पुनःपुनः।
पप्रच्छ दानकालस्य विशेषं च विधिं नृप।।
युधिष्ठिर उवाच।
देव किं फलमाख्यातं विषुवेष्मवरेश्वर।
सूर्येन्दूपप्लवे चैव वस्तुमर्हति तत्फलम्।।
भगवानुवाच।
शृणुष्व राजन्विषुवे सोमार्कग्रहणेषु च।
व्यतीपातेऽयने चैव दानं स्यादक्षयं फलम्।।
राजन्नयनयोर्मध्ये विषुवं सम्प्रचक्षते।
समे रात्रिदिने तत्र सन्ध्यायां विषुवे नृप।।
ब्रह्माऽहं शङ्करश्चापि तिष्ठामः सहिताः सकृत्।
क्रियाकरणकार्याणामेकीभावत्वकारणात्।।
अस्माकमेकीभूतानां निष्कलं परमं पदम्।
तन्मुहूर्तं परं पुण्यं राजन्विषुवसंज्ञितम्।।
तदेवाद्यक्षरं ब्रह्म परं ब्रह्मेति कीर्तितम्।
तस्मिन्मुहूर्ते सर्वे तु चिन्तयन्ति परं पदम्।।
देवाश्च वसवो रुद्राः पितरश्चाश्विनौ तथा।
साध्याश्च विश्वे गन्धर्वाः सिद्धा ब्रह्मर्षयस्तथा।।
सोमादयो ग्रहाश्चैव सरितः सागरास्तथा।
मरुतोत्सरसो नागा यक्षराक्षसगुह्यकाः।।
एते चान्ये च राजेन्द्र विषुवे संयतेन्द्रियाः।
सोपवासाः प्रयत्नेन भवन्ति ध्यानतत्पराः।।
अन्नं गावस्तिलान्भूमिं कन्यादानं तथैव च।
गृहमायतनं धान्यं वाहनं शयनं तथा।
यच्चान्यच्च मया प्रोक्तं तत्प्रयच्छ युधिष्ठिर।
दीयते विषुवेष्वेवं श्रोत्रियेभ्यो विशेषतः।।
तस्य दानस्य कौन्तेय क्षयं नैवोपपद्यते।
वर्धतेऽहरहः पुण्यं तद्दानं कोटिसंमितम्।।
विषुवे स्नपनं यस्तु मम कुर्याद्धरस्य वा।
अर्चनां च यतान्यायं तस्य पुण्यफलं शृणु।।
दशजन्मकृतं पापं तस्य सद्यो विनश्यति।
दशानामश्वमेधानामिष्टानां लभते फलम्।।
विमानं दिव्यमारूढः कामरूपी यथासुखम्।
स याति मामकं लोकं रुद्रलोकमथापि वा।।
तत्रस्थैर्देवगन्धर्वेर्गीयमानो यथासुखम्।
दिव्यवर्षसहस्राणि कोटिमेकं तु मोदते।।
ततश्चापि च्युतः कालादिह लोके द्विजोत्तमः।
चतुर्णामपि वेदानां पारगो ब्रह्मिविद्भवेत्।।
चन्द्रसूर्यग्रहे व्योम्नि मम वा शङ्करस्य वा।
गायत्रीं मामिकां वाऽपि जपेद्यः शङ्करस्य वा।।
शङ्खर्तूर्यस्वनैश्चैव कांस्यघण्टास्वनैरपि।
कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु।।
गान्धर्वैर्होमजप्यैश्च जप्तैरुत्कृष्टनामभिः।
दुर्बलोपि भवेद्राहुः सोमश्च बलवान्भवेत्।।
सूर्येन्दूपप्लवे चैव श्रोत्रियेभ्यः प्रदीयते।
तत्सहस्रगुणं भूत्वा दांतारमुपतिष्ठति।।
महापातकयुक्तोपि यद्यपि स्यान्नरोत्तम।
निष्पापस्तत्क्षणादेव तेन दानेन जायते।।
चन्द्रसूर्यप्रकाशेन विमानेन विराजता।
याति सोमपुरं रम्यं सेव्यमानोप्सरोगणैः।।
यावदृक्षाणि तिष्ठन्ति गगने शशिना सह।
तावत्कालं स रजेन्द्र सोमलोके महीयते।।
ततश्चापि च्युतः कालादिह लोके युधिष्ठिर।
