आश्रमवासिकपर्व
अध्यायः १८
कुन्त्युवाच।
एवमेतन्महाबाहो यथा वदसि पाण्डवः।
कृतमुद्धरणं पूर्वं मया वः सीदतां नृपाः।।
द्यूतापहृतराज्यानां पतितानां सुखादपि।
ज्ञातिभिः परिभूतानां कृतमुद्धरणं मया।।
कथं पाण्डोर्न नश्येत संततिः पुरुषर्षभाः।
यशश्च वो न नश्येत इति चोद्धरणं कृतम्।।
यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः।
मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया।।
कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः।
पुनर्वने न दुःखी स्या इति चोद्धरणं कृतम्।।
नागायुतसमप्राणः ख्यातविक्रमपौरुषः।
नायं भीमोत्ययं गच्छेदिति चोद्धरणं कृतम्।।
भीमसेनादवरजस्तथाऽयं वासवोपमः।
विजयो नावसीदेत इति चोद्धरणं कृतम्।।
नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ।
क्षुधा कथं न सीदेतामिति चोद्धरणं कृतम्।।
इयं च बृहती श्यामा तथाऽत्यायतलोचना।
वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतं।।
अपेक्षतामेव वो भीम वेपन्तीं कदलीमिव।
स्त्रीधर्मिणीमरिष्टाङ्गीं तथा द्यूतपराजिताम्।।
दुःशासनो यदा मौर्ख्याद्दासीवत्पर्यकर्षत।
तदैव विदितं मह्यं पराभूतमिदं कुलम्।।
निषण्णाः कुरवश्चैव तदा मे श्वशुरादयः।
सा दैवं नाथमिच्छन्ती व्यलपत्कुररी यथा।।
केशपक्षे परामृष्टा पापेन् हतबुद्धिना।
यदा दुःशासनेनैषा तदा मुह्याम्यहं नृपाः।।
युष्मत्तेजोविवृद्ध्यर्तं मया ह्युद्धरणं कृतम्।
तदानीं विदुलावाक्यैरिति तद्वित्त पुत्रकाः।।
कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम।
पाण्डोरिति मया पुत्रस्तस्मादुद्धरणं कृतम्।।
न तस्य पुत्राः पौत्रा वा क्षतवंशस्य पार्थिव।
लभ्ते सुकृताँल्लोकान्यस्माद्वंशः प्रणश्यति।।
भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा।
महादानानि दत्तानि पीतः सोमो यथाविधि।।
नाहमात्मफलार्थं वै वासुदेवमचूचुदम्।
विदुलायाः प्रलापैस्तैः पालनार्थं च तत्कृतम्।।
नाहं राज्यफलं पुत्राः कामये पुत्रनिर्जितम्।
पतिलोकानहं पुण्यान्कामये तपसा पिभो।।
श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः।
तपसा शोषयिष्यामि युधिष्ठिर कलेवरम्।।
निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह।
धर्मे ते धीयतां बुद्धिर्मनस्तु महदस्तु च।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि अष्टादशोऽध्यायः।। 18 ।।