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत्।।
युधिष्ठिर उवाच।
भगवंस्तव गायत्री जप्यते च कथं विभो।
किं वा तस्य फळं देव ममाचक्ष्व सुरेश्वर।।
भगवानुवाच।
द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा।
अयने श्रवणे चैव व्यतीपाते तथैव च।।
अश्वत्तदर्शने चैव तथा मद्दर्शनेऽपि च।
जप्या तु मम गायत्री चाथवाऽष्टाक्षरं नृप।
आर्जितं दुष्कृतं तस्य नाशयेन्नात्र संशयः।।
युधिष्ठिर उवाच।
अश्वत्थदर्शनं चैव किं त्वद्दर्शनसंमितम्।
एतत्कथय मे देव परं कौतूहलं हि मे।।
भगवानुवाच।
अहमश्वत्थरूपेण पालयामि जगत्त्रयम्।
अस्वत्थो न स्थितो यत्र नाहं तत्र प्रतिष्ठितः।।
यत्राहं संस्थितो राजन्नस्वत्थश्चापि तिष्ठति।
यस्त्वेनमर्चयेद्भक्त्या स मां साक्षात्समर्चति।।
यस्त्वेनं प्रहरेत्कोपान्मामेव प्रहरेत्तु सः।
तस्मात्प्रदक्षिणं कुर्यान्न चिन्द्यादेनमन्वहम्।।
व्रतस्य पारणं तीर्थमार्जवं तीर्थमुच्यते।
देवशुश्रूषणं तीर्तचं गुरुशुश्रूषणं तथा।।
पितृशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा।
दाराणां तोषणं तीर्तं गार्हस्थ्यं तीर्थमुच्यते।।
आतिथेयः परं तीर्थं ब्रह्मतीर्थं सनातनम्।
ब्रह्मिचर्यं परं तीर्तं त्रेताग्निस्तीर्थमुच्यते।।
मूलं धर्मं तु विज्ञाय मनस्तत्रावधार्यताम्।।
गच्छ तीर्थानि कौन्तेय धर्मो धर्मेण वर्धते।।
द्विविधं तीर्थमित्याहुः स्थावरं जङ्गमं तथा।
स्तावराज्जङ्गमं तीर्थं ततो ज्ञानपरिग्रहः।।
कर्म्णाऽपि विशुद्धस्य पुरुषस्येह भारत।
हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते।।
गुरुतीर्थं परं ज्ञानमतस्तीर्तं न विद्यते।
ज्ञानतीर्तं परं तीर्तं ब्रह्मतीर्तं सनातनम्।।
क्षमा तु परमं तीर्तं सर्वतीर्थेषु पाण्डव।
क्षमावतामयं लोकः परश्चैव क्षमावताम्।।
मानितोऽमानितो वाऽपि पूजितोऽपूजितोपि वा।
आक्रुष्टस्तर्जितो वाऽपि क्षमावांस्तीर्थमुच्यते।।
क्षमा यशः क्षमा दानं क्षमा यज्ञः क्षमा दमः।
क्षमाऽहिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः।।
क्षमा दया क्षमा यज्ञः क्षमयैव धृतं जगत्।
क्षमावान्ब्राह्मणो देवः क्षमावान्ब्राह्मणो वरः।।
क्षमावानाप्नुयात्स्वर्गं क्षमावानाप्नुयाद्यशः।
क्षमावान्प्राप्नुयान्मोक्षं तस्मात्साद्युः स उच्यते।।
आत्मा नदी भारतपुण्यतीर्थ-
मात्मा तीर्थं सर्वतीर्थप्रधानम्।
आत्मा यज्ञः सततं मन्यते वै
स्वर्गो मोक्षः सर्वमात्मन्यधीनम्।।
आचारनैर्मल्यमुपागतेन
सत्यक्षमानिस्तुलशीतलेन।
ज्ञानांबुना स्नाति हि नित्यमेवं
किं तस्य भूयः सलिलेन तीर्थम्।।
युधिष्ठिर उवाच।
भगवन्सर्वपापघ्नं प्रायश्चित्तमदुष्करम्।
त्वद्भक्तस्य सुरश्रेष्ठ मम त्वं वक्तुमर्हसि।।
भगवानुवाच।
रहलस्यमिदमत्यर्थमश्राव्यं पापकर्मणाम्।
अधार्मिकाणामश्राव्यं प्रायश्चित्तं ब्रवीमि ते।।
पावनं ब्राह्ममं दृष्ट्वा मद्गतेनान्तरात्मना।
नमो ब्रह्मण्यदेवायेत्यभिवादनमाचरेत्।।
प्रदक्षिणं च यः कुर्यात्पुनरष्टाक्षरेण तु।
तेन तुष्टेन विप्रेणि तत्पापं क्षपयाम्यहम्।।
पोत्रकृष्टां वराहस्य मृत्तिकां शिरसा वहन्।
प्राणायामशतं कृत्वा नरः पापैः प्रमुच्यते।।
दक्षिणावर्तशङ्खाद्वा कपिलाशृङ्गतोपि वा।
प्राक्स्रोतसं नदीं गत्वा ममायतनसंनिधौ।।
सलिलेन तु यः स्नायात्सकृदेव रविग्रहे।
तस्य यत्संचितं पापं तत्क्षणादेव नश्यति।।
मस्तकान्निस्सृतैस्तोयैः कपिलाया युधिष्ठिर।
गोमूत्रेणापि यः स्नायाद्रोहिण्यां मम वा दिने।
विप्रपादच्युतैर्वाऽपि तोयैः पापं प्रणश्यति।।
नमस्येद्यस्तु मद्भक्त्या शिंशुमारं प्रजापतिम्।
चतुर्दशाङ्गसंयुक्तं तस्य पापं प्रणस्यति।।
ततश्चतुर्दशाङ्गानि शृणु तस्य युधिष्ठिर।
शिरो धर्मो हनुर्ब्रह्मा वृषावुत्तरदक्षिणौ।।
हृदयं तु भवेद्विष्णुरंसौ स्यातां तथाऽश्विनौ।
अत्रिर्मध्यं भवेद्राजँल्लिङ्गं संवत्सरं भवेत्।।
मित्रावरुणकौ पादावूरुद्वन्द्वं हुताशनः।
ततः पश्चाद्भवेदिन्द्रस्ततः पश्चात्प्रजापतिः।।
अभयं च ततः पश्चात्स एव ध्रुवसंज्ञिकः।
एतान्यङ्गानि सर्वाणि शिंशुमारप्रजापतेः।।
विबेत्तु पञ्चगव्यं यः पौर्णमास्यामुपोष्य तु।
तस्य नश्यति यत्पापं तत्पापं पूर्वसंचितम्।।
तथैव ब्रह्मकूर्च तु समन्त्रं तु पृथक्पृथक्।
मासिमासि विबेद्यस्तु तस्य पापं प्रणश्यति।।
पात्रं च ब्रह्मकूर्चं च शृणु तत्र च भारत।
पालाशं पद्मपत्रं च ताम्रं वाऽथ हिरण्ययम्।
सादयित्वा तु गृह्णीयात्तत्तु पात्रमुदाहृतम्।।
गायत्र्या गृह्णते मूत्रं गन्धद्वारेति गोमयम्।
आप्यायस्वेति च क्षीरं दधिक्राण्वेति वै दधि।।
तेजोसिशुक्लमित्याज्यं देवस्यत्वेति कुशोदकम्।
आपोहिष्ठेत्यृचा गृह्यि यवचूर्णं यथाविधि।।
ब्रह्मणे च यथा हुत्वा समिद्धे च हुताशने।
आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु।।
उद्धृत्य प्रणवेनैव पिबेतु प्रणवेन तु।
महताऽपि स पापेन त्वचेवाहिर्विमुच्यते।।
भद्रं न हति यः पादं पठन्नृक्सहितां तदा।
अन्तर्जले वाऽभ्यादित्ये तस्य पापं प्रणश्यति।।
मम सूक्तं जपेद्यस्तु नित्यं मद्गतमानसः।
न पापेन स लिप्येत पद्मपत्रमिवांभसा।।
।। इति श्रीमन्महाभारते आश्वमेधिकप्रर्वणि
वैष्णवधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः।।